गोप्यस्तु श्रुतयो ज्ञेया ऋचो वै गोपकन्यकाः । देवकन्याश्च राजेंद्र तपोयुक्ता मुमुक्षवः
गोपाला मुनयः सर्वे वैकुंठानंदमूर्त्तयः । कल्पवृक्षः कदंबोऽयं परानंदैकभाजनम्
वनमानंदकाख्यं हि महापातकनाशनम् । सिद्धाश्च साध्या गंधर्वाः कोकिलाद्या न संशयः
केचिदानंदहृदयं साक्षाद्यमुनया तनुम् । अनादिर्हरिदासोऽयं भूधरो नात्र संशयः
वेणुर्यः शृणुतं विप्रं तवापि विदितं तथा । द्विज आसीच्छांतमनास्तपः शांतिपरायणः
नाम्ना देवव्रतोदांतः कर्मकांडविशारदः । स वैष्णवजनव्रातमध्यवर्त्ती क्रियापरः
स कदाचन शुश्राव यज्ञेशोऽस्तीति भूपते । तस्य गेहमथाभ्यागाद्द्विजो मद्गतनिश्चयः
स मद्भक्तः क्वचित्पूजां तुलसीदलवारिणा । कृतवांस्तद्गृहे किंचित्फलं मूलं न्यवेदयत्
स्नानवारिफलं किंचित्तस्मै मत्या ददौ सुधीः । अश्रद्धया स्मितं कृत्वा सोऽप्यगृह्णाद्द्विजन्मनः
तेन पापेन संजातं वेणुत्वमतिदारुणम् । तेन पुण्येन तस्याथ मदीय प्रियतां गतः
अमुना सोपि राजेंद्र केतुमानिव राजते । युगांते तद्विष्णुपरो भूत्वा ब्रह्म समाप्स्यति
अहो न जानंति नरा दुराशयाः पुरीं मदीयां परमां सनातनीम् । सुरेंद्र नागेंद्र मुनींद्र संस्तुतां मनोरमां तां मथुरां पुरातनीम्
काश्यादयो यद्यपि संति पुर्यस्तासां तु मध्ये मथुरैव धन्या । यज्जन्ममौंजीव्रतमृत्युदाहैर्नृणां चतुर्द्धा विदधाति मुक्तिम्
यदा विशुद्धास्तपआदिना जनाः शुभाशया ध्यानधना निरंतरम् । तदैव पश्यंति ममोत्तमां पुरीं न चान्यथा कल्पशतैर्द्विजोत्तमाः
मथुरावासिनो धन्या मान्या अपि दिवौकसाम् । अगण्यमहिमानस्ते सर्व एव चतुर्भुजाः
मथुरावासिनो ये तु दोषान्पश्यंति मानवाः । तेषु दोषं न पश्यंति जन्ममृत्युसहस्रजम्
अधना अपि ते धन्या मथुरां ये स्मरंति ते । यत्र भूतेश्वरो देवो मोक्षदः पापिनामपि
मम प्रियतमो नित्यं देवो भूतेश्वरः परः । यः कदापि मम प्रीत्यै न संत्यजति तां पुरीम्
भूतेश्वरं यो न नमेन्न पूजयेन्न वास्मरेद्दुश्चरितो मनुष्यः । नैनां स पश्येन्मथुरां मदीयां स्वयंप्रकाशां परदेवताख्याम्
न कथं मयि भक्तिं स लभते पापपूरुषः । यो मदीयं परं भक्तं शिवं संपूजयेन्नहि
मन्मायामोहितधियः प्रायस्ते मानवाधमाः । भूतेश्वरं न नमंति न स्मरंति स्तुवंति ये
बालकोऽपि ध्रुवो यत्र ममाराधनतत्परः । प्राप स्थानं परं शुद्धं यत्नयुक्तं पितामहैः
तां पुरीं प्राप्य मथुरां मदीयां सुरदुर्लभाम् । खंजो भूत्वांधको वापि प्राणानेव परित्यजेत्
वेदव्यासमहाभाग मा कृथाः संशयं क्वचित् । रहस्यं वेदशिरसां यन्मया ते प्रकाशितम्
इमं भगवता प्रोक्तमध्यायं यः पठेच्छुचिः । शृणुयाद्वापि यो भक्त्या मुक्तिस्तस्यापि शाश्वती
इति श्रीपद्मपुराणे पातालखंडे वृंदावनादिमथुरामाहात्म्यकथनंनाम त्रिसप्ततितमोऽध्यायः
ईश्वर उवाच-। एकदा रहसि श्रीमानुद्धवो भगवित्प्रियः । सनत्कुमारमेकांते ह्यपृच्छत्पार्षदः प्रभो
यत्र क्रीडति गोविंदो नित्यं नित्यसुरास्पदे । गोपांगनाभिर्यत्स्थानं कुत्र वा कीदृशं परम्
तत्तत्क्रीडनवृत्तांतमन्यद्यद्यत्तदद्भुतम् । ज्ञातं चेत्तव तत्कथ्यं स्नेहो मे यदि वर्त्तते
सनत्कुमार उवाच-। कदाचिद्यमुनाकूले कस्यापि च तरोस्तले । सुवृत्तेनोपविष्टेन भगवत्पार्षदेन वै