मद्दर्शनांतः संसार इति सत्यं ब्रवीमि ते । ततोऽहमब्रुवं कृष्णं पुलकोत्फुल्लविग्रहः
त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन । यत्तत्सत्यं परं ब्रह्म जगज्ज्योतिं जगत्पतिम्
वदंति वेदशिरसश्चाक्षुषं नाथमद्भुतम् । श्रीभगवानुवाच-। ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा
यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते । मामेके प्रकृतिं प्राहुः पुरुषं च तथेश्वरम्
धर्ममेके धनं चैके मोक्षमेकेऽकुतोभयम् । शून्यमेके भावमेके शिवमेके सदाशिवम्
अपरे वेदशिरसि स्थितमेकं सनातनम् । सद्भावं विक्रियाहीनं सच्चिदानंदविग्रहम्
पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम् । ततोऽपश्यं भूपबालमहं कालांबुदप्रभम्
गोपकन्यावृतं गोपं हसंतं गोपबालकैः । कदंबमूलआसीनं पीतवाससमद्भुतम्
वनं वृंदावनं नाम नवपल्लवमंडितम् । कोकिलभ्रमरारावं मनोभव मनोहरम्
नदीमपश्यं कालिंदीमिंदीवरदलप्रभाम् । गोवर्द्धनमथापश्यं कृष्णरामकरोद्धृतम्
महेंद्रदर्पनाशाय गोगोपालसुखावहम् । गोपालमबलासंगमुदितं वेणुवादिनम्
दृष्ट्वातिहृष्टो ह्यभवं सर्वभूषणभूषणम् । ततो मामाह भगवान्वृंदावनचरः स्वयम्
यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् । निष्कलं निष्क्रियं शांतं सच्चिदानंदविग्रहम्
पूर्णं पद्मपलाशाक्षं नातः परतरं मम । इदमेववदंत्येतेवेदाःकारणकारणम्
सत्यंनित्यंपरानंदंचिद्घनंशाश्वतंशिवम् । नित्यां मे मथुरां विद्धि वनं वृंदावनं तथा
यमुनां गोपकन्याश्च तथा गोपालबालकाः । ममावतारो नित्योऽयमत्र मा संशयं कृथाः
ममेष्टा हि सदा राधा सर्वज्ञोऽहं परात्परः । सर्वकामश्च सर्वेशः सर्वानंदः परात्परः
मयि सर्वमिदं विश्वं भाति मायाविजृंभितम् । ततोऽहमब्रुवं देवं जगत्कारणकारणम्
काश्च गोप्यस्तु के गोपा वृक्षोऽयं कीदृशो मतः । वनं किं कोकिलाद्याश्च नदी केयं गिरिश्च कः
कोऽसौ वेणुर्महाभागो लोकानंदैकभाजनम् । भगवानाह मां प्रीतः प्रसन्नवदनांबुजः
गोप्यस्तु श्रुतयो ज्ञेया ऋचो वै गोपकन्यकाः । देवकन्याश्च राजेंद्र तपोयुक्ता मुमुक्षवः
गोपाला मुनयः सर्वे वैकुंठानंदमूर्त्तयः । कल्पवृक्षः कदंबोऽयं परानंदैकभाजनम्
वनमानंदकाख्यं हि महापातकनाशनम् । सिद्धाश्च साध्या गंधर्वाः कोकिलाद्या न संशयः
केचिदानंदहृदयं साक्षाद्यमुनया तनुम् । अनादिर्हरिदासोऽयं भूधरो नात्र संशयः
वेणुर्यः शृणुतं विप्रं तवापि विदितं तथा । द्विज आसीच्छांतमनास्तपः शांतिपरायणः
नाम्ना देवव्रतोदांतः कर्मकांडविशारदः । स वैष्णवजनव्रातमध्यवर्त्ती क्रियापरः
स कदाचन शुश्राव यज्ञेशोऽस्तीति भूपते । तस्य गेहमथाभ्यागाद्द्विजो मद्गतनिश्चयः
स मद्भक्तः क्वचित्पूजां तुलसीदलवारिणा । कृतवांस्तद्गृहे किंचित्फलं मूलं न्यवेदयत्
स्नानवारिफलं किंचित्तस्मै मत्या ददौ सुधीः । अश्रद्धया स्मितं कृत्वा सोऽप्यगृह्णाद्द्विजन्मनः
तेन पापेन संजातं वेणुत्वमतिदारुणम् । तेन पुण्येन तस्याथ मदीय प्रियतां गतः