आपादतुलसीमालं कंकणांगदभूषणम् । नूपुरैर्मुद्रिकाभिश्च कांच्या च परिमंडितम्
सुकुमारतरं ध्यायेत्किशोरवयसान्वितम् । पूजा दशाक्षरोक्तैव वेदलक्षं पुरस्क्रिया
इत्युक्त्वांतर्दधे देवो देवी च गिरिजा सती । मुनिरागत्य पुत्राय तथैवोपदिदेश ह
पुण्यश्रवास्तु तन्मंत्र ग्रहणादेव केशवम् । वर्णयामास विविधैर्जित्वा सर्वान्मुनीन्स्वयम्
रूपलावण्यवैदग्ध्य सौंदर्याश्चर्यलक्षणम् । तदा हृष्टमना बालो निर्गत्य स्वगृहात्ततः
वायुभक्षस्तपस्तेपे कल्पानामयुतत्रयम् । तदंते गोकुले जाता नंदभ्रातुर्गृहे स्वयम्
लवंगा इति तन्नाम कृष्णेंगित निरीक्षणा । यस्या हस्ते प्रदृश्येत मुखमार्जनयंत्रकम्
इति ते कथिताः काश्चित्प्रधानाः कृष्णवल्लभाः
हरिविविधरसाद्यैर्युक्तमध्यायमेतद्व्रजवरतनयाभिश्चारुहासेक्षणाभिः । पठति य इह भक्त्या पाठयेद्वा मनुष्यो व्रजति भगवतः श्रीवासुदेवस्य धाम
ईश्वर उवाच-। यत्त्वया पृष्टमाश्चर्यं तन्मया भाषितं क्रमात् । यत्र मुह्यंति ब्रह्माद्यास्तत्र को वा न मुह्यति
तथापि ते प्रवक्ष्यामि यदुक्तं परमर्षिणा । महाराजमंबरीषं विष्णुभक्तं शिवान्वितम्
बदर्याश्रममासाद्य समासीनं जितेंद्रियम् । राजा प्रणम्य तुष्टाव विष्णुधर्मविवित्सया
वेदव्यासं महाभागं सर्वज्ञं पुरुषोत्तमम् । मां त्वं संसारदुष्पारे परित्रातुमिहार्हसि
विषयेषु विरक्तोऽस्मि नमस्तेभ्यो नमोखिलम् । यत्तत्पदमनुद्विग्नं सच्चिदानंदविग्रहम्
परं ब्रह्म पराकाशमनाकाशमनामयम् । यत्साक्षात्कृत्य मुनयो भवांभोधिं तरंति हि
तत्राहं मनसो नित्यं कथं गतिमवाप्नुयाम् । व्यास उवाच-। अतिगोप्यं त्वया पृष्टं यन्मया न शुकं प्रति
गदितं स्वसुतं किंतु त्वां वक्ष्यामि हरिप्रियम् । आसीदिदं परं विश्वं यद्रूपं यत्प्रतिष्ठितम्
अव्याकृतमव्यथितं तदीश्वरमयं शृणु । मया कृतं तपः पूर्वं बहुवर्षसहस्रकम्
फलमूलपलाशांबु वाय्वाहारनिषेविणा । ततो मामाहभगवान्स्वध्याननिरतं हरिः
कस्मिन्नर्थे चिकीर्षाते विवित्सा वा महामते । प्रसन्नोऽस्मि वृणुष्व त्वं वरं च वरदर्षभात्
मद्दर्शनांतः संसार इति सत्यं ब्रवीमि ते । ततोऽहमब्रुवं कृष्णं पुलकोत्फुल्लविग्रहः
त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन । यत्तत्सत्यं परं ब्रह्म जगज्ज्योतिं जगत्पतिम्
वदंति वेदशिरसश्चाक्षुषं नाथमद्भुतम् । श्रीभगवानुवाच-। ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा
यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते । मामेके प्रकृतिं प्राहुः पुरुषं च तथेश्वरम्
धर्ममेके धनं चैके मोक्षमेकेऽकुतोभयम् । शून्यमेके भावमेके शिवमेके सदाशिवम्
अपरे वेदशिरसि स्थितमेकं सनातनम् । सद्भावं विक्रियाहीनं सच्चिदानंदविग्रहम्
पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम् । ततोऽपश्यं भूपबालमहं कालांबुदप्रभम्
गोपकन्यावृतं गोपं हसंतं गोपबालकैः । कदंबमूलआसीनं पीतवाससमद्भुतम्
वनं वृंदावनं नाम नवपल्लवमंडितम् । कोकिलभ्रमरारावं मनोभव मनोहरम्
नदीमपश्यं कालिंदीमिंदीवरदलप्रभाम् । गोवर्द्धनमथापश्यं कृष्णरामकरोद्धृतम्