मयि स्वर्गं गते शक्र गृहाण त्वं यथेच्छया । महादेव उवाच- एवमुक्त्वा यदुश्रेष्ठस्तस्मै वज्रं ददौ स्वयम्
एवमस्त्विति गोविंदं नमस्कृत्य स वज्रभृत् । प्रययौ स्वपुरं दिव्यं सह देवगणैर्वृतः
कृष्णोऽपि सत्यया देव्या गरुडोपरि संस्थितः । संस्तूयमानो मुनिभिर्द्वारवत्यां विवेश ह
सत्यया निकटे स्थाप्य पारिजातं सुरद्रुमम् । रमयामास भार्याभिः सर्वाभिः सर्वगो हरिः
निशासु तासां सर्वासां गृहेषु मधुसूदनः । विश्वरूपधरः श्रीमानुवास स सुखप्रदः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे । उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीवासुदेवविवाहकथनं नामैकोनपंचाशदधिकद्विशततमोऽध्यायः
श्रीरुद्र उवाच- अथ पौंड्रक वासुदेवः काशिराजो वाराणस्यां विविक्ते द्वादशवर्षं महेशमर्च्चयन्निराहारः पंचाक्षरं जजाप
पौरश्चरणकाले शंकरं स्वनेत्रकमलेन पूजयामास
ततः शूलपाणिरुमापतिः प्रसन्नो वरं वृणीष्वेति तमाह
असौ पंचवक्त्रंसर्वभूतपतिं शिवं प्रसन्नं वरद मम वासुदेवसमानरूपं प्रयच्छेत्युवाच
शिवस्तस्मै शंख चक्र गदा पद्मयुत चतुर्भुजं पुंडरीकदलनिभलोचनं वासुदेवसमानकिरीट। ललित कुंतलं पीतवस्त्रकौस्तुभाभरणादि चिह्नान्यपि मह्यं देहीति याचितः शिवः सर्वमपि तस्मै प्रददौ
स तु वासुदेवोऽहमिति सर्वलोकान्मोहयामास
कदाचित्स्वर्गतः मदबलोत्कटं तं काशिपतिं नारदोऽभ्येत्य वसुदेवसुतमजित्वा वासुदेवत्वं न विद्यते इत्युवाच
स तु तस्मिन्नेव क्षणे गरुडपताकायुतरूपं रथमारोप्य चतुरंगाक्षौहिणीबलेन द्वारकामवाप
तत्र पुरद्वारि स्वर्णयाने संस्थितो वासुदेवोऽहं युद्धार्थं संप्राप्तोस्मि मामजित्वात ववासुदेवत्वं नास्तीति दूतं प्रेषयामास
विष्णुरपि तच्छ्रुत्वा वैनतेयमारुह्य पौंड्रकेण योद्धुं पुरद्वारि विनिष्क्रम्याक्षौहिणीबलेन स्यंदने समासीनं शंखचक्रगदापद्महस्तं पौंड्रकं ददर्श
कृष्णोऽथ शार्ङ्गमादाय संवर्ताग्निप्रभैर्बाणैस्तथाश्वगजपदातियुक्तं महदक्षौहिणीबलं मुहूर्तमात्रेण निःशेषं ददाह
शरेणैकेन तस्य हस्तावसक्तशंखचक्रगदादिहेतीरपि लीलयैव चिच्छेद
पवित्रेण सुदर्शनेन किरीटकुंडलयुतं तस्य शिरः कमलं छित्त्वा वाराणस्यामंतः पुरे निपातयामास
तद्दृष्ट्वा सर्वे काशीनिवासिनः किमेतदित्याशंक्य विस्मिता बभूवुः
तस्य पौंड्रकस्य सुतो दंडपाणिरिति वासुदेवेन भगवता निहतं स्वपितरं श्रुत्वा मात्रा मृत्युना समादिष्टः स्वपुरोहितेनाभियुक्तो माहेश्वरेण क्रतुना शंकरमियाज
स तु प्रसन्नः कृष्णजिघांसया समर्थां माहेश्वरीं कृत्यां तस्मै संप्रीत्या च दत्तवान्
स काशिराजस्तां महोश्वरीं ज्वालाकुलोपचितविग्रहां संदीप्तसटाकलापां पिंगलनेत्रां ज्वलत्करालवदनां त्रिशूलहस्तां भस्मांगरागलिप्तां नरमुंडमालाविभूषितां सर्वदेवभयंकरीं रुद्रदत्तां समीक्ष्य सपुत्रदारबांधवसहितं कृष्णं जहीति प्रेरयामास
सा तु सर्वलोकभयावहा सर्वां पृथ्वीं स्वतेजसा निर्दहंती प्रलयाशनिनिर्भरस्वनं नदंती द्वारकामवाप
तत्रत्याः सर्वेजनास्तां दृष्ट्वा महाप्रलयमिति मत्वा हाहाकारं कुर्वंतः कृष्णं निवेदयामासुः
कृष्णोऽपि तान्सर्वान्न भेतव्यमित्युक्त्वा प्राकारतोरणे स्थितां महारौद्रां कृत्यां तथाविधां दृष्ट्वा सकलशस्त्रास्त्रानिवारणसमर्थं सहस्रारं सुदर्शनं तस्या कृत्यायां सहसा मुमोच
सा तु कल्पान्तार्ककोटिसमवर्चसा शतयोजनोद्गतं सकलदीप्तास्त्रयुतं हिरण्मयं प्रभापूर्णं सकलजगत्प्रलयस्थितिसमर्थं सहस्रारं सर्वदेवनमस्कृतं जगच्छरणभूतं महासुदर्शनं विलोक्य विनष्टतेजा भयार्ता क्रोशंती वाराणसीं प्रतिदुद्राव
सुदर्शनमपि तां कृत्यां भृशमन्वगात्
सापि भयार्ता क्रोशंती काशिपतेस्तस्यांतःपुरं प्रविवेश
सुदर्शनोऽपि तां वाराणसीं पुरीं प्राप्य सभृत्यबलवाहनं पौंड्रकसुतं दंडपाणिं नामकाशिराजं बहुप्रासादहर्म्यमालिनीं पुरीं माहेश्वरीमपि भस्मावशेषां कृत्वा सकलदेवमहर्षिभिः पूज्यमानः पुनरेव द्वारवत्यां कृष्णहस्तं सुसौम्यं कल्पमिव आविवेश