तन्मूले ह्यर्द्धरात्रे च द्रक्ष्यस्यस्मानशेषतः । श्रुत्वैवं वचनं तासां स्नेहविह्वलचेतसाम्
यावत्प्रदक्षिणीकृत्य प्रणमेद्दंडवन्मुनिः । मुहूर्त्तद्वितयं बालां नानानिर्माणशोभनाम्
आहूय भानुं प्रोवाच नारदः सर्वशोभनाम् । एवं प्रभावा बालेयं न साध्या दैवतैरपि
किंतु यद्गृहमेतस्याः पदचिह्नविभूषितम् । तत्र नारायणो देवः स्वयं वसति माधवः
लक्ष्मीश्च वसते नित्यं सर्वाभिः सर्वसिद्धिभिः । अद्य एनां वरारोहां सर्वाभरणभूषणाम्
देवीमिव परां गेहे रक्ष यत्नेन सत्तम । इत्युक्त्वा मनसैवैनां महाभागवतोत्तमः
तद्रूपमेव संस्मृत्य प्रविष्टो गहनं वनम् । अशोकलतिकामूलमासाद्य मुनिसत्तमः
प्रतीक्षमाणो देवीं तां तत्रैवागमनं निशि । स्थितोऽत्र प्रेमविकलश्चिंतयन्कृष्णवल्लभाम्
अथ मध्यनिशाभागे युवत्यः परमाद्भुताः । पूर्वं दृष्ट्वास्तथान्याश्च विचित्राभरणस्रजः
दृष्ट्वा मनसि संभ्रांतो दंडवत्पतितो भुवि । परिवार्य मुनिं सर्वास्ताः प्रविविशुः शुभाः
प्रष्टुकामोऽपि स मुनिः किंचित्स्वाभिमतं प्रियम् । नाशकत्प्रेमलावण्यप्रियभाषाप्रधर्षितः
अथागता मुनिश्रेष्ठं कृतांजलिमवस्थितम् । भक्तिभारानतग्रीवं सविस्मयं ससंभ्रमम्
सुविनीततमं प्राह तत्रैव करुणान्विता । अशोकमालिनी नाम्ना अशोकवनदेवता
अशोकमालिन्युवाच। अशोककलिकायां तु वसाम्यस्यां महामुने । रक्तांबरधरा नित्यं रक्तमालानुलेपना
रक्तसिंदूरकलिका रक्तोत्पलवतंसिनी । रक्तमाणिक्यकेयूर मुकुटादिविभूषिता
एकदा प्रियया सार्द्धं विहरंत्यो मधूत्सवे । तत्रैव मिलिता गोपबालिकाश्चित्रवाससः
अहं चाशोकमालाभिर्गोपवेषधरं हरिम् । रमारूपाश्च ताः सर्वा भक्त्या सम्यगपूजयम्
ततः प्रभृति चैतासां मध्ये तिष्ठामि सर्वदा । भूषाभिर्विविधाभिश्च तोषयित्वा रमापतिम्
परात्परमहं सर्वं विजानामीह सर्वतः । गोगोपगोपिकादीनां रहस्यं चापि वेद्म्यहम्
तव जिज्ञासितं सर्वं हृदि प्रत्यभिभाषितम् । तां देवीमद्भुताकारामद्भुतानंददायिनीम्
हरेः प्रियां हिरण्याभां हीरकोज्ज्वलमुद्रिकाम् । कथं पश्यामि लोलाक्षीं कथं वा तत्पदांबुजम्
आराध्यतेऽतिभक्त्येति त्वया ब्रह्मन्विमर्शितम् । तत्र ते कथयिष्यामि वृत्तांतं सुमहात्मनाम्
मानसे सरसि स्थित्वा तपस्तीव्रमुपेयुषाम् । जपतां सिद्धमंत्रांश्च ध्यायतां हरिमीश्वरम्
मुनीनां कांक्षतां नित्यं तस्या एव पदांबुजम् । एकसप्ततिसाहस्रं संख्यातानां महौजसाम्
तत्तेऽहं कथयाम्यद्य तद्रहस्यं परं वने
ईश्वर उवाच-। तदेकाग्रमना भूत्वा शृणु देवि वरानने । आसीदुग्रतपा नाम मुनिरेको दृढव्रतः
साग्निको ह्यग्निभक्षश्च चचारात्यद्भुतं तपः । जजाप परमं जाप्यं मंत्रं पंचदशाक्षरम्
काममंत्रेण पुटितं कामं कामवरप्रदात् । कृष्णायेति पदं स्वाहा सहितं सिद्धिदं परम्
दध्यौ च श्यामलं कृष्णं रासोन्मत्तं वरोत्सुकम् । पीतपट्टधरं वेणुं करेणाधरमर्पितम्
नवयौवनसंपन्नं कर्षंतं पाणिना प्रियाम् । एवं ध्यानपरः कल्पशतांते देहमुत्सृजन्