हरि मानुषलोभेन वपुराश्चर्यमंडितम् । द्रष्टुं तदहमिच्छामि रूपं ते हरिवल्लभे
येन नंदसुतः कृष्णो मोहं समुपयास्यति । इदानीं मम कारुण्यान्निजं रूपं महेश्वरि
प्रणताय प्रपन्नाय प्रकाशयितुमर्हसि । इत्युक्ता मुनिवर्य्येण तदनुव्रतचेतसा
महामाहेश्वरीं नत्वा महानंदमयीं पराम् । महाप्रेमतरोत्कंठा व्याकुलांगीं शुभेक्षणाम्
ईक्षमाणेन गोविंदमेवं वर्णयतास्थितम् । जयकृष्ण मनोहारिञ्जय वृंदावनप्रिय
जयभ्रूभंगललित जयवेणुरवाकुल । जय बर्हकृतोत्तंस जयगोपीविमोहन
जय कुंकुमलिप्तांग जय रत्नविभूषण । कदाहं त्वत्प्रसादेन अनया दिव्यरूपया
सहितं नवतारुण्य मनोहारि वपुःश्रिया । विलोकयिष्ये कैशोरे मोहनं त्वां जगत्पते
एवं कीर्त्तयतस्तस्य तत्क्षणादेव सा पुनः । बभूव दधती दिव्यं रूपमत्यंतमोहनम्
चतुर्दशाब्दवयसा संमितं ललितं परम् । समानवयसश्चान्यास्तदैव व्रजबालिकाः
आगत्य वेष्टयामासुर्दिव्यभूषांबरस्रजः । मुनींद्रः स तु निश्चेष्टो बभूवाश्चर्यमोहितः
बालायास्तास्तदा सख्यश्चरणांबुकणैर्मुनिम् । निषिच्य बोधयामासुरूचुश्च कृपयान्विताः
मुनिवर्य महाभाग महायोगेश्वरेश्वर । त्वयैव परया भक्त्या भगवान्हरिरीश्वरः
नूनमाराधितो देवो भक्तानां कामपूरकः । यदियंब्रह्मरुद्राद्यैर्देवैः सिद्धमुनीश्वरैः
महाभागवतैश्चान्यैर्दुर्दर्शा दुर्गमापि च । अत्यद्भुतवयोरूपमोहिनी हरिवल्लभा
केनाप्यचिंत्य भाग्येन तवदृष्टिपथं गता । उत्तिष्ठोत्तिष्ठ विप्रर्षे धैर्यमालंब्य सत्वरम्
एनां प्रदक्षिणीकृत्य नमस्कुरु पुनःपुनः । किं न पश्यसि चार्वंगीमत्यंतव्याकुलामिव
अस्मिन्नेव क्षणे नूनमंतर्धानं गमिष्यति । नानया सह संलापः कथंचित्ते भविष्यति
दर्शनं च पुनर्नास्याः प्राप्स्यसि ब्रह्मवित्तम । किंतु वृंदावने कापि भात्यशोकलता शुभा
सर्वकालेऽपि पुष्पाढ्या सर्वदिग्व्यापि सौरभा । गोवर्द्धनाददूरेण कुसुमाख्यसरस्तटे
तन्मूले ह्यर्द्धरात्रे च द्रक्ष्यस्यस्मानशेषतः । श्रुत्वैवं वचनं तासां स्नेहविह्वलचेतसाम्
यावत्प्रदक्षिणीकृत्य प्रणमेद्दंडवन्मुनिः । मुहूर्त्तद्वितयं बालां नानानिर्माणशोभनाम्
आहूय भानुं प्रोवाच नारदः सर्वशोभनाम् । एवं प्रभावा बालेयं न साध्या दैवतैरपि
किंतु यद्गृहमेतस्याः पदचिह्नविभूषितम् । तत्र नारायणो देवः स्वयं वसति माधवः
लक्ष्मीश्च वसते नित्यं सर्वाभिः सर्वसिद्धिभिः । अद्य एनां वरारोहां सर्वाभरणभूषणाम्
देवीमिव परां गेहे रक्ष यत्नेन सत्तम । इत्युक्त्वा मनसैवैनां महाभागवतोत्तमः
तद्रूपमेव संस्मृत्य प्रविष्टो गहनं वनम् । अशोकलतिकामूलमासाद्य मुनिसत्तमः
प्रतीक्षमाणो देवीं तां तत्रैवागमनं निशि । स्थितोऽत्र प्रेमविकलश्चिंतयन्कृष्णवल्लभाम्
अथ मध्यनिशाभागे युवत्यः परमाद्भुताः । पूर्वं दृष्ट्वास्तथान्याश्च विचित्राभरणस्रजः
दृष्ट्वा मनसि संभ्रांतो दंडवत्पतितो भुवि । परिवार्य मुनिं सर्वास्ताः प्रविविशुः शुभाः