तत आभाष्य तं गोपप्रवरं मुनिपुंगवः । यदा गंतुं मनश्चक्रे तत्रैवं भानुरब्रवीत्
एकास्ति पुत्रिका देव देवपत्न्युपमा मम । कनीयसी शिशोरस्य जडांधबधिराकृतिः
उत्साहाद्वृद्धये याचे त्वां वरं भगवत्तम । प्रसन्नदृष्टिमात्रेण सुस्थिरां कुरु बालिकाम्
श्रुत्वैवं नारदो वाक्यं कौतुकाकृष्टमानसः । अथ प्रविश्य भवनं लुठंतीं भूतले सुताम्
उत्थाप्यांके निधायातिस्नेहविह्वलमानसः । भानुरप्याययौ भक्तिनम्रो मुनिवरांतिकम्
अथ भागवतश्रेष्ठः कृष्णस्यातिप्रियो मुनिः । दृष्ट्वा तस्याः परं रूपमदृष्टाश्रुतमद्भुतम्
अभूत्पूर्वसमं मुग्धो हरिप्रेमा महामुनिः । विगाह्य परमानंदसिंधुमेकरसायनम्
मुहूर्त्तद्वितयं तत्र मुनिरासीच्छिलोपमः । मुनींद्रः प्रतिबुद्धस्तु शनैरुन्मील्य लोचने
महाविस्मयमापन्नस्तूष्णीमेव स्थितोऽभवत् । अंतर्हृदि महाबुद्धिरेवमेवं व्यचिंतयत्
भ्रांतं सर्वेषु लोकेषु मया स्वच्छंदचारिणा । अस्या रूपेण सदृशी दृष्ट्वा नैव च कुत्रचित्
ब्रह्मलोके रुद्रलोक इंद्रलोके च मे गतिः । न कोपि शोभाकोट्यंशः कुत्राप्यस्या विलोकितः
महामाया भगवती दृष्टा शैलेंद्रनंदिनी । यस्या रूपेण सकलं मुह्यते सचराचरम्
साप्यस्याः सुकुमारांगी लक्ष्मीं नाप्नोति कर्हिचित् । लक्ष्मीः सरस्वती कांति विद्याद्याश्च वरस्त्रियः
छायामपि स्पृशंत्यस्याः कदाचिन्नैव दृश्यते । विष्णोर्यन्मोहिनीरूपं हरो येन विमोहितः
मया दृष्टं च तदपि कुतोऽस्यासदृशं भवेत् । ततोऽस्यास्तत्त्वमाज्ञातुं न मे शक्तिः कथंचन
अन्ये चापि न जानंति प्रायेणैनां हरेः प्रियाम् । अस्याः संदर्शनादेव गोविंदचरणांबुजे
या प्रेमर्द्धिरभूत्सा मे भूतपूर्वा न कर्हिचित् । एकांते नौमि भवतीं दर्शयित्वातिवैभवम्
कृष्णस्य संभवत्यस्या रूपं परमतुष्टये । विमृश्यैवं मुनिर्गोपप्रवरं प्रेष्य कुत्रचित्
निभृते परितुष्टाव बालिकां दिव्यरूपिणीम् । अपि देवि महायोगमायेश्वरि महाप्रभे
महामोहनदिव्यांगि महामाधुर्यवर्षिणि । महाद्भुतरसानंदशिथिलीकृतमानसे
महाभाग्येन केनापि गतासि मम दृक्पथम् । नित्यमंतर्मुखादृष्टिस्तव देवि विभाव्यते
अंतरेव महानंदपरितृप्तैव लक्ष्यसे । प्रसन्नं मधुरं सौम्यमिदं सुमुखमंडनम्
व्यनक्तिपरमाश्चर्यं कमप्यंतः सुखोदयम् । रजः संबंधिकलिका शक्तिस्तत्वातिशोभने
सृष्टिस्थितिसमाहाररूपिणी त्वमधिष्ठिता । तत्त्वं विशुद्धसत्वाशु शक्तिर्विद्यात्मिका परा
परमानंदसंदोहं दधती वैष्णवं परम् । का त्वयाश्चर्यविभवे ब्रह्मरुद्रादिदुर्गमे
योगींद्राणां ध्यानपथं न त्वं स्पृशसि कर्हिचित् । इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तवेशितुः
तवांशमात्रमित्येवं मनीषा मे प्रवर्त्तते । मायाविभूतयोऽचिंत्यास्तन्मायार्भकमायिनः
परेशस्य महाविष्णोस्ताः सर्वास्ते कलाकलाः । आनंदरूपिणी शक्तिस्त्वमीश्वरि न संशयः
त्वया च क्रीडते कृष्णो नूनं वृंदावने वने । कौमारेणैव रूपेण त्वं विश्वस्य च मोहिनी
तारुण्यवयसा स्पृष्टं कीदृक्ते रूपमद्भुतम् । कीदृशं तव लावण्यं लीलाहासेक्षणान्वितम्