श्रीकृष्णचरितं ह्येतद्यः पठेत्प्रयतः शुचिः । शृणुयाद्वापि यो भक्त्या गोविंदे लभते रतिम्
इति श्रीपद्मपुराणे पातालखंडे कृष्णचरिते सप्ततितमोऽध्यायः
श्रीदेव्युवाच- भगवन्सर्वभूतेश सर्वात्मन्सर्वसंभव । देवेश्वर महादेव सर्वज्ञ करुणाकर
त्वयानुकंपितैवाहं भूयोऽप्याहानुकंपया । त्रैलोक्यमोहना मंत्रास्त्वया मे कथिताः प्रभो
तेन देवेन गोपीभिर्महामोहनरूपिणा । केन केन विशेषण चिक्रीडे तद्वदस्व मे
महादेव उवाच। एकदा वादयन्वीणां नारदो मुनिपुंगवः । कृष्णावतारमाज्ञाय प्रययौ नंदगोकुलम्
गत्वा तत्र महायोगमयेशं विभुमच्युतम् । बालनाट्यधरं देवदर्शनं नंदवेश्मनि
सुकोमलपटास्तीर्णहेमपर्यंकिकोपरि । शयानं गोपकन्याभिः प्रेक्षमाणं सदा मुदम्
अतीव सुकुमारांगं मुग्धं मुग्धविलोकनम् । विस्रस्तनीलकुटिलकुंतलावनिमंडलम्
किंचित्स्मितांकुरव्यंजदेकद्विरदकुड्मलम् । स्वप्रभाभिर्भासयंतं समंताद्भवनोदरम्
दिग्वाससं समालोक्य सोऽतिहर्षमवाप ह । संभाष्य गोपतिं नंदमाह सर्वप्रभुप्रियः
नारायणपराणां तु जीवनं ह्यतिदुर्लभम् । अस्य प्रभावमतुलं न जानंतीह केचन
भव ब्रह्मादयोऽप्यस्मिन्रतिं वांच्छन्ति शाश्वतीम् । चरितं चास्य बालस्य सर्वेषामेव हर्षणम्
मुदा गायंति शृण्वंति चाभिनंदंति तादृशाः । अस्मिंस्तव सुतेऽचिंत्यप्रभावे स्निग्धमानसाः
नराः संति न तेषां वै भवबाधा भविष्यति । मुंचेह परलोकेच्छाः सर्वा बल्लवसत्तम
एकांतेनैकभावेन बालेऽस्मिन्प्रीतिमाचर । इत्युक्त्वा नंदभवनान्निष्क्रांतो मुनिपुंगवः
तेनार्चितो विष्णुबुद्ध्या प्रणम्य च विसर्जितः । अथासौ चिंतयामास महाभागवतो मुनिः
अस्य कांता भगवती लक्ष्मीर्नारायणे हरौ । विधाय गोपिकारूपं क्रीडार्थं शार्ङ्गधन्वनः
अवश्यमवतीर्णा सा भविष्यति न संशयः । तामहं विचिनोम्यद्य गेहेगेहे व्रजौकसाम्
विमृश्यैवं मुनिवरो गेहानि व्रजवासिनाम् । प्रविवेशातिथिर्भूत्वा विष्णुबुद्ध्या सुपूजितः
सर्वेषां बल्लवादीनां रतिं नंदसुते पराम् । दृष्ट्वा मुनिवरः सर्वान्मनसा प्रणनाम ह
गोपालानां गृहे बालां ददर्श श्वेतरूपिणीम् । स दृष्ट्वा तर्कयामास रमा ह्येषा न संशयः
प्रविवेश ततो धीमान्नंदसख्युर्महात्मनः । कस्यचिद्गोपवर्य्यस्य भानुनाम्नो गृहं महत्
अर्चितो विधिवत्तेन सोऽप्यपृच्छन्महामनाः । साधो त्वमसि विख्यातो धर्मनिष्ठतया भुवि
तवाहं धनधान्यादि समृद्धिं संविभावये । कच्चित्ते योग्यः पुत्रोऽस्ति कन्या वा शुभलक्षणा
यतस्ते कीर्तिरखिलं लोकं व्याप्य भविष्यति । इत्युक्तो मुनिवर्य्येण भानुरानीय पुत्रकम्
महातेजस्विनं दृप्तं नारदायाभ्यवादयत् । दृष्ट्वा मुनिवरस्तं तु रूपेणाप्रतिमं भुवि
पद्मपत्रविशालाक्षं सुग्रीवं सुंदरभ्रुवम् । चारुदंतं चारुकर्णं सर्वावयवसुंदरम्
तं समाश्लिष्य बाहुभ्यां स्नेहाश्रूणि विमुच्य च । ततः स गद्गद प्राह प्रणयेन महामुनिः
नारद उवाच-। अयं शिशुस्ते भविता सुसखा रामकृष्णयोः । विहरिष्यति ताभ्यां च रात्रिंदिवमतंद्रितः