शच्यै देव्यै ददुः प्रीत्या सहस्राक्षेण चोदिताः । प्रगृह्य तानि पुष्पाणि शचीदेवी सुमध्यमा
नीलनिर्मलकेशे च बबंध स्वस्य मूर्धनि । अवमान्य शची तत्र सत्यभामां यशस्विनीम्
अनर्हा मानुषी चेयं देवार्हं कुसुमं शुभम् । इति कृत्वा मतिं तस्यै न ददौ कुसुमानि सा
विनिष्क्रम्य पुरात्तस्मात्सत्या कोपसमन्विता । समेत्य कृष्णं भर्त्तारमुवाच कमलेक्षणा
सत्योवाच- एषा शची यदुश्रेष्ठ पारिजातेन गर्विता । अदत्त्वा मम गोविंद बबंध स्वस्य मूर्द्धनि
महादेव उवाच-। सत्यया भाषितं श्रुत्वा वासुदेवो महाबलः । उत्पाट्य पारिजातं तु निवेश्य गरुडोपरि
आरुह्य सत्यया तूर्णं वैनतेयं महाबलम् । प्रययौ द्वारकां रम्यां नगरीं देवकीसुतः
ततः कोपसमाविष्टो देवराजः शतक्रतुः । रुद्रैर्वसुभिरादित्यैः साध्यैश्च मरुतां गणैः
ऐरावतं समारुह्य ययौ युद्धाय केशवम् । ततो देवगणाः सर्वे परिवार्य्य जनार्दनम्
ववृषुः शस्त्रवर्षाणि मेघा इव महाचलम् । कृष्णश्चिच्छेद चक्रेण तान्यस्त्राणि दिवौकसाम्
वैनतयस्तु संक्रुद्धः पक्षपातेन वीर्यवान् । पातयामास तान्देवान्पलालानीव मारुतः
ततः क्रुद्धः सहस्राक्षो देवानामीश्वरः प्रभुः । मुमोच सहसा दीप्तं वज्रं कृष्णजिघांसया
जग्राह कृष्णस्तं वज्रं हस्तेनैकेन लीलया । ततो भीतः सहस्राक्षो नागेंद्रादवरुह्य सः
प्रांजलिः पुरतः स्थित्वा नमस्कृत्वा जनार्दनम् । प्राह गद्गदया वाचा स्तुत्वा स्तुतिभिरेव च १०० 6.249.
इंद्र उवाच- देवयोग्यमिदं कृष्ण पारिजातं त्वया पुरा । दत्तो मम सुराणां च कथं स्थास्यति मानुषे
महादेव उवाच- ततः प्रोवाच भगवान्सहस्राक्षमुपस्थितम् । शच्यावमानिता सत्या तव गेहे सुरेश्वर
अदत्त्वा पारिजातानि सत्यायै सा पुलोमजा । स्वयमेव स्वशिरसि धारयामास ते प्रिया
अस्या निमित्तं देवेंद्र पारिजातो हृतो मया । अस्यै प्रतिश्रुतं दातुं मया सुरगणेश्वर
तव गेहे पारिजातं स्थापयामीति वासव । तस्मादद्य न दातव्यः पारिजातः सुरेश्वर
देवतानां हितार्थाय प्रापयिष्यामि भूतले । तावत्तिष्ठतु देवेंद्र पारिजातो ममालये
मयि स्वर्गं गते शक्र गृहाण त्वं यथेच्छया । महादेव उवाच- एवमुक्त्वा यदुश्रेष्ठस्तस्मै वज्रं ददौ स्वयम्
एवमस्त्विति गोविंदं नमस्कृत्य स वज्रभृत् । प्रययौ स्वपुरं दिव्यं सह देवगणैर्वृतः
कृष्णोऽपि सत्यया देव्या गरुडोपरि संस्थितः । संस्तूयमानो मुनिभिर्द्वारवत्यां विवेश ह
सत्यया निकटे स्थाप्य पारिजातं सुरद्रुमम् । रमयामास भार्याभिः सर्वाभिः सर्वगो हरिः
निशासु तासां सर्वासां गृहेषु मधुसूदनः । विश्वरूपधरः श्रीमानुवास स सुखप्रदः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे । उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीवासुदेवविवाहकथनं नामैकोनपंचाशदधिकद्विशततमोऽध्यायः
श्रीरुद्र उवाच- अथ पौंड्रक वासुदेवः काशिराजो वाराणस्यां विविक्ते द्वादशवर्षं महेशमर्च्चयन्निराहारः पंचाक्षरं जजाप
पौरश्चरणकाले शंकरं स्वनेत्रकमलेन पूजयामास
ततः शूलपाणिरुमापतिः प्रसन्नो वरं वृणीष्वेति तमाह
असौ पंचवक्त्रंसर्वभूतपतिं शिवं प्रसन्नं वरद मम वासुदेवसमानरूपं प्रयच्छेत्युवाच