केचिद्वदंति तस्यांशं ब्रह्मचिद्रूपमद्वयम् । तद्दशांशं महाविष्णुं प्रवदंति मनीषिणः
योगींद्रैः सनकाद्यैश्च तदेव हृदि चिंत्यते । त्रिभंगं ललिताशेष निर्माणसारनिर्मितम्
तिर्यग्ग्रीवजितानंतकोटिकंदर्पसुंदरम् । वामांसार्पित सद्गण्डस्फुरत्कांचनकुंडलम्
सहापांगेक्षणस्मेरं कोटिमन्मथसुंदरम् । कुंचिताधरविन्यस्त वंशीमंजुकलस्वनैः
जगत्त्रयं मोहयंतं मग्नं प्रेमसुधार्णवे । श्रीपार्वत्युवाच-। परमं कारणं कृष्णं गोविंदाख्यं महत्पदम्
वृंदावनेश्वरं नित्यं निर्गुणस्यैककारणम् । तत्तद्रहस्यमाहात्म्यं किमाश्चर्यं च सुंदरम्
तद्ब्रूहि देवदेवेश श्रोतुमिच्छाम्यहं प्रभो । ईश्वर उवाच-। यदंघ्रिनखचंद्रांशु महिमांतो न गम्यते
तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु । अनंतकोटिब्रह्मांडे अनंतत्रिगुणोच्छ्रये
तत्कलाकोटिकोट्यंशा ब्रह्मविष्णुमहेश्वराः । सृष्टिस्थित्यादिना युक्तास्तिष्ठंति तस्य वैभवाः
तद्रूपकोटिकोट्यंशाः कलाः कंदर्पविग्रहाः । जगन्मोहं प्रकुर्वंति तदंडांतरसंस्थिताः
तद्देहविलसत्कांतिकोटिकोट्यंशको विभुः । तत्प्रकाशस्य कोट्यंश रश्मयो रविविग्रहाः
तस्य स्वदेहकिरणैः परानंद रसामृतैः । परमामोदचिद्रूपैर्निर्गुणस्यैककारणैः
तदंशकोटिकोट्यंशा जीवंति किरणात्मकाः । तदंघ्रिपंकजद्वंद्व नखचंद्र मणिप्रभाः
आहुः पूर्णब्रह्मणोऽपि कारणं वेददुर्गमम् । तदंशसौरभानंतकोट्यंशो विश्वमोहनः
तत्स्पर्शपुष्पगंधादि नानासौरभसंभवः । तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा
तत्कलाकोटिकोट्यंशा दुर्गाद्यास्त्रिगुणात्मिकाः । तस्या अंघ्रिरजः स्पर्शात्कोटिविष्णुः प्रजायते
पार्वत्युवाच- यदाकर्णनमेतस्य ये वा पारिषदाः प्रभोः । तदहं श्रोतुमिच्छामि कथयस्व दयानिधे
ईश्वर उवाच। राधया सह गोविंदं स्वर्णसिंहासनेस्थितम् । पूर्वोक्तरूपलावण्यं दिव्यभूषांबरस्रजम्
त्रिभंगी मंजु सुस्निग्धं गोपीलोचनतारकम् । तद्बाह्ये योगपीठे च स्वर्णसिंहासनावृते
प्रत्यंगरभसावेशाः प्रधानाः कृष्णवल्लभाः । ललिताद्याः प्रकृत्यंशा मूलप्रकृतिराधिका
संमुखे ललिता देवी श्यामला वायुकोणके । उत्तरे श्रीमती धन्या ऐशान्यां श्रीहरिप्रिया
विशाखा च तथा पूर्वे शैब्या चाग्नौ ततः परम् । पद्मा च दक्षिणे पश्चान्नैर्ऋते क्रमशः स्थिताः
योगपीठे केसराग्रे चारु चंद्रावती प्रिया । अष्टौ प्रकृतयः पुण्याः प्रधानाः कृष्णवल्लभाः
प्रधानप्रकृतिस्त्वाद्या राधा चंद्रावती समा । चंद्रावली चित्ररेखा चंद्रा मदनसुंदरी
प्रिया च श्रीमधुमती चंद्ररेखा हरिप्रिया । षोडशाद्याः प्रकृतयः प्रधानाः कृष्णवल्लभाः
वृंदावनेश्वरी राधा तथा चंद्रावली प्रिया । अभिन्नगुणलावण्य सौंदर्याश्चारुलोचनाः
मनोहरा मुग्धवेषाः किशोरीवयसोज्ज्वलाः । अग्रेतनास्तथा चान्या गोपकन्याः सहस्रशः
शुद्धकांचनपुंजाभाः सुप्रसन्नाः सुलोचनाः । तद्रूपहृदयारूढास्तदाश्लेष समुत्सुकाः
श्यामामृतरसे मग्नाः स्फुरत्तद्भावमानसाः । नेत्रोत्पलार्चिते कृष्णपादाब्जेऽपितचेतसः
श्रुतिकन्यास्ततो दक्षे सहस्रायुतसंयुताः । जगन्मुग्धीकृताकारा हृद्वर्तिकृष्णलालसाः