गोविंदस्य परं स्थानं किमस्य महिमोच्यते । श्रीमद्गोविंदमंत्रस्थ बल्लवीवृंदसेवितम्
दिव्यव्रजवयोरूपं कृष्णं वृंदावनेश्वरम् । व्रजेंद्रं संततैश्वर्यं व्रजबालैकवल्लभम्
यौवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम् । अनादिमादिं सर्वेषां नंदगोपप्रियात्मजम्
श्रुतिमृग्यमजं नित्यं गोपीजनमनोहरम् । परंधाम परं रूपं द्विभुजं गोकुलेश्वरम्
बल्लवीनंदनं ध्यायेन्निर्गुणस्यैककारणम् । सुश्रीमंतं नवं स्वच्छं श्यामधाममनोहरम्
नवीननीरदश्रेणी सुस्निग्धं मंजुकुंडलम् । फुल्लेंदीवरसत्कांति सुखस्पर्शं सुखावहम्
दलितांजनपुंजाभ चिक्कणं श्याममोहनम् । सुस्निग्धनीलकुटिलाशेषसौरभकुंतलम्
तदूर्ध्वं दक्षिणे काले श्यामचूडामनोहरम् । नानावर्णोज्ज्वलं राजच्छिखंडिदलमंडितम्
मंदारमंजुगोपुच्छाचूडं चारुविभूषणम् । क्वचिद्बृहद्दलश्रेणी मुकुटेनाभिमंडितम्
अनेकमणिमाणिक्यकिरीटभूषणं क्वचित् । लोलालकवृतं राजत्कोटिचंद्रसमाननम्
कस्तूरीतिलकं भ्राजन्मंजुगोरोचनान्वितम् । नीलेंदीवरसुस्निग्ध सुदीर्घदललोचनम्
आनृत्यद्भ्रूलताश्लेषस्मितं साचि निरीक्षणम् । सुचारून्नतसौंदर्य नासाग्राति मनोहरम्
नासाग्रगजमुक्तांशु मुग्धीकृत जगत्त्रयम् । सिंदूरारुणसुस्निग्धाधरौष्ठसुमनोहरम्
नानावर्णोल्लसत्स्वर्णमकराकृतिकुंडलम् । तद्रश्मिपुंजसद्गंड मुकुराभलसद्द्युतिम्
कर्णोत्पलसुमंदारमकरोत्तंस भूषितम् । श्रीवत्सकौस्तुभोरस्कं मुक्ताहारस्फुरद्गलम्
विलसद्दिव्यमाणिक्यं मंजुकांचन मिश्रितम् । करे कंकणकेयूरं किंकिणीकटिशोभितम्
मंजुमंजीरसौंदर्य्यश्रीमदंघ्रि विराजितम् । कर्पूरागुरुकस्तूरीविलसच्चंदनादिकम्
गोरोचनादिसंमिश्र दिव्यांगरागचित्रितम् । स्निग्धपीतपटी राजत्प्रपदांदोलितांजनम्
गंभीरनाभिकमलं रोमराजीनतस्रजम् । सुवृत्तजानुयुगलं पादपद्ममनोहरम्
ध्वजवज्रांकुशांभोज करांघ्रि तलशोभितम् । नखेंदु किरणश्रेणी पूर्णब्रह्मैककारणम्
केचिद्वदंति तस्यांशं ब्रह्मचिद्रूपमद्वयम् । तद्दशांशं महाविष्णुं प्रवदंति मनीषिणः
योगींद्रैः सनकाद्यैश्च तदेव हृदि चिंत्यते । त्रिभंगं ललिताशेष निर्माणसारनिर्मितम्
तिर्यग्ग्रीवजितानंतकोटिकंदर्पसुंदरम् । वामांसार्पित सद्गण्डस्फुरत्कांचनकुंडलम्
सहापांगेक्षणस्मेरं कोटिमन्मथसुंदरम् । कुंचिताधरविन्यस्त वंशीमंजुकलस्वनैः
जगत्त्रयं मोहयंतं मग्नं प्रेमसुधार्णवे । श्रीपार्वत्युवाच-। परमं कारणं कृष्णं गोविंदाख्यं महत्पदम्
वृंदावनेश्वरं नित्यं निर्गुणस्यैककारणम् । तत्तद्रहस्यमाहात्म्यं किमाश्चर्यं च सुंदरम्
तद्ब्रूहि देवदेवेश श्रोतुमिच्छाम्यहं प्रभो । ईश्वर उवाच-। यदंघ्रिनखचंद्रांशु महिमांतो न गम्यते
तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु । अनंतकोटिब्रह्मांडे अनंतत्रिगुणोच्छ्रये
तत्कलाकोटिकोट्यंशा ब्रह्मविष्णुमहेश्वराः । सृष्टिस्थित्यादिना युक्तास्तिष्ठंति तस्य वैभवाः
तद्रूपकोटिकोट्यंशाः कलाः कंदर्पविग्रहाः । जगन्मोहं प्रकुर्वंति तदंडांतरसंस्थिताः