पूतनादिवधस्तत्र यमलार्जुनभंजनम् । अधिष्ठाता तत्र बालगोपालः पंचमाब्दिकः
नाम्ना दामोदरः प्रोक्तः प्रेमानंदरसार्णवः । दलं प्रसिद्धमाख्यातं सर्वश्रेष्ठदलोत्तमम्
कृष्णक्रीडा च किंजल्की विहारदलमुच्यते । सिद्धप्रधानकिंजल्क दलं च समुदाहृतम्
पार्वत्युवाच-। वृंदारण्यस्य माहात्म्यं रहस्यं वा किमद्भुतम् । तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो
ईश्वर उवाच-। कथितं ते प्रियतमे गुह्याद्गुह्योत्तमोत्तमम् । रहस्यानां रहस्यं यद्दुर्लभानां च दुर्लभम्
त्रैलोक्यगोपितं देवि देवेश्वरसुपूजितम् । ब्रह्मादिवांछितं स्थानं सुरसिद्धादिसेवितम्
योगींद्रा हि सदा भक्त्या तस्य ध्यानैकतत्पराः । अप्सरोभिश्च गंधर्वैर्नृत्यगीतनिरंतरम्
श्रीमद्वृंदावनं रम्यं पूर्णानंदरसाश्रयम् । भूरिचिंतामणिस्तोयममृतं रसपूरितम्
वृक्षं गुरुद्रुमं तत्र सुरभीवृंदसेवितम् । स्त्रीं लक्ष्मीं पुरुषं विष्णुं तद्दशांशसमुद्भवम्
तत्र कैशोरवयसं नित्यमानंदविग्रहम् । गतिनाट्यं कलालापस्मितवक्त्रं निरंतरम्
शुद्धसत्वैः प्रेमपूर्णैर्वैष्णवैस्तद्वनाश्रितम् । पूर्णब्रह्मसुखेमग्नं स्फुरत्तन्मूर्तितन्मयम्
मत्तकोकिलभृंगाद्यैः कूजत्कलमनोहरम् । कपोलशुकसंगीतमुन्मत्तालि सहस्रकम्
भुजंगशत्रुनृत्याढ्यं सकलामोदविभ्रमम् । नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम्
पूर्णेंदुनित्याभ्युदयं सूर्यमंदांशुसेवितम् । अदुःखं दुःखविच्छेदं जरामरणवर्जितम्
अक्रोधं गतमात्सर्यमभिन्नमनहंकृतम् । पूर्णानंदामृतरसं पूर्णप्रेमसुखार्णवम्
गुणातीतं महद्धाम पूर्णप्रेमस्वरूपकम् । वृक्षादिपुलकैर्यत्र प्रेमानंदाश्रुवर्षितम्
किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते । गोविंदांघ्रिरजः स्पर्शान्नित्यं वृंदावनं भुवि
सहस्रदलपद्मस्य वृंदारण्यं वराटकम् । यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये
गुह्याद्गुह्यतरं रम्यं मध्ये वृंदावनं भुवि । अक्षरं परमानंदं गोविंदस्थानमव्ययम्
गोविंददेहतोऽभिन्नं पूर्णब्रह्मसुखाश्रयम् । मुक्तिस्तत्र रजःस्पर्शात्तन्माहात्म्यं किमुच्यते
तस्मात्सर्वात्मना देवि हृदिस्थं तद्वनं कुरु । वृंदावनविहारेषु कृष्णं कैशोरविग्रहम्
कालिंदी चाकरोद्यस्य कर्णिकायां प्रदक्षिणाम् । लीलानिर्वाणगंभीरं जलं सौरभमोहनम्
आनंदामृत तन्मिश्रमकरंदघनालयम् । पद्मोत्पलाद्यैः कुसुमैर्नानावर्णसमुज्जवलम्
चक्रवाकादिविहगैर्मंजुनानाकलस्वनैः । शोभमानं जलं रम्यं तरंगातिमनोरमम्
तस्योभयतटी रम्या शुद्धकांचननिर्मिता । गंगाकोटिगुणा प्रोक्ता यत्र स्पर्शवराटकः
कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः । कालिंदीकर्णिका कृष्णमभिन्नमेकविग्रहम्
पार्वत्युवाच। गोविंदस्य किमाश्चर्यं सौंदर्याकृतविग्रह । तदहं श्रोतुमिच्छामि कथयस्व दयानिधे
ईश्वर उवाच। मध्ये वृंदावने रम्ये मंजुमंजीरशोभिते । योजनाश्रितसद्वृक्ष शाखापल्लवमंडिते
तन्मध्ये मंजुभवने योगपीठं समुज्जवलम् । तदष्टकोणनिर्माणं नानादीप्तिमनोहरम्
तस्योपरि च माणिक्यरत्नसिंहासनं शुभम् । तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयम्