नागविस्तारविष्टंभं रहस्यद्रुममीरितम् । सहस्रपत्रकमलं गोकुलाख्यं महत्पदम्
कर्णिकातन्महद्धाम गोविंदस्थानमुत्तमम् । तत्रोपरि स्वर्णपीठे मणिमंडपमंडितम्
कर्णिकायां क्रमाद्दिक्षु विदिक्षु दलमीरितम् । यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम्
तस्मिन्दले महापीठं निगमागमदुर्गमम् । योगींद्रैरपि दुष्प्रापं सर्वात्मा यच्च गोकुलम्
द्वितीयं दलमाग्नेय्यां तद्रहस्यदलं तथा । संकेतं द्विपदं चैव कुटीद्वौ तत्कुले स्थितौ
पूर्वं दलं तृतीयं च प्रधानस्थानमुत्तमम् । गंगादिसर्वतीर्थानां स्पर्शाच्छतगुणं स्मृतम्
चतुर्थं दलमैशान्यां सिद्धपीठेऽपि तत्पदम् । व्यायामनूतनागोपी तत्र कृष्णं पतिं लभेत्
वस्त्रालंकारहरणं तद्दले समुदाहृतम् । उत्तरे पंचमं प्रोक्तं दलं सर्वदलोत्तमम्
द्वादशादित्यमत्रैव दलं च कर्णिकासमम् । वायव्यां तु दलं षष्ठं तत्र कालीह्रदः स्मृतः
दलोत्तमोत्तमं चैव प्रधानं स्थानमुच्यते । सर्वोत्तमदलं चैव पश्चिमे सप्तमं स्मृतम्
यज्ञपत्नीगणानां च तदीप्सितवरप्रदम् । अत्रासुरोऽपि निर्वाणं प्राप त्रिदशदुर्लभम्
ब्रह्ममोहनमत्रैव दलं ब्रह्मह्रदावहम् । नैर्ऋत्यां तु दलं प्रोक्तमष्टमं व्योमघातनम्
शंखचूडवधस्तत्र नानाकेलिरसस्थलम् । श्रुतमष्टदलं प्रोक्तं वृंदारण्यांतरस्थितम्
श्रीमद्वृंदावनं रम्यं यमुनायाः प्रदक्षिणम् । शिवलिंगमधिष्ठानं दृष्टं गोपीश्वराभिधम्
तद्बाह्ये षोडशदलं श्रियापूर्णं तमीश्वरम् । सर्वासु दिक्षु यत्प्रोक्तं प्रादक्षिण्याद्यथाक्रमम्
महत्पदं महद्धाम स्वधामाधावसंज्ञकम् । प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम्
तत्र गोवर्द्धनगिरौ रम्ये नित्यरसाश्रये । कर्णिकायां महालीला तल्लीला रसगह्वरौ
यत्र कृष्णो नित्यवृंदाकाननस्य पतिर्भवेत् । कृष्णो गोविंदतां प्राप्तः किमन्यैर्बहुभाषितैः
दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम् । चतुर्थं दलमाख्यातं महाद्भुतरसस्थलम्
नंदीश्वरवनं रम्यं तत्र नंदालयः स्मृतः । कर्णिकादलमाहात्म्यं पंचमं दलमुच्यते
अधिष्ठाताऽत्र गोपालो धेनुपालनतत्परः । षष्ठं दलं यदाख्यातं तत्र नंदवनं स्मृतम्
सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम् । तत्राष्टमं तालवनं तत्र धेनुवधः स्मृतः
नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम् । कामारण्यं च दशमं प्रधानं सर्वकारणम्
ब्रह्मप्रसाधनं तत्र विष्णुच्छद्मप्रदर्शनम् । कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते
दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम् । निर्माणं सेतुबंधस्य नानावनमयस्थलम्
भांडीरं द्वादशदलं वनं रम्यं मनोहरम् । कृष्णः क्रीडारतस्तत्र श्रीदामादिभिरावृतः
त्रयोदशं दलं श्रेष्ठं तत्र भद्रवनं(रं) स्मृतम् । चतुर्दशदलं प्रोक्तं सर्वसिद्धिप्रदस्थलम्
श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम् । कृष्णक्रीडादलमयं श्रीकांतिकीर्तिवर्द्धनम्
दलं पंचदशं श्रेष्ठं तत्र लोहवनं स्मृतम् । कथितं षोडशदलं माहात्म्यं कर्णिकासमम्
महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम् । बालक्रीडारतस्तत्र वत्सपालैः समावृतः