भर्तारं वव्रिरे सर्वाः पतिं विश्वस्य सर्वगम् । एतस्मिन्नेव काले तु गोविंदोऽनंतरूपवान्
तासां करग्रहं चक्रे विधिना पुरुषोत्तमः । नरकस्य सुताः सर्वे पुरस्कृत्य महीं तदा
गोविंदं शरणं जग्मुस्तानरक्षद्घृणानिधिः । तद्राज्ये स्थाप्य तान्सर्वान्पृथिव्या वाक्य गौरवात्
ऐन्द्रं विमानमारोप्य ताश्च सर्वा वरस्त्रियः । देवदूतैर्महाभागैर्द्वारवत्यां न्यवेशयत्
वैनतेयं समारुह्य सत्यया सह केशवः । स्वर्लोकं प्रययौ तूर्णं द्रष्टुं तां देवमातरम्
प्रविश्य नगरीं तत्र देवराज्ञो जनार्दनः । अवरुह्य द्विजश्रेष्ठात्पत्न्या सह महाबलः
ववंदे मातरं तत्र वंद्यां तां त्रिदिवौकसाम् । संपरिष्वज्य बाहुभ्यामदितिः पुत्रवत्सला
निवेश्यासनमुख्ये तु पूजयामास भक्तितः । आदित्या वसवो रुद्राः शतक्रतुपुरोगमाः
तत्र संपूजयामासुर्यथार्हं परमेश्वरम् । शचीगृहं समागम्य सत्यभामा यशस्विनी
तया समर्चिता देव्या समासीना सुखासने । तस्मिन्काले सुपुष्पाणि पारिजातस्य किंकराः
शच्यै देव्यै ददुः प्रीत्या सहस्राक्षेण चोदिताः । प्रगृह्य तानि पुष्पाणि शचीदेवी सुमध्यमा
नीलनिर्मलकेशे च बबंध स्वस्य मूर्धनि । अवमान्य शची तत्र सत्यभामां यशस्विनीम्
अनर्हा मानुषी चेयं देवार्हं कुसुमं शुभम् । इति कृत्वा मतिं तस्यै न ददौ कुसुमानि सा
विनिष्क्रम्य पुरात्तस्मात्सत्या कोपसमन्विता । समेत्य कृष्णं भर्त्तारमुवाच कमलेक्षणा
सत्योवाच- एषा शची यदुश्रेष्ठ पारिजातेन गर्विता । अदत्त्वा मम गोविंद बबंध स्वस्य मूर्द्धनि
महादेव उवाच-। सत्यया भाषितं श्रुत्वा वासुदेवो महाबलः । उत्पाट्य पारिजातं तु निवेश्य गरुडोपरि
आरुह्य सत्यया तूर्णं वैनतेयं महाबलम् । प्रययौ द्वारकां रम्यां नगरीं देवकीसुतः
ततः कोपसमाविष्टो देवराजः शतक्रतुः । रुद्रैर्वसुभिरादित्यैः साध्यैश्च मरुतां गणैः
ऐरावतं समारुह्य ययौ युद्धाय केशवम् । ततो देवगणाः सर्वे परिवार्य्य जनार्दनम्
ववृषुः शस्त्रवर्षाणि मेघा इव महाचलम् । कृष्णश्चिच्छेद चक्रेण तान्यस्त्राणि दिवौकसाम्
वैनतयस्तु संक्रुद्धः पक्षपातेन वीर्यवान् । पातयामास तान्देवान्पलालानीव मारुतः
ततः क्रुद्धः सहस्राक्षो देवानामीश्वरः प्रभुः । मुमोच सहसा दीप्तं वज्रं कृष्णजिघांसया
जग्राह कृष्णस्तं वज्रं हस्तेनैकेन लीलया । ततो भीतः सहस्राक्षो नागेंद्रादवरुह्य सः
प्रांजलिः पुरतः स्थित्वा नमस्कृत्वा जनार्दनम् । प्राह गद्गदया वाचा स्तुत्वा स्तुतिभिरेव च १०० 6.249.
इंद्र उवाच- देवयोग्यमिदं कृष्ण पारिजातं त्वया पुरा । दत्तो मम सुराणां च कथं स्थास्यति मानुषे
महादेव उवाच- ततः प्रोवाच भगवान्सहस्राक्षमुपस्थितम् । शच्यावमानिता सत्या तव गेहे सुरेश्वर
अदत्त्वा पारिजातानि सत्यायै सा पुलोमजा । स्वयमेव स्वशिरसि धारयामास ते प्रिया
अस्या निमित्तं देवेंद्र पारिजातो हृतो मया । अस्यै प्रतिश्रुतं दातुं मया सुरगणेश्वर
तव गेहे पारिजातं स्थापयामीति वासव । तस्मादद्य न दातव्यः पारिजातः सुरेश्वर
देवतानां हितार्थाय प्रापयिष्यामि भूतले । तावत्तिष्ठतु देवेंद्र पारिजातो ममालये