प्रत्येकमक्षरं ब्रह्महत्यावंशदवानलः । तं यः श्रावयते धीमांस्तं गुरुं संप्रपूजयेत्
श्रुत्वा कथां वाचकाय गवां द्वंद्वं प्रदापयेत् । सपत्नीकाय संपूज्य वस्त्रालंकारभोजनैः
कुंडलाभ्यां विराजंत्यौ मुद्रिकाभिरलंकृते । रामसीते स्वर्णमय्यौ प्रतिमे शोभने वरे
कृत्वा तु वाचकायैव दीयते भो द्विजोत्तम । तस्य देवाश्च पितरो वैकुंठं प्राप्नुयुस्तदा
त्वया पृष्टा रामकथा मया ते कथिता पुरा । किमन्यत्कथ्यतां ब्रह्मन्पुरतस्तव धीमतः
शृण्वंति ये कथामेतां ब्रह्महत्यौघनाशिनीम् । ते यांति परमं स्थानं यच्च देवैः सुदुर्लभम्
गोघ्नश्चापि सुतघ्नश्च सुरापो गुरुतल्पगः । क्षणात्पूतो भवत्येव नात्र संशयितुं क्षमम्
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे श्रवणपठनपुण्यवर्णनं नामाष्टषष्टितमोऽध्यायः
ऋषय ऊचुः - सम्यक्छ्रुतो महाभाग त्वत्तो रामाश्वमेधकः । इदानीं वद माहात्म्यं श्रीकृष्णस्य महात्मनः
सूत उवाच-। शृण्वंतु मुनिशार्दूलाः श्रीकृष्णचरितामृतम् । शिवा पप्रच्छ भूतेशं यत्तद्वः कीर्तयाम्यहम्
एकदा पार्वती देवी शिवं संस्निग्धमानसा । प्रणयेन नमस्कृत्य प्रोवाच वचनं त्विदम्
पार्वत्युवाच-। अनंतकोटिब्रह्मांड तद्बाह्याभ्यंतरस्थितेः । विष्णोः स्थानं परं तेषां प्रधानं वरमुत्तमम्
यत्परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम् । तत्सर्वं श्रोतुमिच्छामि कथयस्व महाप्रभो
ईश्वर उवाच-। गुह्याद्गुह्यतरं गुह्यं परमानंदकारकम् । अत्यद्भुतं रहःस्थानमानंदं परमं परम्
दुर्लभानां च परमं दुर्लभं मोहनं परम् । सर्वशक्तिमयं देवि सर्वस्थानेषु गोपितम्
सात्वतां स्थानमूर्द्धन्यं विष्णोरत्यंतदुर्लभम् । नित्यं वृंदावनं नाम ब्रह्मांडोपरि संस्थितम्
पूर्णब्रह्मसुखैश्वर्यं नित्यमानंदमव्ययम् । वैकुंठादि तदंशांशं स्वयं वृंदावनं भुवि
गोलोकैश्वर्यं यत्किंचिद्गोकुले तत्प्रतिष्ठितम् । वैकुंठवैभवं यद्वै द्वारिकायां प्रतिष्ठितम्
यद्ब्रह्मपरमैश्वर्यं नित्यं वृंदावनाश्रयम् । कृष्णधामपरं तेषां वनमध्ये विशेषतः
तस्मात्त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता । यस्मान्माथुरकं नाम विष्णोरेकांतवल्लभम्
स्वस्थानमधिकं नामधेयं माथुरमंडलम् । निगूढं विविधं स्थानं पुर्यभ्यंतरसंस्थितम्
सहस्रपत्रकमलाकारं माथुरमंडलम् । विष्णुचक्रपरिभ्रामाद्धाम वैष्णवमद्भुतम्
कर्णिकापर्णविस्तारं रहस्यद्रुममीरितम् । प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात्
भद्र श्री लोह भांडीर महाताल खदीरकाः । बकुलं कुमुदं काम्यं मधु वृंदावनं तथा
द्वादशैतावती संख्या कालिंद्याः सप्त पश्चिमे । पूर्वे पंचवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम्
महारण्यं गोकुलाख्यं मधु वृंदावनं तथा । अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम्
कदंबखंडनं नंदवनं नंदीश्वरं तथा । नंदनंदनखंडं च पलाशाशोककेतकी
सुगंधमानसं कैलममृतं भोजनस्थलम् । सुखप्रसाधनं वत्सहरणं शेषशायिकम्
श्यामपूर्वो दधिग्रामश्चक्रभानुपुरं तथा । संकेतं द्विपदं चैव बालक्रीडनधूसरम्
कामद्रुमं सुललितमुत्सुकं चापि काननम् । नानाविधरसक्रीडा नानालीलारसस्थलम्