नारायणो महादेवो ब्रह्मा तत्र चतुर्मुखः । वरुणश्च कुबेरश्च तथान्ये लोकपालकाः
तत्रास्वाद्य हविः स्निग्धं वसिष्ठेन परिष्कृतम् । तत्र पुनर्हि विप्रेंद्राः क्षुधार्ताइव भोजनात्
सर्वान्देवांश्च संतर्प्य हविषा करुणानिधिः । वसिष्ठप्रेरितः सर्वमिति कर्तव्यमाचरत्
ब्राह्मणादानसंतुष्टा हविस्तुष्टाः सुरावराः । तृप्ताः सर्वे स्वकं भागं गृहीत्वा स्वालयं ययुः
ऋषिभ्यो होतृमुख्येभ्यः प्रादाद्राज्यं चतुर्दिशम् । संतुष्टास्ते द्विजाराममाशीर्भिरददुः शुभम्
पूर्णाहुतिं ततः कृत्वा वसिष्ठः प्राह सुस्त्रियः । वर्धापयंतु भूमीशं यागपूर्तिकरं परम्
तद्वाक्यं ताः स्त्रियः श्रुत्वा लाजैरवाकिरन्मुदा । लावण्यजितकंदर्पं महामणिविभूषितम्
ततोऽवभृथस्नानार्थं प्रेरयामास भूमिपम् । ययौ रामः सहस्वीयैः सरयूतीरमुत्तमम्
अनेकराजकोटीभिः परीतः पादचारिभिः । जगाम स सरिच्छ्रेष्ठां पक्षिवृंदसमाकुलाम्
तारापतिरिव स्वाभिर्भार्याभिर्वृत उत्प्रभः । विरोचते तथा तद्वद्रामो राजगणैर्वृतः
तदुत्सवं समाज्ञाय ययुर्लोकास्त्वरायुताः । सीतापतिमुखालोकनिश्चलीभूतलोचनाः
राजेंद्रं सीतया साकं गच्छंतं सरितं प्रति । विलोक्य मुदिता लोकाश्चिरं दर्शनलालसाः
अनेक नटगंधर्वा गायंतो यश उज्ज्वलम् । अनुजग्मुर्महीशानं सर्वलोकनमस्कृतम्
नर्तक्यस्तत्र नृत्यंत्यः क्षोभयंत्यः पतेर्मनः । जलयंत्रैश्च सिंचंत्यो ययुः श्रीरामसेवनम्
महाराजं विलिपंत्यो हरिद्रा कुंकुमादिभिः । परस्परं प्रलिपंत्यो मुदं प्रापुर्महत्तराम्
कुचयुग्मोपरिन्यस्तमुक्ताहारसुशोभिताः । श्रवणद्वंद्वसंमृष्टस्वर्णकुंडललक्षिताः
अनेकनरनारीभिः संकीर्णं मार्गमाचरन् । यथावत्सरितं प्राप शिवपुण्यजलाप्लुताम्
तत्र गत्वा स वैदेह्या रामः कमललोचनः । प्रविवेश जलं पुण्यं वसिष्ठादिभिरन्वितः
अनुप्रविविशुः सर्वे राजानो जनतास्तथा । तत्पादरजसा पूतजलं लोकैकवंदितम्
परस्परं प्रसिंचंतो जलयंत्रैर्मनोरमैः । सुशोणनयनाः सर्वे हर्षं प्रापुर्मनोधिकम्
स रामः सीतया सार्धं चिरं पुण्यजलप्लवे । क्रीडित्वा जलकल्लोलैर्निरगाद्धर्मसंयुतः
दुकूलवासाः सकिरीटकुंडलः केयूरशोभावरकंकणान्वितः । कंदर्पकोटिश्रियमुद्वहन्नृपो राजाग्र्यवर्यैरुपसंस्तुतो बभौ
सयागयूपं वरवर्णशोभितं कृत्वा सरित्तीरवरे महामनाः । त्रैलोक्यलोकश्रियमाप ह्यद्भुतामन्यैर्दुरापां नृपतिर्भुजैर्निजैः
एवं जनकपुत्र्यासौ हयमेधत्रयं चरन् । त्रैलोक्ये कीर्तिमतुलां प्राप देवैः सुदुर्लभाम्
एवं ते वर्णितं तात यत्पृष्टो रामसत्कथाम् । विस्तृतः कथितो मेधो भूयः किं पृच्छसे द्विज
यः शृणोति हरेर्भक्त्या रामचंद्रस्य सन्मखम् । ब्रह्महत्यां क्षणात्तीर्त्वा ब्रह्मशाश्वतमाप्नुयात्
अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् । रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बंधनात्
यत्कथाश्रवणाद्दुष्टः श्वपचोऽपि परं पदम् । प्राप्नोति किमु विप्राग्र्यो रामभक्तिपरायणः
रामं स्मृत्वा महाभागं पापिनः परमं पदम् । प्राप्नुयुः परमं स्वर्गं शक्रदेवादिदुर्लभम्
ते धन्या मानवा लोके ये स्मरंति रघूत्तमम् । ते क्षणात्संसृतिं तीर्त्वा गच्छंति सुखमव्ययम्