तदा मे कृतवान्राम द्विजोऽनुग्रहमुत्तमम् । वाजितां प्राप्नुहि मखे राजराजस्य तापस
पश्चात्तद्धस्तसंपर्काद्याहि तत्परमं पदम् । दिव्यं वपुर्मनोहारि धृत्वा दंभविवर्जितम्
तेन शापोपिसंदिष्टो ममानुग्रहतां गतः । यदहं तव हस्तस्य स्पर्शं प्राप्तो मनोरमम्
यदेव राम देवादिदुर्लभं बहुजन्मभिः । तत्तेऽहं करजस्पर्शं प्राप्तवानिह दुर्लभम्
आज्ञापय महाराज त्वत्प्रसादादहं महत् । गच्छामि शाश्वतं स्थानं तव दुःखादिवर्जितम्
न यत्र शोको न जरा न मृत्युः कालविभ्रमः । तत्स्थानं देव गच्छामि त्वत्प्रसादान्नराधिप
इत्युक्त्वा तं परिक्रम्य विमानवरमारुहत् । अनेकरत्नखचितं सर्वदेवाधिवंदितम्
गतोऽसौ शाश्वतस्थानं रामपादप्रसादतः । पुनरावृत्तिरहितं शोकमोहविवर्जितम्
तेन तत्कथितं श्रुत्वा रामं ज्ञात्वेतरे जनाः । विस्मयं प्रापिरे सर्वे परस्परमुदुन्मदाः
शृणु द्विजमहाबुद्धे दंभेनापि स्मृतो हरिः । ददाति मोक्षं सुतरां किं पुनर्दंभवर्जनात्
यथाकथंचिद्रामस्य कर्तव्यं स्मरणं परम् । येन प्राप्नोति परमं पदं देवादिदुर्लभम्
तच्चित्रं वीक्ष्य मुनयः कृतार्थं मेनिरे निजम् । यद्रामचरणप्रेक्षा करस्पर्शपवित्रितम्
गते तस्मिन्सुरे स्वर्गं हयरूपधरे पुरा । उवाच रामस्तपसां निधीन्वेदविदुत्तमान्
किं कर्तव्यं मयाब्रह्मन्हयो नष्टो गतः सुखम् । होमः कथं पुरोभावी सर्वदैवततर्पकः
यथा स्यात्सुरसंतृप्तिर्यथा मे मख उत्तमः । तथा कुर्वंतु मुनयो यथा मे स्याद्विधिश्रुतम्
इति वाक्यं समाश्रुत्य जगाद मुनिसत्तमः । वसिष्ठः सर्वदेवानां चित्ताभिज्ञानकोविदः
कर्पूरमाहर क्षिप्रं येन देवाः स्वयं पुरा । प्राप्य हव्यं ग्रहीष्यंति मद्वाक्यप्रेरिताधुना
इति वाक्यं समाकर्ण्य रामः क्षिप्रमुपाहरत् । कर्पूरं बहुदेवानां प्रीत्यर्थं बहुशोभनम्
तदा मुनिः प्रहृष्टात्मा देवानाह्वयदद्भुतान् । ते सर्वे तत्क्षणात्प्राप्ताः स्वपरीवारसंवृताः
शेष उवाच- परिस्वादन्क्रतौ तृप्तिं न प्राप सुरसंयुतः
नारायणो महादेवो ब्रह्मा तत्र चतुर्मुखः । वरुणश्च कुबेरश्च तथान्ये लोकपालकाः
तत्रास्वाद्य हविः स्निग्धं वसिष्ठेन परिष्कृतम् । तत्र पुनर्हि विप्रेंद्राः क्षुधार्ताइव भोजनात्
सर्वान्देवांश्च संतर्प्य हविषा करुणानिधिः । वसिष्ठप्रेरितः सर्वमिति कर्तव्यमाचरत्
ब्राह्मणादानसंतुष्टा हविस्तुष्टाः सुरावराः । तृप्ताः सर्वे स्वकं भागं गृहीत्वा स्वालयं ययुः
ऋषिभ्यो होतृमुख्येभ्यः प्रादाद्राज्यं चतुर्दिशम् । संतुष्टास्ते द्विजाराममाशीर्भिरददुः शुभम्
पूर्णाहुतिं ततः कृत्वा वसिष्ठः प्राह सुस्त्रियः । वर्धापयंतु भूमीशं यागपूर्तिकरं परम्
तद्वाक्यं ताः स्त्रियः श्रुत्वा लाजैरवाकिरन्मुदा । लावण्यजितकंदर्पं महामणिविभूषितम्
ततोऽवभृथस्नानार्थं प्रेरयामास भूमिपम् । ययौ रामः सहस्वीयैः सरयूतीरमुत्तमम्
अनेकराजकोटीभिः परीतः पादचारिभिः । जगाम स सरिच्छ्रेष्ठां पक्षिवृंदसमाकुलाम्
तारापतिरिव स्वाभिर्भार्याभिर्वृत उत्प्रभः । विरोचते तथा तद्वद्रामो राजगणैर्वृतः