तदात्यंतं मुदं प्राप्तो रामायणमथासृजत् । मनोरमपदैर्युक्तं वृत्तैर्बहुविधैरपि
षट्कांडानि सुरम्याणि यत्र रामायणेऽनघ । बालमारण्यकं चान्यत्किष्किंधा सुंदरं तथा
युद्धमुत्तरमन्यच्च षडेतानि महामते । शृणुयाद्यो नरः पुण्यात्सर्वपापैः प्रमुच्यते
तत्र बाले तु संतुष्टः पुत्रेष्ट्या चतुरस्सुतान् । प्राप पंक्तिरथः साक्षाद्धरिं ब्रह्मसनातनम्
स कौशिकमखं गत्वा सीतामुद्वाह्य भार्गवम् । आगत्य पुरमुत्कृष्टो यौवराज्यप्रकल्पनम्
मातृवाक्याद्वनं प्रागाद्गंगामुत्तीर्य पर्वतम् । चित्रकूटं महिलया लक्ष्मणेन समन्वितः
भरतस्तं वने श्रुत्वा जगाम भ्रातरं नयी । तमप्राप्य स्वयं नंदिग्रामे वासमचीकरत्
बालमेतच्छृणुष्वान्यदारण्यकसमुद्भवम् । मुनीनामाश्रमे वासस्तत्र तत्रोपवर्णनम्
नासाच्छेदः शूर्पणख्याः खरदूषणनाशनम् । मायामारीचहननं दैत्याद्रामापहारणम्
वने विरहिणा भ्रांतं मनुष्यचरितं भृतम् । कबंधप्रेक्षणं तत्र पम्पायां गमनं तथा
हनूमता संगमनमित्येतद्वनसंज्ञितम् । अपरं च शृणु मुने संक्षिप्य कथयाम्यहम्
सप्ततालप्रभेदश्च वालेर्मारणमद्भुतम् । सुग्रीवे राज्यदानं च नगवर्णनमित्युत
लक्ष्मणात्कर्मसंदेशः सुग्रीवस्य विवासनम् । तथा सैन्यसमुद्देशः सीतान्वेषणमप्युत
संपातिप्रेक्षणं तत्र वारिधेर्लंघनं तथा । परतीरे कपिप्राप्तिः कैष्किंधं कांडमद्भुतम्
सुंदरं शृणु कांडं वै यत्र रामकथाद्भुता । प्रतिगेहे प्रति भ्रांतिः कपेश्चित्रस्य दर्शनम्
सीतासंदर्शनं तत्र जानक्याभाषणं तथा । वनभंगः प्रकुपितैर्बंधनं वानरस्य च
ततो लंकाप्रज्वलनं वानरैः संगतिस्ततः । रामाभिज्ञानदानं च सैन्यप्रस्थानमेव च
समुद्रे सेतुकरणं शुकसारणसंगतिः । इति सुंदरमाख्यातं युद्धे सीतासमागमः
उत्तरे ऋषिसंवादो यज्ञप्रारंभ एव च । तत्रानेका रामकथाः शृण्वतां पापनाशकाः
इति षट्कांडमाख्यातं ब्रह्महत्यापनोदनम् । संक्षेपतो मया तुभ्यमाख्यातं सुमनोहरम्
चतुर्विंशतिसाहस्रं षट्कांडपरिचिह्नितम् । तद्वै रामायणं प्रोक्तं महापातकनाशनम्
तच्छ्रुत्वा राघवः प्रीतः पुत्रावाधाय चासने । दृढं तौ परिरभ्याथ सीतां सस्मार वल्लभाम्
सप्तषष्टितमोऽध्यायः 5.67 शेष उवाच। अथ सौमित्रिरागत्य जानकीं नतवान्मुहुः । प्रेमगद्गदया शंसन्वाचं रामप्रणोदिताम्
सीता समागतं दृष्ट्वा लक्ष्मणं विनयान्वितम् । तन्मुखाद्रामसंदेशं श्रुत्वोवाच विलज्जिता
सौमित्रे कथमागच्छे रामत्यक्ता महावने । तिष्ठामि रामं स्मरन्ती वाल्मीकेराश्रमे त्वहम्
तस्या मुखोदितं वाक्यं श्रुत्वा सौमित्रिरब्रवीत् । मातः पतिव्रते रामस्त्वामाकारयते मुहुः
पतिव्रता पतिकृतं दोषं नानयते हृदि । तस्मादागच्छ हि मया स्थित्वा स्यंदन उत्तमे
इत्यादि वचनं श्रुत्वा जानकी पतिदेवता । मनोरोषं परित्यज्य तस्थौ सौमित्रिणा रथे
तापसीः सकला नत्वा मुनींश्च निगमोज्ज्वलान् । रामं स्मरंती मनसा रथे स्थित्वागमत्पुरीम्
क्रमेण नगरीं प्राप्ता महार्हाभरणान्विता । सरयूं सरितं प्राप यत्र रामः स्वयं स्थितः