इति शेषमुखप्रोक्तं श्रुत्वा वात्स्यायनोऽब्रवीत् । रामायणं श्रोतुमनाः सर्वधर्मसमन्वितम्
वात्स्यायन उवाच। कस्मिन्काले कृतं स्वामिन्रामायणमिदं महत् । कस्माच्चकार किन्तत्र वर्णनं तद्वदस्व मे
शेष उवाच-। एकदा गतवान्विप्रो वाल्मीकिर्विपिनं महत् । यत्र तालास्तमालाश्च किंशुका यत्र पुष्पिताः
केतकी यत्र रजसा कुर्वती सौरभं वनम् । शशिप्रभेव महती दृश्यते शुभ्रकर्णभृत् । चंपकोबकुलश्चापि कोविदारः कुरंटकः
अनेके पुष्पिता यत्र पादपाः शोभने वने । कोकिलानां विरावेण षट्पदानां च शब्दितैः
संघुष्टं सर्वतो रम्यं मनोहरवयोन्वितम् । तत्र क्रौंचयुगं रम्यं कामबाणप्रपीडितम्
परस्परं प्रहृषितं रेमे स्निग्धतया स्थितम् । तदा व्याधः समागत्य तयोरेकं मनोहरम्
अवधीन्निर्दयः कश्चिन्मांसास्वादनलोलुपः । तदा क्रौंची व्याधहतं स्वपतिं वीक्ष्य दुःखिता
विललाप भृशं दुःखान्मुंचंती रावमुच्चकैः । तदा मुनिः प्रकुपितो निषादं क्रौंचघातकम्
शशाप वार्युपस्पृश्य सरितः पावनं शुभम् । मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः
यत्क्रौंचपक्षिणोरेकमवधीः काममोहितम् । तदा प्रबंधं श्लोकस्य जातं मत्वा ह्यनुद्विजाः
ऊचुर्मुनिं प्रहृष्टास्ते शंसंतः साधुसाध्विति । स्वामिञ्छापोदिते वाक्ये भारतीश्लोकमातनोत्
अत्यंतं मोहनो जातः श्लोकोऽयं मुनिसत्तम । तदा मुनिः प्रहृष्टात्मा बभूव वाडवर्षभ । तस्मिन्काले समागत्य ब्रह्मा पुत्रैः समन्वितः
वचो जगाद वाल्मीकिं धन्योसि त्वं मुनीश्वर । भारती त्वन्मुखे स्थित्वा श्लोकत्वं समपद्यत
तस्माद्रामायणं रम्यं कुरुष्व मधुराक्षरम् । येन ते विमला कीर्तिराकल्पांतं भविष्यति
धन्या सैव मुखे वाणी रामनाम्ना समन्विता । अन्या कामकथा नॄणां जनयत्येव पातकम्
तस्मात्कुरुष्व रामस्य चरितं लोकविश्रुतम् । येन स्यात्पापिनां पापहानिरेव पदेपदे
इत्युक्त्वांतर्दधे स्रष्टा सर्वदेवैः समन्वितः । ततः सचिंतयामास कथं रामायणं भवेत्
तदा ध्यानपरो जातो नदीतीरे मनोरमे । तस्य चेतस्यथो रामः प्रादुर्भूतो मनोहरः
नीलोत्पलदलश्यामं रामं राजीवलोचनम् । निरीक्ष्य तस्य चरितं भूतंभाविभवच्च यत्
तदात्यंतं मुदं प्राप्तो रामायणमथासृजत् । मनोरमपदैर्युक्तं वृत्तैर्बहुविधैरपि
षट्कांडानि सुरम्याणि यत्र रामायणेऽनघ । बालमारण्यकं चान्यत्किष्किंधा सुंदरं तथा
युद्धमुत्तरमन्यच्च षडेतानि महामते । शृणुयाद्यो नरः पुण्यात्सर्वपापैः प्रमुच्यते
तत्र बाले तु संतुष्टः पुत्रेष्ट्या चतुरस्सुतान् । प्राप पंक्तिरथः साक्षाद्धरिं ब्रह्मसनातनम्
स कौशिकमखं गत्वा सीतामुद्वाह्य भार्गवम् । आगत्य पुरमुत्कृष्टो यौवराज्यप्रकल्पनम्
मातृवाक्याद्वनं प्रागाद्गंगामुत्तीर्य पर्वतम् । चित्रकूटं महिलया लक्ष्मणेन समन्वितः
भरतस्तं वने श्रुत्वा जगाम भ्रातरं नयी । तमप्राप्य स्वयं नंदिग्रामे वासमचीकरत्
बालमेतच्छृणुष्वान्यदारण्यकसमुद्भवम् । मुनीनामाश्रमे वासस्तत्र तत्रोपवर्णनम्
नासाच्छेदः शूर्पणख्याः खरदूषणनाशनम् । मायामारीचहननं दैत्याद्रामापहारणम्
वने विरहिणा भ्रांतं मनुष्यचरितं भृतम् । कबंधप्रेक्षणं तत्र पम्पायां गमनं तथा