शेष उवाच-। इति संदेशमादाय सीतां प्रति जगत्पतेः । आह लक्ष्मण आत्मेशमानतः प्रणयाद्धरौ
सीतानयनमुद्दिश्य प्रसन्नस्त्वं यदूचिवान् । कथयिष्यामि तद्वाक्यं विनयेन समन्वितम्
इत्युक्त्वा पादयोर्नत्वा रघुनाथस्य लक्ष्मणः । जगाम त्वरितः सीतां रथे तिष्ठन्महाजवे
वाल्मीकिः श्रीयुतौ वीक्ष्य रामपुत्रौ महौजसौ । उवाच स्मितमाधाय मुखं कृत्वा मनोहरम्
युवां प्रगायतां पुत्रौ रामचारित्रमद्भुतम् । वीणां प्रवादयंतौ च कलगानेन शोभितम्
इत्यक्तौ तौ सुतौ रामचारित्रं बहुपुण्यदम् । अगायतां महाभागौ सुवाक्यपदचित्रितम्
यस्मिन्धर्मविधिः साक्षात्पातिव्रत्यं तु यत्स्थितम् । भ्रातृस्नेहो महान्यत्र गुरुभक्तिस्तथैव च
स्वामिसेवकयोर्यत्र नीतिर्मूर्तिमती किल । अधर्मकरशास्तिं वै यत्र साक्षाद्रघूद्वहात्
तद्गानेन जगद्व्याप्तं दिवि देवा अपि स्थिताः । किन्नरा अपि यद्गानं श्रुत्वा मूर्च्छामिताः क्षणात्
वीणायारणितं श्रुत्वा तालमानेन शोभितम् । निखिला परिषत्तत्र शालभं जीवचित्रिता
हर्षादश्रूणिमुंचंतो रामाद्या भूमिपास्तथा । तद्गानपंचमालापमोहिताश्चित्रितोपमाः
तत्र रामः सुतौ दृष्ट्वा महागानविमोहकौ । अदात्ताभ्यां सुवर्णस्य लक्षं लक्षं पृथक्पृथक्
तदा दानपरं दृष्ट्वा वाल्मीकिं मुनिसत्तमम् । अब्रूतां प्रहसंतौ तौ किंचिद्वक्रभ्रुवौ ततः
मुने महानयोनेन क्रियते भूमिपेन वै । यदावाभ्यां सुवर्णानि दातुमिच्छति लोभयन्
प्रतिग्रहो ब्राह्मणानां शस्यते नेतरेषु वै । प्रतिग्रहपरो राजा नरकायैव कल्पते
आवयोः कृपया मुक्तं राज्यं भुंक्ते महीपतिः । कथं दातुं सुवर्णानि वांछति श्रेयसांचितः
इत्युक्तवंतौ तौ दृष्ट्वा वाल्मीकिः कृपयायुतः । अशंसद्युष्मत्पितरं जानीथां नीतिवित्तमौ
इति श्रुत्वा मुनेर्वाक्यं बालकौ नृपपादयोः । लग्नौ विनयसंयुक्तौ मातृभक्त्यातिनिर्मलौ
रामो बालौ दृढं स्वांगे परिरभ्य मुदान्वितः । मेने स्त्रियास्तदा धर्मौ मूर्तिमंतावुपस्थितौ
सभापि रामसुतयोर्वीक्ष्य वक्त्रे मनोरमे । जानकीपतिभक्तित्वं सत्यं मेने मुनीश्वर
इति शेषमुखप्रोक्तं श्रुत्वा वात्स्यायनोऽब्रवीत् । रामायणं श्रोतुमनाः सर्वधर्मसमन्वितम्
वात्स्यायन उवाच। कस्मिन्काले कृतं स्वामिन्रामायणमिदं महत् । कस्माच्चकार किन्तत्र वर्णनं तद्वदस्व मे
शेष उवाच-। एकदा गतवान्विप्रो वाल्मीकिर्विपिनं महत् । यत्र तालास्तमालाश्च किंशुका यत्र पुष्पिताः
केतकी यत्र रजसा कुर्वती सौरभं वनम् । शशिप्रभेव महती दृश्यते शुभ्रकर्णभृत् । चंपकोबकुलश्चापि कोविदारः कुरंटकः
अनेके पुष्पिता यत्र पादपाः शोभने वने । कोकिलानां विरावेण षट्पदानां च शब्दितैः
संघुष्टं सर्वतो रम्यं मनोहरवयोन्वितम् । तत्र क्रौंचयुगं रम्यं कामबाणप्रपीडितम्
परस्परं प्रहृषितं रेमे स्निग्धतया स्थितम् । तदा व्याधः समागत्य तयोरेकं मनोहरम्
अवधीन्निर्दयः कश्चिन्मांसास्वादनलोलुपः । तदा क्रौंची व्याधहतं स्वपतिं वीक्ष्य दुःखिता
विललाप भृशं दुःखान्मुंचंती रावमुच्चकैः । तदा मुनिः प्रकुपितो निषादं क्रौंचघातकम्
शशाप वार्युपस्पृश्य सरितः पावनं शुभम् । मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः