दिव्यशस्त्राणि चिच्छेद बाणैरग्निशिखोपमैः । तेषां शिरोधरा नागानश्वांश्चैव तरस्विनः
चक्रेणैव प्रचिच्छेद वीर्यवान्पुरुषोत्तमः । केचिच्चक्रेण संछिन्नास्तथान्ये शरताडिताः
गदया निहताः केचिद्राक्षसास्तद्रणाजिरे । एवं ते राक्षसाः सर्वे पातिता धरणीतले
शक्रोत्सृष्टेन वज्रेण निर्भिन्ना इव भूधराः । निहत्य दानवान्सर्वान्पुंडरीकायतेक्षणः
पाञ्चजन्यं महाशंखं प्रदध्मौ पुरुषोत्तमः । ततः स नरको दैत्यो धनुरादाय वीर्यवान्
दिव्यं स्यंदनमारुह्य ययौ युद्धाय केशवम् । तयोर्युद्धमभूद्घोरं तुमुलं लोमहर्षणम्
बहुभिर्बाणसाहस्रैर्मेघयोरिव वर्षतोः । ततोऽर्द्धचंद्र बाणेन वासुदेवः सनातनः
तस्य राक्षसमुख्यस्य धनुश्चिच्छेद वीर्यवान् । ससर्जास्त्रं महादिव्यं नरकस्य महोरसि
स तेन भिन्नहृदयः पपातोर्व्यां महासुरः । शक्रवज्रेण निर्भिन्नो महाचल इवोन्नदन्
उपगम्य ततः कृष्णः समीपं तस्य रक्षसः । भूम्या संप्रार्थितः प्राह वरं वृण्विति राक्षसम् । स चाह राक्षसः कृष्णं गरुडोपरि संस्थितम्
न मे कृत्यं वरेणास्ति नरकोऽहं तथापि च । अन्यलोकहितार्थाय वृणेऽहं वरमुत्तमम्
मृताहनि तु मे कृष्ण सर्वभूतेश्वरेश्वर । ये नरा मंगलस्नानं कुर्वंति मधुसूदन । न तेषां निरयप्राप्तिर्भवत्वेवं भयापह
महादेव उवाच- एवमस्त्विति गोविंदो ददौ तस्मै वरं प्रभुः । ततः पश्यन्हरेः साक्षाच्छरदंबुज सन्निभौ
चरणौ वज्रवैडूर्य्यनूपुराभ्यां विराजितौ । अर्चितौ विधिरुद्राद्यैस्त्रिदशैर्मुनिभिस्तथा
त्यक्त्वा प्राणान्महीपुत्रः सारूप्यमगमद्धरेः । ततो देवगणाः सर्वे हर्षनिर्भरमानसाः
ववृषुः पुष्पवर्षाणि तुष्टुवुश्च महर्षयः । प्रविश्य नगरं तस्य कृष्णः कमललोचनः
बलात्तेन गृहीतानि रत्नानि त्रिदिवौकसाम् । कुंडले देवमातुश्च तथैवोच्चैःश्रवो हयम्
ऐरावतं गजश्रेष्ठं प्रदीप्तं मणिपर्वतम् । सर्वमेतद्यदुश्रेष्ठो ददौ शक्राय वज्रिणे
पार्थिवान्सर्वराष्ट्रेभ्यो जित्वाऽसौ नरको बली । कन्याषोडशसाहस्रं हृतवान्नरकस्तदा
सन्निरुद्धास्तु ताः सर्वा नरकांतःपुरे तदा । दृष्ट्वा कृष्णं महावीर्यं कंदर्पशतसंनिभम्
भर्तारं वव्रिरे सर्वाः पतिं विश्वस्य सर्वगम् । एतस्मिन्नेव काले तु गोविंदोऽनंतरूपवान्
तासां करग्रहं चक्रे विधिना पुरुषोत्तमः । नरकस्य सुताः सर्वे पुरस्कृत्य महीं तदा
गोविंदं शरणं जग्मुस्तानरक्षद्घृणानिधिः । तद्राज्ये स्थाप्य तान्सर्वान्पृथिव्या वाक्य गौरवात्
ऐन्द्रं विमानमारोप्य ताश्च सर्वा वरस्त्रियः । देवदूतैर्महाभागैर्द्वारवत्यां न्यवेशयत्
वैनतेयं समारुह्य सत्यया सह केशवः । स्वर्लोकं प्रययौ तूर्णं द्रष्टुं तां देवमातरम्
प्रविश्य नगरीं तत्र देवराज्ञो जनार्दनः । अवरुह्य द्विजश्रेष्ठात्पत्न्या सह महाबलः
ववंदे मातरं तत्र वंद्यां तां त्रिदिवौकसाम् । संपरिष्वज्य बाहुभ्यामदितिः पुत्रवत्सला
निवेश्यासनमुख्ये तु पूजयामास भक्तितः । आदित्या वसवो रुद्राः शतक्रतुपुरोगमाः
तत्र संपूजयामासुर्यथार्हं परमेश्वरम् । शचीगृहं समागम्य सत्यभामा यशस्विनी
तया समर्चिता देव्या समासीना सुखासने । तस्मिन्काले सुपुष्पाणि पारिजातस्य किंकराः