आवयोरुज्ज्वला कीर्तिरावयोरुज्ज्वलो रसः । आवयोरुज्ज्वलौ वंशावावयोरुज्ज्वलाः क्रियाः
भवेयुरावयोः कीर्तिर्गायका उज्ज्वला भुवि । आवयोर्भक्तिमंतो ये ते यांत्यंते भवांबुधेः
इत्युक्ता भवती तेन प्रीयमाणेन ते गुणैः । पत्युः पादांबुजे द्रष्टुं करोतु सदयं मनः
वासांसि रमणीयानि भूषणानि महांति च । अंगरागस्तथा गंधा मनोज्ञास्त्वयि योजिताः
रथो दास्यश्च रामेण प्रेषिता उत्सवायते । छत्रं च चामरे शुभ्रे गजा अश्वाश्च शोभने
स्तूयमाना द्विजश्रेष्ठैः सूतमागधबंदिभिः । वंद्यमाना पुरस्त्रीभिः सेव्यमाना च योद्धृभिः
पुष्पैः संछाद्यमाना च देवीदेवांगनादिभिः । धनानि ददती तेभ्यो द्विजातिभ्यो यथेप्सितम्
गजारूढौ कुमारौ च पुरस्कृत्य जनेश्वरी । मयानुगम्यमाना च गच्छायोध्यां निजां पुरीम्
त्वयि तत्र गतायां तु संगतायां प्रियेण ते । सर्वासां राजनारीणामागतानां च सर्वशः
सर्वासामृषिपत्नीनां कौसलानां तथैव च । मंगलैर्वाद्यगीताद्यैर्भवत्वद्य महोत्सवः
शेष उवाच-। इतिविज्ञापनां देवी श्रुत्वा सीता तमाह सा । नाहं कीर्तिकरी राज्ञो ह्यपकीर्तिः स्वयं त्वहम्
किं मया तस्य साध्यं स्याद्धर्मकामार्थशून्यया । सत्येवं भवतां भूपे को विश्वासो निरंकुशे
प्रत्यक्षा वा परोक्षा वा भर्तुर्दोषा मनःस्थिताः । न वाच्या जातु मादृश्या कल्याणकुलजातया
पाणिग्रहणकाले मे यद्रूपो हृदये स्थितः । तद्रूपो हृदयान्नासौ कदाचिदपसर्पति
लक्ष्मणेमौ कुमारौ मे तत्तेजोंशसमुद्भवौ । वंशांकुरौ महाशूरौ धनुर्विद्याविशारदौ
नीत्वा पितुः समीपं तु लालनीयौ प्रयत्नतः । तपसाराधयिष्यामि रामं काममिह स्थिता
वाच्यं त्वया महाभाग पूज्यपादाभिवंदनम् । सर्वेभ्यः कुशलं चापि गत्वेतो मदपेक्षया
पुत्रौ समादिशत्सीता गच्छतं पितुरंतिकम् । शुश्रूषणीय एवासौ भवद्भ्यां स्वपदप्रदः
आज्ञप्तावप्यनिच्छंतौ तौ कुमारौ कुशीलवौ । वाल्मीकिवचनात्तत्र जग्मतुश्च सलक्ष्मणौ
वाल्मीकेरेव पादाब्जसमीपं तत्सुतौ गतौ । लक्ष्मणोऽपि ववंदे तं गत्वा बालकसंयुतः
वाल्मीकिर्लक्ष्मणस्तौ तु कुमारौ मिलिता अमी । सभायां संस्थितं रामं ज्ञात्वा ते जग्मुरुत्सुकाः
लक्ष्मणः प्रणिपत्याथ सीतावाक्यादिसर्वशः । कथयामास रामाय हर्षशोकयुतः सुधीः
सीतासंदेशवाक्येभ्यो रामो मूर्च्छां समन्वभूत् । संज्ञामवाप्य चोवाच लक्ष्मणं नयकोविदम्
गच्छ मित्र पुनस्तत्र यत्नेन महता च ताम् । शीघ्रमानय भद्रं ते मद्वाक्यानि निवेद्य च
अरण्ये किं तपस्यंत्या गतिरन्या विचिंतिता । श्रुता दृष्टाथ वा मत्तो यन्नागच्छसि जानकि
त्वदिच्छया त्वमेवेतो गतारण्यं मुनिप्रियम् । पूजिता मुनिपत्न्यस्ता दृष्टा मुनिगणास्त्वया
पूर्णो मनोरथस्तेऽद्य किं नागच्छसि भामिनि । न दोषं मयि पश्येस्त्वं स्वात्मेच्छाया विलोकनात्
गत्वा गत्वाथ वामोरु पतिरेव गतिः स्त्रियाः । निर्गुणोपि गुणांभोधिः किंपुनर्मनसेप्सितः
याया क्रियाकुलस्त्रीणां सासा पत्युः प्रतुष्टये । पूर्वमेवप्रतुष्टोऽहमिदानीं सुतरां त्वयि
यागो जपस्तपोदानं व्रतं तीर्थं दयादिकम् । देवाश्च मयि संतुष्टे तुष्टमेतदसंशयम्