धनुर्भंगे मतिभ्रंशे कैकय्या मरणे पितुः । अरण्यगमने तत्र हरणे तव वारिधेः
तरणे रक्षसां भर्तुर्मारणेऽपि रणेरणे । सहायीभवने मह्यमृक्षवानररक्षसाम्
लाभे तव प्रतिज्ञायाः सत्यत्वे च सतीमणे । पुनः स्वबंधुसंबंधे राज्यप्राप्तौ च भामिनि
पुनः प्रियावियोगे च कारणं यदवारणम् । प्रसीदति तदेवाद्य संयोगे पुनरावयोः
वेदोऽन्यथा कृतो येन लोकोत्पत्ति लयौ यतः । लोकाननुगतस्तस्मात्कारणं प्रथमं त्वहम्
अदृष्टमनुवर्तंते लोकाः संप्रतिबोधकाः । भोगेन जीर्यतेऽदृष्टं तत्तद्भुक्तं त्वया वने
स्नेहोऽकारणकः सीते वर्धमानो मम त्वयि । लोकादृष्टे तिरस्कृत्य त्वामाह्वयत आदरात्
शङ्कितेनापि दोषेण स्नेहनैर्मल्यमज्जनम् । भवतीति स वै शुद्ध आस्वाद्यो विबुधैः सदा
स्नेहशुद्धिरियं भद्रे कृता मे त्वयि नान्यथा । मंतव्यं रक्षितोऽप्येष लोकः शिष्टानुवर्तिना
आवयोर्निंदया देवि सर्वावस्था सुशुद्धये । लोको नश्येद्धि संमूढश्चरितैर्महतामयम्
आवयोरुज्ज्वला कीर्तिरावयोरुज्ज्वलो रसः । आवयोरुज्ज्वलौ वंशावावयोरुज्ज्वलाः क्रियाः
भवेयुरावयोः कीर्तिर्गायका उज्ज्वला भुवि । आवयोर्भक्तिमंतो ये ते यांत्यंते भवांबुधेः
इत्युक्ता भवती तेन प्रीयमाणेन ते गुणैः । पत्युः पादांबुजे द्रष्टुं करोतु सदयं मनः
वासांसि रमणीयानि भूषणानि महांति च । अंगरागस्तथा गंधा मनोज्ञास्त्वयि योजिताः
रथो दास्यश्च रामेण प्रेषिता उत्सवायते । छत्रं च चामरे शुभ्रे गजा अश्वाश्च शोभने
स्तूयमाना द्विजश्रेष्ठैः सूतमागधबंदिभिः । वंद्यमाना पुरस्त्रीभिः सेव्यमाना च योद्धृभिः
पुष्पैः संछाद्यमाना च देवीदेवांगनादिभिः । धनानि ददती तेभ्यो द्विजातिभ्यो यथेप्सितम्
गजारूढौ कुमारौ च पुरस्कृत्य जनेश्वरी । मयानुगम्यमाना च गच्छायोध्यां निजां पुरीम्
त्वयि तत्र गतायां तु संगतायां प्रियेण ते । सर्वासां राजनारीणामागतानां च सर्वशः
सर्वासामृषिपत्नीनां कौसलानां तथैव च । मंगलैर्वाद्यगीताद्यैर्भवत्वद्य महोत्सवः
शेष उवाच-। इतिविज्ञापनां देवी श्रुत्वा सीता तमाह सा । नाहं कीर्तिकरी राज्ञो ह्यपकीर्तिः स्वयं त्वहम्
किं मया तस्य साध्यं स्याद्धर्मकामार्थशून्यया । सत्येवं भवतां भूपे को विश्वासो निरंकुशे
प्रत्यक्षा वा परोक्षा वा भर्तुर्दोषा मनःस्थिताः । न वाच्या जातु मादृश्या कल्याणकुलजातया
पाणिग्रहणकाले मे यद्रूपो हृदये स्थितः । तद्रूपो हृदयान्नासौ कदाचिदपसर्पति
लक्ष्मणेमौ कुमारौ मे तत्तेजोंशसमुद्भवौ । वंशांकुरौ महाशूरौ धनुर्विद्याविशारदौ
नीत्वा पितुः समीपं तु लालनीयौ प्रयत्नतः । तपसाराधयिष्यामि रामं काममिह स्थिता
वाच्यं त्वया महाभाग पूज्यपादाभिवंदनम् । सर्वेभ्यः कुशलं चापि गत्वेतो मदपेक्षया
पुत्रौ समादिशत्सीता गच्छतं पितुरंतिकम् । शुश्रूषणीय एवासौ भवद्भ्यां स्वपदप्रदः
आज्ञप्तावप्यनिच्छंतौ तौ कुमारौ कुशीलवौ । वाल्मीकिवचनात्तत्र जग्मतुश्च सलक्ष्मणौ
वाल्मीकेरेव पादाब्जसमीपं तत्सुतौ गतौ । लक्ष्मणोऽपि ववंदे तं गत्वा बालकसंयुतः