नाज्ञातं तेन चास्माकं नामराणां च मानद । शुद्धौ तस्यास्तु लोकानां यन्नष्टं तदिह ध्रुवम्
शेष उवाच। इति वाल्मीकिना रामः सर्वज्ञोऽप्यवबोधितः । स्तुत्वा नत्वा च वाल्मीकिं प्रत्युवाच स लक्ष्मणम्
गच्छ ताताधुना सीतामानेतुं धर्मचारिणीम् । सपुत्रां रथमास्थाय सुमंत्रसहितः सखे
श्रावयित्वा ममेमानि मुनेश्च वचनान्यपि । संबोध्य च पुरीमेतां सीतां प्रत्यानयाशु ताम्
लक्ष्मण उवाच। यास्यामि तव संदेशात्सर्वेषां नः प्रभोर्विभो । देव्या यास्यति चेद्देव यात्रा मे सफला ततः
मयि सामाभ्यसूयैव पूर्वदोषवशात्सती । अनागतायां तस्यां तु क्षमस्वागंतुकं मम
इत्युक्त्वा लक्ष्मणो रामं रथे स्थित्वा नृपाज्ञया । सुमित्रमुनिशिष्याभ्यां युतोऽगाद्भूमिजाश्रमम्
कथं प्रसादनीया स्यात्सीता भगवती मया । पूर्वदोषं विजानंती रामाधीनस्य मे सदा
एवं संचिंतयन्नंतर्हर्षसंकोच मध्यगः । लक्ष्मणः प्राप सीताया आश्रमं श्रमनाशनम्
रथात्सोथावरुह्यारादश्रुरुद्धविलोचनः । आर्ये पूज्ये भगवति शुभे इति वदन्मुहुः
पपात पादयोस्तस्या वेपमानाखिलांगकः । उत्थापितस्तया देव्या प्रीतिविह्वलया स च
किमर्थमागतः सौम्य वनं मुनिजनप्रियम् । आस्ते स कुशली देवः कौसल्याशुक्तिमौक्तिकः
अरोषो मयि कश्चित्स कीर्त्या केवलयादृतः । कीर्त्यते सर्वलोकैश्च कल्याणगुणसागरः
अकीर्तिभीतिमापन्नस्त्यक्तुं मां त्वां नियुक्तवान् । यदि ततश्च लोकेषु कीर्तिस्तस्यामलाभवत्
मृत्वापि पतिसत्कीर्तिं कुर्वंत्या मे हि सुस्थिरा । पतिसामीप्यमेवाशु भूयादेव हि देवर
त्यक्तयापि मया तेन नासौ त्यक्तो मनागपि । फलं हि साधनायत्तं हेतुः फलवशो न तु
कौसल्याशल्यशून्यासौ कृपापूर्णा सदा मयि । आस्ते कुशलिनी यस्याः पुत्रस्त्रैलोक्यपालकः
सर्वे कुशलिनः संति भरताद्याश्च बांधवाः । सुमित्रा च महाभागा यस्याः प्राणादहं प्रिया
मद्वत्किं त्वमपि त्यक्तः सर्वलोकेषु कीर्तये । राज्ञः किं दुस्त्यजं तस्य स्वात्मापि यस्य न प्रियः
इत्येवं बहुधा पृष्टस्तया रामानुजः सताम् । उवाच कुशली देवः कुशलं त्वयि पृच्छति
कौसल्या च सुमित्रा च याश्चान्या राजयोषितः । पप्रच्छुः कुशलं देवि प्रीत्या त्वामाशिषा सह
कुशलप्रश्नपूर्वं हि तव पादाभिवंदनम् । निवेदयामि शत्रुघ्न भरताभ्यां कृतं शुभे
गुरुभिर्गुरुपत्नीभिः सर्वाभिरपि ते शुभे । दत्ताशीः कुशलप्रश्नः कृतश्च त्वयि जानकि
आकारयति देवस्त्वां निर्व्यलीकेन चात्मवान् । अलभ्यान्यरतिस्त्वत्तोऽन्यत्र सर्वत्र भामिनि
शून्या एव दिशः सर्वास्त्वां विना जनकात्मजे । पश्यन्रोदिति नाथो नो रोदयन्नितरानपि
यत्र देवि स्थितासि त्वं नित्यं स्मरति राघवः । अशून्यं तु तमेवासौ मन्यमानो विदेहजे
धन्योऽयमाश्रमो जातो वाल्मीकेर्यत्र जानकी । कालं क्षपति वार्ताभिर्मदीयाभिर्वदन्निति
उक्तवान्यद्रुदन्किंचित्स्वामी नस्त्वयि तच्छृणु । व्यक्तीभवति वक्तुर्यद्धृद्गतं तदसंशयम्
लोका वदंति मामेव सर्वेषामीश्वरेश्वरम् । अहं त्वदृष्टमेवैषां स्वतंत्रं कारणं ब्रुवे
अदृष्टमेव कार्येषु सर्वेशोऽप्यनुगच्छति । ईशनीयाः कुतो नैतदन्वीयुः सुखदुःखयोः