पामरैर्महिमानास्या ज्ञायते यदि दूषितैः । का हानिस्तावता राम पुण्यश्रवणकीर्तन
अस्मत्साक्षिकमेतस्याः पावनं चरितं सदा । सद्यस्ते सिद्धिमायांति ये सीतापदचिंतकाः
यस्याः संकल्पमात्रेण जन्मस्थितिलयादिकाः । भवंति जगतां नित्यं व्यापारा ऐश्वरा अमी
सीता मृत्युःसुधा चेयं तपत्येषा च वर्षति । स्वर्गो मोक्षस्तपो योगो दानं च तव जानकी
ब्रह्माणं शिवमन्यांश्च लोकपालान्मदादिकान् । करोत्येषा करोत्येव नान्या सीता तव प्रिया
त्वं पिता सर्वलोकानां सीता च जननीत्यतः । कुदृष्टिरत्र तु क्षेमयोग्या न तव कर्हिचित्
वेत्ति सीतां सदा शुद्धां सर्वज्ञो भगवान्स्वयम् । भवानपि सुतां भूमेः प्राणादपि गरीयसीम्
आदर्तव्या त्वया तस्मात्प्रिया शुद्धेति जानकी । न च शापपराभूतिः सीतायां त्वयि वा विभो
इमानि मम वाक्यानि वाच्यानि जगतां पतिम् । रामं प्रति त्वया साक्षाद्वाल्मीके मुनिसत्तम
इत्युक्तो वरुणेनाहं सीतासंग्रहकारणात् । एवमेव हि सर्वैश्च लोकपालैरपि प्रभो
श्रुतं रामायणोद्गानं पुत्राभ्यां ते सुरासुरैः । गंधर्वैरपि सर्वैश्च कौतुकाविष्टमानसैः
प्रसन्ना एव सर्वेऽपि प्रशशंसुः सुतौ च ते । त्रैलोक्यं मोहितं ताभ्यां रूपगानवयोगुणैः
दत्तं यल्लोकपालैस्तु सुताभ्यां स्वीकृतं हि तत् । ऋषिभिश्च वरा आभ्यामन्येभ्यः कीर्तिरेव च
एकरामं जगत्सर्वं पूर्वं मुनिविलोकितम् । त्रिराममधुना जांतं सुताभ्यां तेखिलेक्षितम्
एककामपरामूर्तिर्लोके पूर्वमवेक्षिता । कामैश्चतुर्भिरद्यायं जायते च यतस्ततः
सर्वत्रान्यत्र राजेंद्र रामपुत्रौ कुशीलवौ । गीयते अत्र संकोचः किं कृतो विदुषि त्वयि
कृतेषु तव सर्वेषु श्रूयते महती स्तुतिः । त्यागादन्यत्र सीतायाः पुण्यश्लोकशिरोमणे
त्वया त्रैलोक्यनाथेन गार्हस्थ्यमनुकुर्वता । अंगीकार्यौ सुतौ रामविद्याशीलगुणान्वितौ
न तौ स्वां मातरं हित्वा स्थास्यतोऽभवदंतिके । जनन्या सहितौ तस्मादाकार्यौ भवता सुतौ
दत्त एव तयेदानीं सेनासंजीवनात्पुनः । प्रत्ययः सर्वलोकानां पावनः पततामपि
नाज्ञातं तेन चास्माकं नामराणां च मानद । शुद्धौ तस्यास्तु लोकानां यन्नष्टं तदिह ध्रुवम्
शेष उवाच। इति वाल्मीकिना रामः सर्वज्ञोऽप्यवबोधितः । स्तुत्वा नत्वा च वाल्मीकिं प्रत्युवाच स लक्ष्मणम्
गच्छ ताताधुना सीतामानेतुं धर्मचारिणीम् । सपुत्रां रथमास्थाय सुमंत्रसहितः सखे
श्रावयित्वा ममेमानि मुनेश्च वचनान्यपि । संबोध्य च पुरीमेतां सीतां प्रत्यानयाशु ताम्
लक्ष्मण उवाच। यास्यामि तव संदेशात्सर्वेषां नः प्रभोर्विभो । देव्या यास्यति चेद्देव यात्रा मे सफला ततः
मयि सामाभ्यसूयैव पूर्वदोषवशात्सती । अनागतायां तस्यां तु क्षमस्वागंतुकं मम
इत्युक्त्वा लक्ष्मणो रामं रथे स्थित्वा नृपाज्ञया । सुमित्रमुनिशिष्याभ्यां युतोऽगाद्भूमिजाश्रमम्
कथं प्रसादनीया स्यात्सीता भगवती मया । पूर्वदोषं विजानंती रामाधीनस्य मे सदा
एवं संचिंतयन्नंतर्हर्षसंकोच मध्यगः । लक्ष्मणः प्राप सीताया आश्रमं श्रमनाशनम्
रथात्सोथावरुह्यारादश्रुरुद्धविलोचनः । आर्ये पूज्ये भगवति शुभे इति वदन्मुहुः