शेष उवाच। कथितौ वै सुमतिना वाल्मीकेराश्रमे शिशू । पुत्रौ स्वीयाविति ज्ञात्वा वाल्मीकिं प्रति संजगौ
श्रीराम उवाच। कौ शिशू मम सारूप्यधारकौ बलिनां वरौ । किमर्थं तिष्ठतस्तत्र धनुर्विद्याविशारदौ
अमात्यकथितौ श्रुत्वा विस्मयो मम जायते । यौ शत्रुघ्नं हनूमंतं लीलयांग बबंधतुः
तस्माच्छंस मुने सर्वं बालयोश्च विचेष्टितम् । यथा मे परमा प्रीतिर्भवत्येवमभीप्सिता
इति तत्कथितं श्रुत्वा राजराजस्य धीमतः । उवाच परमं वाक्यं स्पष्टाक्षरसमन्वितम्
वाल्मीकिरुवाच। तवांतर्यामिणो नॄणां कथं ज्ञानं च नो भवेत् । तथापि कथयाम्यत्र तव संतोषहेतवे
राजन्यौ बालकौ मह्यमाश्रमे बलिनां वरौ । त्वत्सारूप्यधरौ स्वांगमनोहरवपुर्धरौ
त्वया यदा वने त्यक्ता जानकी वै निरागसी । अंतर्वत्नी वने घोरे विलपंती मुहुर्मुहुः
कुररीमिव दुःखार्तां वीक्ष्याहं तव वल्लभाम् । जनकस्य सुतां पुण्यामाश्रमे त्वानयं तदा
तस्याः पर्णकुटीरम्या रचिता मुनिपुत्रकैः । तस्यामसूत पुत्रौ द्वौ भासयंतौ दिशो दश
तयोरकरवं नाम कुशो लव इति स्फुटम् । ववृधातेऽनिशं तत्र शुक्लपक्षे यथा शशी
कालेनोपनयाद्यानि सर्वाणि कृतवानहम् । वेदान्सांगानहं सर्वान्ग्राहयामास भूपते
सर्वाणि सरहस्यानि शृणुष्व मुखतो मम । आयुर्वेदं धनुर्विद्यां शस्त्रविद्यां तथैव च
विद्यां जालंधरीं चाथ संगीतकुशलौ कृतौ । गंगाकूले गायमानौ लताकुंजवनेषु च
चंचलौ चलचित्तौ तौ सर्वविद्याविशारदौ । तदाहमतिसंतोषं प्राप्तश्चाहं रघूत्तम
दत्त्वा सर्वाणि चास्त्राणि मस्तके निहितः करः । अतीवगानकुशलौ दृष्ट्वा लोका विसिष्मिरे । षड्जमध्यमगांधारस्वरभेदविशारदौ
तथाविधौ विलोक्याहं गापयामि मनोहरम् । भविष्यज्ञानयोगाच्च कृतं रामायणं शुभम्
मृदंगपणवाद्यादि यंत्रवीणाविशारदौ । वनेवने च गायंतौ मृगपक्षिविमोहकौ
अद्भुतं गीतमाधुर्यं तव रामकुमारयोः । श्रोतुं तौ वरुणो बाला वा निनाय विभावरीम्
मनोहरवयोरूपौ गानविद्याब्धिपारगौ । कुमारौ जगदुस्तत्र लोकेशादेशतः कलम्
परमं मधुरं रम्यं पवित्रं चरितं तव । शुश्राव वरुणः सार्द्धं कुटुंबेन च गायकैः
शृण्वन्नैव गतस्तृप्तिं मित्रेण वरुणः सह । सुधातोऽपि परं स्वादुचरितं रघुनंदन
गानानंदमहालोभ हृतप्राणेंद्रियक्रियः । प्रत्यागंतुं दिदेशासौ कुमारौ न हि तावकौ
रमणीय महाभोगैर्लोभितावपि बालकौ । चलितौ न गुरोश्चात्ममातुः पादांबुजस्मृतेः
अहं चापि गतः पश्चाद्वरुणालयमुत्तमम् । वरुणः प्रेमसहितः पूजां चक्रे मम प्रभो
पृच्छते जन्मकर्मादि सर्वज्ञायापि बालयोः । वरुणायाब्रुवं सर्वं जन्मविद्याद्युपागमम्
श्रुत्वा सीतासुतौ देवः स चक्रेंबरभूषणैः । देवदत्तमिति ग्राह्यमिति मद्वाक्यगौरवात्
आहृतं राजपुत्राभ्यां यद्दत्तं वरुणेन तत् । प्रसन्नेन तयोर्वाद्यगानविद्यावयोगुणैः । ततो मामब्रवीत्सीतामुद्दिश्य वरुणः कृती
सीतापति व्रताधुर्या रूपशीलवयोन्विता । वीरपुत्रा महाभागा त्यागं नार्हति कर्हिचित्
महती हानिरेतस्यास्त्यागे हि रघुनंदन । सिद्धीनां परमासिद्धिरेषा ते ह्यनपायिनी