यो राजा जगतां नेत्रीं मातरं जगदंबिकाम् । प्रसाद्य चिरमायुष्यं लेभे राज्यमकंटकम्
स एष त्वां प्रणमति सुमदः प्रभुसेवितम् । तं गृहाण कृपादृष्ट्या चिराद्दर्शनकांक्षकम्
ततः सुबाहुभूपस्य नगरे बलपूरिते । दमनस्तस्य वै पुत्रः प्रजग्राह हयोत्तमम्
तेन साकं महद्युद्धं बभूव दमनेन च । पुष्कलो जयमापेदे संमूर्छ्य सुभुजात्मजम्
ततः सुबाहुः संक्रुद्धो रणे पवनजं बलात् । युयुधे तव पादाब्जसेवकं बलिनां वरम्
तस्य पादाहतो ज्ञानं प्राप्य शापतिरस्कृतम् । तुभ्यं समर्प्य सकलं वाजिनः पालकोऽभवत्
एष त्वां सुभुजो राजा प्रणमत्युन्नतांगकः । कृपादृष्ट्याभिषिंच त्वं सुबाहुं नयकोविदम्
ततो मुक्तो हयो रेवाह्रदे स निममज्ज ह । तत्र प्राप्तं मोहनास्त्रं शत्रुघ्नेन बलीयसा
ततो देवपुरे प्रागाच्छिववासविभूषिते । तत्रत्यं तु विजानासि यतस्त्वं तत्र चागतः
विद्युन्माली हतो दैत्यः सत्यवान्संगतस्ततः । सुरथेन समं युद्धं जानासि त्वं महामते
ततः कुंडलकान्मुक्तो हयो बभ्राम सर्वतः । न कश्चित्तं निजग्राह स्ववीर्यबलदर्पितः
वाल्मीकेराश्रमे रम्ये हयः प्राप्तो मनोरमः । तत्र यत्कुतुकं जातं तच्छृणुष्व नरोत्तम
तत्रार्भस्तव सारूप्यं बिभ्रत्षोडशवार्षिकः । जग्राह वीक्ष्य पत्रांकं वाजिनं बलवत्तमः
तत्र कालजिता युद्धं महज्जातं नरोत्तम । निहतस्तेन वीरेण शितधारेण हेतिना
अनेके निहताः संख्ये पुष्कलाद्या महाबलाः । मूर्च्छितं चापि शत्रुघ्नं चक्रे वीरशिरोमणिः
तदा राजा महद्दुःखं विचार्य हृदिसंयुगे । कोपेन मूर्च्छितं चक्रे वीरो हि बलिनां वरः
स यावन्मूर्च्छितो राज्ञा तावदन्यः समागतः । तेनैतेन च संजीव्य नाशितं कटकं तव
सर्वेषां मूर्च्छितानां तु शस्त्राण्याभरणानि च । गृहीत्वा वानरौ बद्धौ जग्मतुः स्वाश्रमं प्रति
कृपां कृत्वा पुनस्तेन दत्तोऽश्वो यज्ञियो महान् । जीवनं प्रापितं सर्वं कटकं नष्टजीवितम्
वयं गृहीत्वा तं वाहं प्राप्तास्तव समीपतः । एतदेव मया ज्ञातं तदुक्तं ते पुरोवचः
शेष उवाच। कथितौ वै सुमतिना वाल्मीकेराश्रमे शिशू । पुत्रौ स्वीयाविति ज्ञात्वा वाल्मीकिं प्रति संजगौ
श्रीराम उवाच। कौ शिशू मम सारूप्यधारकौ बलिनां वरौ । किमर्थं तिष्ठतस्तत्र धनुर्विद्याविशारदौ
अमात्यकथितौ श्रुत्वा विस्मयो मम जायते । यौ शत्रुघ्नं हनूमंतं लीलयांग बबंधतुः
तस्माच्छंस मुने सर्वं बालयोश्च विचेष्टितम् । यथा मे परमा प्रीतिर्भवत्येवमभीप्सिता
इति तत्कथितं श्रुत्वा राजराजस्य धीमतः । उवाच परमं वाक्यं स्पष्टाक्षरसमन्वितम्
वाल्मीकिरुवाच। तवांतर्यामिणो नॄणां कथं ज्ञानं च नो भवेत् । तथापि कथयाम्यत्र तव संतोषहेतवे
राजन्यौ बालकौ मह्यमाश्रमे बलिनां वरौ । त्वत्सारूप्यधरौ स्वांगमनोहरवपुर्धरौ
त्वया यदा वने त्यक्ता जानकी वै निरागसी । अंतर्वत्नी वने घोरे विलपंती मुहुर्मुहुः
कुररीमिव दुःखार्तां वीक्ष्याहं तव वल्लभाम् । जनकस्य सुतां पुण्यामाश्रमे त्वानयं तदा
तस्याः पर्णकुटीरम्या रचिता मुनिपुत्रकैः । तस्यामसूत पुत्रौ द्वौ भासयंतौ दिशो दश