रामः शत्रुघ्नमायांतं पुष्कलेन समन्वितम् । निरीक्ष्यमुदमुद्भूतां रक्षितुं नाशकत्तदा
यावदुत्तिष्ठते रामो भ्रातरं हयपालकम् । तावद्रामपदेलग्नः शत्रुघ्नो भ्रातृवत्सलः
पादयोः पतितं वीक्ष्य भ्रातरं विनयान्वितम् । परिरेभे दृढं प्रीतः क्षतसंशोभितांगकम्
अश्रूणि बहुधा मुंचन्हर्षाच्छिरसि राघवः । अत्यंतं परमां प्राप मुदं वचनदूरगाम्
पुष्कलं स्वीयपदयोर्नम्रं विनयविह्वलः । सुदृढं भुजयोर्मध्ये विनीयापीडयद्भृशम्
हनूमंतं तथा वीरं सुग्रीवं चांगदं तथा । लक्ष्मीनिधिं जनकजं प्रतापाग्र्यं रिपुंजयम्
सुबाहुं सुमदं वीरं विमलं नीलरत्नकम् । सत्यवंतं वीरमणिं सुरथं रामसेवकम्
अन्यानपि महाभागान्रघुनाथः स्वयं तदा । परिरेभे दृढं स्निग्धान्पादयोः प्रणतान्नृपान्
सुमतिः श्रीरघुपतिं भक्तानुग्रहकारकम् । परिरभ्य दृढं प्रीतः संमुखे तिष्ठदुन्नतः
तदा रामो निजामात्यं वीक्ष्य सान्निध्यमागतम् । उवाच परमप्रीत्या मंत्रिणं वदतां वरः
सुमते मंत्रिणां श्रेष्ठ शंश मे वाग्मिनां वर । क एते भूमिपाः सर्वे कथमत्र समागताः
कुत्रकुत्र हयः प्राप्तः केनकेन नियंत्रितः । कथं वै मोचितो भ्रात्रा महाबलसुशालिना
शेष उवाच। इत्युक्तो मंत्रिणां श्रेष्ठः सुमतिः प्राह राघवम् । प्रहसन्मेघगंभीर नादेन च सुबुद्धिमान्
सुमतिरुवाच। सर्वज्ञस्य पुरस्तेऽद्य मया कथमुदीर्यते । पृच्छसि त्वं लोकरीत्या सर्वं जानासि सर्वदृक्
तथापि तव निर्देशं शिरस्याधाय सर्वदा । ब्रवीमि तच्छृणुष्वाद्य सर्वराजशिरोमणे
त्वत्प्रसादादहो स्वामिन्सर्वत्र जगतीतले । परिबभ्राम ते वाहो भालपत्रसुशोभितः
न कश्चित्तं निजग्राह स्वनामबलदर्पितः । स्वं स्वं राज्यं समर्प्याथ प्रणेमुस्ते पदांबुजम्
को वा रावण दैत्येंद्र निहंतुर्वाजिसत्तमम् । गृह्णाति विजयाकांक्षी जरामरणवर्जितः
अहिच्छत्रां गतस्तावत्तव वाजी मनोरमः । तद्राजा सुमदः श्रुत्वा हयं प्राप्तं तव प्रभो
सपुत्रः प्रबलः सर्वसैन्येन बलिना वृतः । सर्वं समर्पयामास राज्यं निहतकंटकम्
यो राजा जगतां नेत्रीं मातरं जगदंबिकाम् । प्रसाद्य चिरमायुष्यं लेभे राज्यमकंटकम्
स एष त्वां प्रणमति सुमदः प्रभुसेवितम् । तं गृहाण कृपादृष्ट्या चिराद्दर्शनकांक्षकम्
ततः सुबाहुभूपस्य नगरे बलपूरिते । दमनस्तस्य वै पुत्रः प्रजग्राह हयोत्तमम्
तेन साकं महद्युद्धं बभूव दमनेन च । पुष्कलो जयमापेदे संमूर्छ्य सुभुजात्मजम्
ततः सुबाहुः संक्रुद्धो रणे पवनजं बलात् । युयुधे तव पादाब्जसेवकं बलिनां वरम्
तस्य पादाहतो ज्ञानं प्राप्य शापतिरस्कृतम् । तुभ्यं समर्प्य सकलं वाजिनः पालकोऽभवत्
एष त्वां सुभुजो राजा प्रणमत्युन्नतांगकः । कृपादृष्ट्याभिषिंच त्वं सुबाहुं नयकोविदम्
ततो मुक्तो हयो रेवाह्रदे स निममज्ज ह । तत्र प्राप्तं मोहनास्त्रं शत्रुघ्नेन बलीयसा
ततो देवपुरे प्रागाच्छिववासविभूषिते । तत्रत्यं तु विजानासि यतस्त्वं तत्र चागतः
विद्युन्माली हतो दैत्यः सत्यवान्संगतस्ततः । सुरथेन समं युद्धं जानासि त्वं महामते