क्रमेण नगरीं प्राप सूर्यवंशविभूषिताम् । अनेकैः केतुभिः श्रेष्ठैर्भूषितां दुर्गराजिताम्
रामः श्रुत्वा हयं प्राप्तं शत्रुघ्नेन सहामुना । पुष्कलेन च वीरेण ययौ हर्षमनेकधा
कटकं निर्दिदेशासौ चतुरंगं महाबलम् । लक्ष्मणं प्रेषयामास भ्रातरं बलिनां वरम्
लक्ष्मणः सैन्यसहितो गत्वा भ्रातरमागतम् । परिरेभे मुदाक्रांतः क्षतशोभितगात्रकम्
सर्वत्र कुशलं पृष्टो वार्तां चात्र चकार सः । परमं हर्षमापन्नः शत्रुघ्नः संगतो मुदा
सौमित्रिः स्वरथे स्थित्वा भ्रात्रा सह महामनाः । सैन्येन महता वीरो ययौ स्वनगरीं प्रति
सरयूः पुण्यसलिला पवित्रित जगत्त्रया । रामपादरजः पूता शरच्चंद्रसमप्रभा
हंसकारंडवाकीर्णा चक्रवाकोपशोभिता । विचित्रतरवर्णैश्च पक्षिभिर्नादिता भृशम्
मंडपास्तत्र बहुशो रामचंद्रेणकारिताः । ब्राह्मणानां वेदविदां पृथक्पाठनिनादकाः
क्षत्रियास्तत्र बहवो धनुःपाणि सुशोभिताः । ज्याटंकारेण बहुना नादयंतो महीतलम्
भुंजते ब्राह्मणा यत्र विचित्रान्नैर्मनोहरैः । परस्परं प्रपश्यंतो वार्तां चक्रुर्मनोहराम्
पायसान्नानि शुभ्राणि चंद्रकांतिसमानि च । क्षीराज्यबहुयुक्तानि शर्करामिश्रितानि च
अपूपास्तत्र बहुलाश्चंद्रबिंबसमाः श्रिया । कर्पूरादिसुगंधेन वासिताः सुमनोहराः
फेनिकाघटकाः स्निग्धाः शतच्छिद्रा विरंध्रकाः । शष्कुल्यो मंडकामृष्टा मधुरान्नसमन्विताः
भक्तं कुमुदसंकाशं मुद्गदालिविमिश्रितम् । सुगंधेन समायुक्तमत्यंतं प्रीतिदायकम्
ओदनो दधिना युक्तो भीमसेनसमन्वितः । स्वादुपाककरैः सृष्टः पात्रे मुक्तः प्रवेषकैः
तत्र केचिद्द्विजाः पात्रे निक्षिप्तं वीक्ष्य पायसम् । परस्परं ते प्रत्यूचुः किमिदं दृश्यतेऽद्भुतम्
किं चंद्रबिंबं नभसः पतितं तमसो भयात् । अमृतं तु भवत्यत्र मृत्युनाशकमद्भुतम्
तच्छ्रुत्वा रोषताम्राक्षः प्रोवाचान्यो द्विजोत्तमः । नभवत्येव चंद्रस्य बिंबं त्वमृतविप्लुतम्
एकमिंदोर्वपुस्त्वेतद्दृश्यते सदृशं कथम् । ब्राह्मणानां सहस्रस्य पात्रे पात्रे पृथक्पृथक्
ततो जानीहि कुमुदं कर्पूरं वा भविष्यति । मा जानीहि मृगांकस्य बिंबं शुभ्रश्रियान्वितम्
तावदन्यो रुषाक्रांतो धुन्वन्स्वं मस्तकं तथा । न जानंति द्विजा मूढाः स्वादुज्ञाना विचक्षणाः
इदं तु क्षौद्रकंदस्यरसेन परिपाचितम् । जानीहि शतपत्रस्य पुष्पाणि मधुराणि च
एवं परस्परं विप्राः कंदमूलफलाशिनः । तर्कयंति मुने प्रीता रसज्ञानेऽतिलोलुपाः
तावदन्यो द्विजः प्राह क्षत्त्रियाणां वरं जनुः । भोक्ष्यंते तादृशं त्वन्नं महत्पुण्यैरुपस्कृतम्
तदा तं प्राब्रवीद्विप्रो दत्तस्य फलमीदृशम् । ये ददत्यग्रजन्मभ्यः प्राप्नुवंति त ईप्सितम्
यैरर्चितो नैव हरिर्नैवेद्यैर्विविधैर्मुहुः । तेषामेतादृशं भोज्यं न भवेदक्षिगोचरम्
यैर्नरैरग्रजन्मानो भोजिता विविधै रसैः । भुंजते ते स्वादुरसं पापिनां चक्षुरुज्झितम्
एवंविधैरसैर्मिष्टैर्भोजिता द्विजसत्तमाः । मंडपे विपठंतस्ते शब्दब्रह्मविचक्षणाः
नृत्यंत्येके हसन्त्येके नदन्त्येके प्रहर्षिताः । उत्सवो बहुरुद्भाति तत्र शत्रुघ्न आगमत्