तदा मया विचारो वै कृतः स्वांते पतिव्रते । भवती क्षत्रिया किं न वीरसूः किं न वा भवेत्
धार्ष्ट्यं तद्वीक्ष्य भूपस्य गृहीतोऽश्वो मया बलात् । जितं कुशेन वीरेण सैन्यं तत्पातितं रणे
मुकुटोऽयं भूमिपतेर्जानीहि पतिदेवते । अयमप्यन्यवीरस्य पुष्कलस्य महात्मनः
जानीहि मुकुटं त्वन्यं मणिमुक्ताविराजितम् । अश्वोऽयं मे मनोहारी कामयानो हि भूपतेः
आरोहणाय मद्भ्रातुर्जानीहि बलिनो वरे । इमौ कीशौ मया रंतुमानीतौ बलिनां वरौ
कौतुकार्थं तवैवैतौ संग्रामे युद्धकारकौ । इति वाक्यं समाकर्ण्य जानकी पतिदेवता
जगाद पुत्रौ तौ वीरौ मोचयेथां पुनः पुनः । सीतोवाच। युवाभ्यामनयः सृष्टो हृतो रामहयो महान्
अनेके पातिता वीरा इमौ बद्धौ कपीश्वरौ । पितुस्तव हयो वीरो यागार्थं मोचितोऽमुना
तस्यापि हृतवंतौ किं वाजिनं मखसत्तमे । मुंचतं प्लवगावेतौ मुंचतं वाजिनां वरम्
क्षाम्यतां भूपतेर्भ्राता शत्रुघ्नः परकोपनः । जनन्यास्तद्वचः श्रुत्वा ऊचतुस्तां बलान्वितौ
क्षात्रधर्मेण तं भूपं जितवंतौ बलान्वितम् । नास्माकमनयोर्भावि क्षात्रधर्मेण युध्यताम्
वाल्मीकिना पुरा प्रोक्तमस्माकं पठतां पुरः
कण्वस्याश्रमकेवाहं धृत्वा यागक्रियोचितम् । तस्मात्सुतः स्वपित्रापि युध्येद्भ्रात्रापि चानुजः
गुरुणा शिष्य एवापि तस्मान्नो पापसंभवः । त्वदाज्ञातो ऽधुना चावां दास्यावो हयमुत्तमम्
मोक्ष्यावः कीशावेतौ हि करिष्यावो वचस्तव । इत्युक्त्वा मातरं वीरौ गतौ रणे कपीश्वरौ
अमुंचतां हयं चापि हयमेधक्रियोचितम् । सीतादेवी स्वपुत्राभ्यां श्रुत्वा सैन्यं निपातितम्
श्रीरामं मनसा ध्यात्वा भानुमैक्षत साक्षिणम् । यद्यहं मनसा वाचा कर्मणा रघुनायकम्
भजामि नान्यं मनसा तर्हि जीवेदयं नृपः । सैन्यं चापि महत्सर्वं यन्नाशितमिदं बलात्
पुत्राभ्यां तत्तु जीवेत मत्सत्याज्जगतांपते । इति यावद्वचो ब्रूते जानकीपतिदेवता
तावद्बलं च तत्सर्वं जीवितं रणमूर्द्धनि
शेष उवाच। क्षणान्मूर्च्छां जहौ वीरः शत्रुघ्नः समरांगणे । अन्येऽपि वीराबलिनो मूर्च्छां प्राप्ताः सुजीविताः
शत्रुघ्नो वाजिनां श्रेष्ठं ददर्श पुरतः स्थितम् । आत्मानं च शिरस्त्राणरहितं सैन्यजीवितम्
वीक्ष्य चित्रमिदं स्वांते चकारच जगाद ह । सुमतिं मंत्रिणां श्रेष्ठं मूर्च्छाविरहितं तदा
कृपां कृत्वा हयं प्रादाद्बालो यज्ञस्य पूर्तये । गच्छाम रामं तरसा हयागमनकांक्षिणम्
इत्युक्त्वा स रथे स्थित्वा हयमादाय वेगतः । ययौ तदाश्रमाद्दूरं भेरीशंखविवर्जितः
तत्पृष्ठतो महासैन्यं चतुरंगसमन्वितम् । चचाल कुर्वन्संभग्नं स्वभारेण फणीश्वरम्
जवेन जाह्नवीं तीर्त्वा कल्लोलजलशालिनीम् । जगाम विषये स्वीये स्वकीयजनशोभिते
पुष्कलेन युतो राजा सुरथेन समन्वितः । रथे मणिमये तिष्ठन्महत्कोदंडधारकः
हयं तं पुरतः कृत्वा रत्नमालाविभूषितम् । श्वेतातपत्रं तस्यैव मूर्ध्नि चामरभूषितम्
अनेकरथसाहस्रैः परितो बलिभिर्नृपैः । उद्यत्कोदंडललितैर्वीरनादविभूषितैः