तदापि च कुशो वीरो वारुणास्त्रं समाददे । बबंध तं च पाशेन दृढेन स लवाग्रजः
स बद्धः पाशकैः स्निग्धैः कुशेन बलशालिना । पपात रणमध्ये वै महावीरैरलंकृते
सुग्रीवं पतितं दृष्ट्वा वीराः सर्वत्र दुद्रुवुः । जयमाप लवभ्राता महावीरशिरोमणिः
तावल्लवो भटाञ्जित्वा पुष्कलं चांगदं तथा । प्रतापाग्र्यं वीरमणिं तथान्यानपि भूभुजः
जयं प्राप्य रणे वीरो लवो भ्रातरमागमत् । संग्रामे जयकर्तारं वैरिकोटिनिपातकम्
परस्परं प्रहृषितौ परिरंभं प्रकुर्वतः । जयं प्राप्तौ तदा वार्तां मुने चक्रतुरुन्मदौ
लव उवाच। भ्रातस्तव प्रसादेन निस्तीर्णो रणतोयधिः । इदानीं वीररणकं शोधयावः सुशोभितम्
इत्युक्त्वा त्वरितं वीरो जग्मतुस्तौ कुशीलवौ । राज्ञो मौलिमणिं चित्रं जग्राह कनकाचितम्
पुष्कलस्य लवो वीरो जग्राह मुकुटं शुभम् । अंगदे च महानर्घ्ये शत्रुघ्नस्यापरस्य च
गृहीत्वा शस्त्रसंघातं हनूमंतं कपीश्वरम् । सुग्रीवं सविधे गत्वा उभावपि बबंधतुः
पुच्छे वायुसुतस्यायं गृहीत्वा तु कुशानुजः । भ्रातरं प्रत्युवाचेदं नेष्यामि स्वकमंदिरम्
आवयोर्जननी प्रीत्यै गृहीत्वा पुच्छके त्वहम् । क्रीडार्थमृषिपुत्राणां कौतुकार्थं ममैव च
एतच्छ्रुत्वा ततो वाक्यमुवाच च कुशो लवम् । अहमेनं ग्रहीष्यामि वानरं बलिनं दृढम्
इत्येवं भाषमाणौ तौ बद्ध्वा तौ बलिनां वरौ । पुच्छयोर्बलिनौ धृत्वा जग्मतुः स्वाश्रमं प्रति
स्वाश्रमाय प्रगच्छंतौ वीक्ष्य तौ कपिसत्तमौ । कंपमानौ जगदतुरन्योन्यं भीतया गिरा
हनूमान्कपिराजानं प्रत्युवाच भयार्द्रधीः । एतौ रामसुतावस्मान्नेष्यतः स्वाश्रमं प्रति
मया पूर्वं कृतं कर्म जानकीं प्रतिगच्छता । तत्र मे जानकी देवी संमुखाभून्मनोहरा
सा मां द्रक्ष्यति वैदेही बद्धं पाशेन वैरिणा । तदा हसिष्यति वरा त्रपा मेऽत्र भविष्यति
मया किमत्र कर्तव्यं प्राणत्यागो भविष्यति । महद्दुःखं चापतितं स रामः किं करिष्यति
सुग्रीवस्तद्वचः श्रुत्वा ममाप्येवं महाकपे । नेष्यते यदि मामेवं निधनं तु भविष्यति
एवं कथयतोरेव ह्यन्योन्यं भयभीतयोः । कुशो लवश्च भवनं मातुः प्रापतुरोजसा
तावायातौ समीक्ष्यैव जहर्ष जननी तयोः । अन्योन्यं परमप्रीत्या परिरेभे निजौ सुतौ
ताभ्यां पुच्छगृहीतौ तौ वानरौ वीक्ष्य जानकी । हनूमंतं च सुग्रीवं सर्ववीरं कपीश्वरम्
जहास पाशबद्धौ तौ वीक्षमाणा वरांगना । उवाच च विमोक्षार्थं वदंती वचनं वरम्
पुत्रौ प्रमुंचतं कीशौ महावीरौ महाबलौ । ईक्षंतौ मां यदि स्फीतौ प्राणत्यागं करिष्यतः
अयं वै हनुमान्वीरो यो ददाह दनोः पुरीम् । अयमप्यृक्षराजो हि सर्ववानरभूमिपः
किमर्थं विधृतौ कुत्र किं वा कृतमनादरात् । पुच्छे युवाभ्यां विधृतौ स महान्विस्मयोऽस्ति मे
इति मातुर्वचः श्लक्ष्णं वीक्ष्यतां पुत्रकौ तदा । ऊचतुर्विनयश्रेष्ठौ महाबलसमन्वितौ
मातः कश्चन भूपालो रामो दाशरथिर्बली । तेन मुक्तो हयः स्वर्णभालपत्रः सुशोभितः
तत्रैवं लिखितं मातरेकवीराप्रसूर्मम । ये क्षत्रियास्ते गृह्णन्तु नोचेत्पादतलार्चकाः