मूर्च्छां प्राप्तं तु तं दृष्ट्वा प्लवंगं बलसंयुतः । विव्याध सायकैस्तीक्ष्णैः सैन्यं तत्सकलं महत्
तस्य बाणायुतैर्भग्नं बलं सर्वं रणांगणे । पलायनपरं जातं चतुरंगसमन्वितम्
तदा कपिपतिः कोपात्सुग्रीवो रक्षको महान् । अभ्यधावन्नगान्नैकानुत्पाट्य कुशमुद्भटम्
कुशः सर्वान्प्रचिच्छेद लीलया प्रहसन्नगान् । पुनरप्यागतान्वृक्षांश्चिच्छेद तरसा बली
अनेकबाणव्यथितः सुग्रीवः समरांगणे । जग्राह पर्वतं घोरं कुशमस्तकमध्यतः
कुशस्तं नगमायांतं वीक्ष्य बाणैरनेकधा । निष्पिपेष चकाराशु महारुद्रांगयोग्यताम्
सुग्रीवस्तन्महत्कर्म दृष्ट्वा बालेन निर्मितम् । जयाशाप्रतिनिर्वृत्तो बभूव समरांगणे
रणमध्ये दुराक्रांतं कुशं लांगूलताडकम् । अत्यमर्षीरुषाक्रांतस्तं हंतुं नगमाददे
आत्मानं हंतुमुद्युक्तं वीक्ष्य सुग्रीवमादरात् । ताडयामास बहुभिः सायकैः शितपर्वभिः
स ताडितो बहुविधैः शरैः पीडासमन्वितः । कुशं हंतुं समारब्धो ययौ शालं समाददे
तदापि च कुशो वीरो वारुणास्त्रं समाददे । बबंध तं च पाशेन दृढेन स लवाग्रजः
स बद्धः पाशकैः स्निग्धैः कुशेन बलशालिना । पपात रणमध्ये वै महावीरैरलंकृते
सुग्रीवं पतितं दृष्ट्वा वीराः सर्वत्र दुद्रुवुः । जयमाप लवभ्राता महावीरशिरोमणिः
तावल्लवो भटाञ्जित्वा पुष्कलं चांगदं तथा । प्रतापाग्र्यं वीरमणिं तथान्यानपि भूभुजः
जयं प्राप्य रणे वीरो लवो भ्रातरमागमत् । संग्रामे जयकर्तारं वैरिकोटिनिपातकम्
परस्परं प्रहृषितौ परिरंभं प्रकुर्वतः । जयं प्राप्तौ तदा वार्तां मुने चक्रतुरुन्मदौ
लव उवाच। भ्रातस्तव प्रसादेन निस्तीर्णो रणतोयधिः । इदानीं वीररणकं शोधयावः सुशोभितम्
इत्युक्त्वा त्वरितं वीरो जग्मतुस्तौ कुशीलवौ । राज्ञो मौलिमणिं चित्रं जग्राह कनकाचितम्
पुष्कलस्य लवो वीरो जग्राह मुकुटं शुभम् । अंगदे च महानर्घ्ये शत्रुघ्नस्यापरस्य च
गृहीत्वा शस्त्रसंघातं हनूमंतं कपीश्वरम् । सुग्रीवं सविधे गत्वा उभावपि बबंधतुः
पुच्छे वायुसुतस्यायं गृहीत्वा तु कुशानुजः । भ्रातरं प्रत्युवाचेदं नेष्यामि स्वकमंदिरम्
आवयोर्जननी प्रीत्यै गृहीत्वा पुच्छके त्वहम् । क्रीडार्थमृषिपुत्राणां कौतुकार्थं ममैव च
एतच्छ्रुत्वा ततो वाक्यमुवाच च कुशो लवम् । अहमेनं ग्रहीष्यामि वानरं बलिनं दृढम्
इत्येवं भाषमाणौ तौ बद्ध्वा तौ बलिनां वरौ । पुच्छयोर्बलिनौ धृत्वा जग्मतुः स्वाश्रमं प्रति
स्वाश्रमाय प्रगच्छंतौ वीक्ष्य तौ कपिसत्तमौ । कंपमानौ जगदतुरन्योन्यं भीतया गिरा
हनूमान्कपिराजानं प्रत्युवाच भयार्द्रधीः । एतौ रामसुतावस्मान्नेष्यतः स्वाश्रमं प्रति
मया पूर्वं कृतं कर्म जानकीं प्रतिगच्छता । तत्र मे जानकी देवी संमुखाभून्मनोहरा
सा मां द्रक्ष्यति वैदेही बद्धं पाशेन वैरिणा । तदा हसिष्यति वरा त्रपा मेऽत्र भविष्यति
मया किमत्र कर्तव्यं प्राणत्यागो भविष्यति । महद्दुःखं चापतितं स रामः किं करिष्यति
सुग्रीवस्तद्वचः श्रुत्वा ममाप्येवं महाकपे । नेष्यते यदि मामेवं निधनं तु भविष्यति