सावधानो भवानत्र भवतु प्रधनांगणे । पातयामि क्षितौ सद्य इत्युक्त्वा स्वशरासने
शरं संरोपयामास घोरं कालानलप्रभम् । लक्षीकृत्य रिपोर्वक्षो विपुलं कठिनं महत्
तं संधितं शरं दृष्ट्वा शत्रुघ्नः कोपमूर्च्छितः । मुमोच बाणान्निशितान्कुशत्वग्भेदकारकान्
स बाणो हृदयं तस्य भेत्तुं तत्प्रचचाल वै । घोररूपो वह्निसमआशीविषवदुच्छ्वसन्
स बाणो नृपवर्येण रामं स्मृत्वाशुलक्षितः । चिच्छेद कुशमुक्तं स सायकं शितपर्वकम्
तदात्यंतं प्रकुपितः कुशो बाणस्य कृंतनात् । अपरं सायकं चापे दधार शितपर्वकम्
स यावत्तदुरो भेत्तुं करोति च बलोद्धुरः । तं तावदच्छिनत्तस्य शरं कालानलप्रभम्
तदा कुशो मातृपादौ स्मृत्वा रोषसमन्वितः । तृतीयं चापके स्वीये दधार शरमद्भुतम्
शत्रुघ्नस्तमपि क्षिप्रं च्छेत्तुं बाणं समाददे । तावद्विद्धः शरेणासौ पपात धरणीतले
हाहाकारो महानासीच्छत्रुघ्ने विनिपातिते । जयमापकुशस्तत्र स्वबाहुबलदर्पितः
शेष उवाच। शत्रुघ्नं पतितं वीक्ष्य सुरथः प्रवरो नृपः । प्रययौ मणिना सृष्टे रथे तिष्ठन्महाद्भुते
पुष्कलस्तु रणे पूर्वं पातितः स विचारयन् । लवं ययौ तदा योद्धुं महावीरबलोन्नतम्
सुरथः कुशमासाद्य बाणान्मुंचन्ननेकधा । व्यथयामास समरे महावीरशिरोमणिः
सुरथं विरथं चक्रे बाणैर्दशभिरुच्छिखैः । धनुश्चिच्छेद तरसा सुदृढं गुणपूरितम्
अस्त्रप्रत्यस्त्रसंहारैः क्षैपणैः प्रतिक्षेपणैः । अभवत्तुमुलं युद्धं वीराणां रोमहर्षणम्
अत्यंतं समरोद्युक्ते सुरथे दुर्जये नृपे । कुशः संचिंतयामास किंकर्तव्यं रणे मया
विचार्य निशितं घोरं सायकं समुपाददे । हननाय नृपस्यास्य महाबलसमन्वितः
तमागतं शरं दृष्ट्वा कालानलसमप्रभम् । छेत्तुं मतिं चकाराशु तावल्लग्नो महाशरः
मुमूर्च्छ समरे वीरो महावीरबलस्ततः । पपात स्यंदनोपस्थे सारथिस्तमुपाहरत्
सुरथे पतिते दृष्ट्वा कुशं जयसमन्वितम् । त्रासयंतं वीरगणानियाय पवनात्मजः
समीरसूनुं प्रबलमायांतं वीक्ष्य वानरम् । जहास दर्शयन्दंतान्कोपयन्निव तं क्रुधा
उवाच च हनूमंतमेहि त्वं मम संमुखम् । भेत्स्ये बाणसहस्रेण मृतो यास्यसि यामिनीम्
इत्युक्तो हनुमाञ्ज्ञात्वा रामसूनुं महाबलम् । स्वामिकार्यं प्रकर्तव्यमिति कृत्वा प्रधावितः
शालमुत्पाट्य तरसा विशालं शतशाखिनम् । कुशं वक्षसि संलक्ष्य ययौ योद्धुं महाबलः
शालहस्तं समायांतं हनूमंतं महाबलम् । त्रिभिः क्षुरप्रैर्विव्याध हृदि चंद्रोपमैर्बली
स बाणविद्धस्तरसा कुशेन बलशालिना । शालेन हृदि संजघ्ने दंतान्निष्पिष्य मारुतिः
शालाहतस्तदा बालः किंचिन्नाकंपत स्मयात् । तदा वीराः प्रशंसां तु प्रचक्रुस्तस्य बाल्यतः
स शालेन हतो वीरः संहारास्त्रं समाददे । संहन्तुं वैरिणं कोपात्कुशः स परमास्त्रवित्
संहारास्त्रं समालोक्य दुर्जयं कुशमोचितम् । दध्यौ रामं स्वमनसा भक्तविघ्नविनाशकम्
तदा मुक्तं कुशेनाशु तदस्त्रं हृदि मारुतेः । लग्नं महाव्यथाकारि तेन मूर्च्छामितः पुनः