तमात्तधनुषं दृष्ट्वा कुशः कोपसमन्वितः । विस्फारयामास धनुः स्वीयं सुदृढमुत्तमम्
मुमोच बाणान्निशिताञ्छत्रुघ्नः सर्वशस्त्रवित् । तांश्चिच्छेद कुशः सर्वांल्लीलया प्रहसन्रणे
बाणाश्च शतसाहस्राः कुशस्य च नृपस्य च । भुवनं व्याप्नुवन्सर्वं तच्चित्रमभवन्मुने
अग्न्यस्त्रेण कुशः सर्वान्ददाह तरसा बली । शमयामास तं भूपः पर्जन्यास्त्रेण वीर्यवान्
शमयामास तं भूपो वायव्येनातिविक्रमः । तदा वायुरभूत्तीव्रः सर्वतो रणमंडले । पर्वतास्त्रेण तं वायुं क्षोभयंतं समावृणोत्
वज्रास्त्रेण नृपः संख्ये चिच्छेद सनगोपलान् । तदा नारायणास्त्रं स मुमोच कुश उद्भटः । नारायणं तदा भूपं नाशकत्परिबाधितुम्
तदा प्रकुपितोऽत्यतं कुशः कोपपरायणः । उवाच भूपं शत्रुघ्नं महाबलपराक्रमम्
जानामि त्वां महावीरं संग्रामे जयकारिणम् । यत्त्वां नारायणास्त्रं मे न बबाधे भयानकम्
इदानीं पातयाम्यद्य भूमौ त्वां नृपते शरैः । त्रिभिश्चेन्नकरोम्येतत्प्रतिज्ञां तर्हि मे शृणु
यो मनुष्यवपुः प्राप्य दुर्लभं पुण्यकोटिभिः । तन्नाद्रियेत संमोहात्तस्य मेस्त्वत्र पातकम्
सावधानो भवानत्र भवतु प्रधनांगणे । पातयामि क्षितौ सद्य इत्युक्त्वा स्वशरासने
शरं संरोपयामास घोरं कालानलप्रभम् । लक्षीकृत्य रिपोर्वक्षो विपुलं कठिनं महत्
तं संधितं शरं दृष्ट्वा शत्रुघ्नः कोपमूर्च्छितः । मुमोच बाणान्निशितान्कुशत्वग्भेदकारकान्
स बाणो हृदयं तस्य भेत्तुं तत्प्रचचाल वै । घोररूपो वह्निसमआशीविषवदुच्छ्वसन्
स बाणो नृपवर्येण रामं स्मृत्वाशुलक्षितः । चिच्छेद कुशमुक्तं स सायकं शितपर्वकम्
तदात्यंतं प्रकुपितः कुशो बाणस्य कृंतनात् । अपरं सायकं चापे दधार शितपर्वकम्
स यावत्तदुरो भेत्तुं करोति च बलोद्धुरः । तं तावदच्छिनत्तस्य शरं कालानलप्रभम्
तदा कुशो मातृपादौ स्मृत्वा रोषसमन्वितः । तृतीयं चापके स्वीये दधार शरमद्भुतम्
शत्रुघ्नस्तमपि क्षिप्रं च्छेत्तुं बाणं समाददे । तावद्विद्धः शरेणासौ पपात धरणीतले
हाहाकारो महानासीच्छत्रुघ्ने विनिपातिते । जयमापकुशस्तत्र स्वबाहुबलदर्पितः
शेष उवाच। शत्रुघ्नं पतितं वीक्ष्य सुरथः प्रवरो नृपः । प्रययौ मणिना सृष्टे रथे तिष्ठन्महाद्भुते
पुष्कलस्तु रणे पूर्वं पातितः स विचारयन् । लवं ययौ तदा योद्धुं महावीरबलोन्नतम्
सुरथः कुशमासाद्य बाणान्मुंचन्ननेकधा । व्यथयामास समरे महावीरशिरोमणिः
सुरथं विरथं चक्रे बाणैर्दशभिरुच्छिखैः । धनुश्चिच्छेद तरसा सुदृढं गुणपूरितम्
अस्त्रप्रत्यस्त्रसंहारैः क्षैपणैः प्रतिक्षेपणैः । अभवत्तुमुलं युद्धं वीराणां रोमहर्षणम्
अत्यंतं समरोद्युक्ते सुरथे दुर्जये नृपे । कुशः संचिंतयामास किंकर्तव्यं रणे मया
विचार्य निशितं घोरं सायकं समुपाददे । हननाय नृपस्यास्य महाबलसमन्वितः
तमागतं शरं दृष्ट्वा कालानलसमप्रभम् । छेत्तुं मतिं चकाराशु तावल्लग्नो महाशरः
मुमूर्च्छ समरे वीरो महावीरबलस्ततः । पपात स्यंदनोपस्थे सारथिस्तमुपाहरत्
सुरथे पतिते दृष्ट्वा कुशं जयसमन्वितम् । त्रासयंतं वीरगणानियाय पवनात्मजः