महादेव उवाच- तच्छ्रुत्वा जांबवान्हृष्टः प्रणनामाथ दंडवत् । परिणीय नमस्कृत्य विनयात्प्राह केशवम्
जांबवानुवाच- धन्योस्मि कृतकृत्योस्मि तव संदर्शनात्प्रभो । दासोऽहं पूर्वभावेन तव देवकिनंदन
दत्तवानसि गोविंद कदनं पूर्वकांक्षितम् । मयेदं कदनं मोहाद्यत्कृतं स्वामिना त्वया । तत्क्षम्यतां जगन्नाथ करुणाकर शाश्वत
महादेव उवाच- इत्युक्त्वा प्रणतो भूत्वा नमस्कृत्य पुनः पुनः । नानारत्नमये पीठे निवेश्य विनयात्प्रभुम्
शारदाब्जनिभौ पादौ प्रक्षाल्य शुभवारिणा । मधुपर्कविधानेन पूजयित्वा यदूद्वहम्
वस्त्रैराभरणैर्दिव्यैः पूजयित्वा विधानतः । पुत्रीं जांबवतीं नाम कन्यां लावण्यसंयुताम्
कन्यारत्नं ददौ तस्मै भार्यार्थममितौजसे । अन्यैश्च मणिमुख्यैश्च स्यमंताख्यं ददौ मणिम्
तत्रैवोद्वाह्य तां कन्यां प्रहृष्टपरवीरहा । ददौ तस्मै परां मुक्तिं प्रीत्या जांबवते हरिः
गृहीत्वा तनयां तस्य कन्यां जांबवतीं मुदा । विनिर्गत्य बिलात्तस्मात्प्रययौ द्वारकां पुरीम्
सत्राजिते ददौ रत्नं स्यमंताख्यं यदूत्तमः । दुहित्रे प्रददौसोऽपि कन्यायै मणिमुत्तमम्
मासि भाद्रपदे शुक्ले चतुर्थ्यां चंद्रदर्शनम् । मिथ्याभिदूषणं प्राहुस्तस्मात्तत्परिवर्जयेत्
प्राप्यते दर्शनं तत्र चतुर्थ्यां शीतगोर्नरः । स्यमंतस्य कथां श्रुत्वा मिथ्यावादात्प्रमुच्यते
सुलक्ष्मणां नाग्नजितीं सुशीलां च यशस्विनीम् । मद्रराजसुतास्तिस्रः कन्यकास्ताः शुभाननाः
स्वयंवरस्थास्ताः कृष्णं वरयामासुरुज्ज्वलाः । एकस्मिन्दिवसे तास्तु उपयेमे यदूद्वहः
अष्टौ महिष्यस्ताः सर्वा रुक्मिण्याद्या महात्मनः । रुक्मिणी सत्यभामा च कालिंदी च शुचिस्मिता
मित्रविंदा जांबवती नाग्नजित्यः सुलक्ष्मणा । सुशीला नाम तन्वंगी महिषी चाष्टमी स्मृता
भूमिपुत्रो महावीर्यो नरको नाम राक्षसः । जित्वा देवपतिं शक्रं सर्वांश्चैव सुरान्रणे
अदित्या देवमातुश्च कुंडले च सुवर्चसी । बलाज्जग्राह देवानां रत्नानि विविधानि च
ऐरावतं महेंद्रस्य तथैवोच्चैःश्रवं हयम् । माणिक्यादि धनेशस्य शंखपद्मनिधिं तथा
स्त्रियश्चाप्सरसश्चैव हृतवान्क्षितिनंदनः । वज्रादिहेतीस्तेषां च बलाद्धृत्वा दिवौकसाम्
तैरेव स सुरान्हत्वा सभां मयविनिर्मिताम् । उवास व्योमगो दिव्यो नगर्यां विमलेंबरे
ततो देवगणाः सर्वे पुरस्कृत्य शचीपतिम् । भयार्ताः शरणं जग्मुः कृष्णमक्लिष्टकारिणम्
कृष्णोऽपि तदुपश्रुत्य सर्वं नरकचेष्टितम् । देवानामभयं दत्वा वैनतेयं व्यचिंतयत्
तस्मिन्क्षणे हरेस्तस्य वैनतेयो महाबलः । प्रांजलिः पुरतस्तस्थौ सर्वदेवनमस्कृतः ५० 6.249.
तमारुह्य द्विजश्रेष्ठं सत्यया सह केशवः । संस्तूयमानो मुनिभिः प्रययौ राक्षसालयम्
प्रदीप्यमानमाकाशे यथा सूर्यस्य मंडलम् । राक्षसैर्बहुभिर्युक्तं दिव्यैराभरणैर्युतम्
ददर्श तत्पुरं कृष्णो दुर्भेद्यं त्रिदशैरपि । तदावरणानि भगवान्वीक्ष्य चक्रेण वीर्यवान्
चिच्छेद तेजसा दीप्त्या तमांसि च दिवाकरः । ततस्ते राक्षसाः सर्वे शतशोऽथ सहस्रशः
उद्यम्य शूलानि तदा युद्धायाभिमुखं ययुः । ततस्तु तोमरैर्दिव्यैर्भिण्डिपालैः सुपट्टिशैः
केशवं ताडयामासुः पलालैरिव पावकम् । ततस्तु शार्ङ्गमादाय भगवान्गरुडध्वजः