एतस्मिन्समये राजा शत्रुघ्नः परतापनः । कुशं वीरं ययौ योद्धुं तादृशं लवसन्निभम्
कुशं दृष्ट्वा बलाक्रांतं राममूर्तिसमप्रभम् । रथे तिष्ठन्हेममये जगाद परवीरहा
शत्रुघ्न उवाच। कोऽसि त्वं सन्निभो भ्रात्रा लवेन सुमहाबलः । किं नामासि महावीर कस्ते तातः क्व ते प्रसूः
कथं वने द्विजैर्जुष्टे तिष्ठसि त्वं नरर्षभ । सर्वं शंस यथायुध्ये त्वया सह महाबल
इति वाक्यं समाकर्ण्य कुशः प्रोवाच भूमिपम् । मेघगंभीरया वाचा नादयन्रणमंडलम्
केवलं सुषुवे सीता पतिव्रतपरायणा । वने वसावो वाल्मीकेश्चरणार्चनतत्परौ
मातृसेवासमुद्युक्तौ सर्वविद्याविशारदौ । कुशो लव इति प्रख्यामागतौ भूपतेऽनघ
कस्त्वं वीरो रणश्लाघी किमर्थं हयसत्तमः । मुक्तोऽस्ति समरे त्वद्य जेतासि बलसंयुतः
युध्यस्व त्वं मया सार्द्धं यदि वीरोऽसि भूमिप । इदानीं पातयिष्यामि भवंतं रणमूर्धनि
शत्रुघ्नस्तं सुतं ज्ञात्वा सीताया रामसंभवम् । विसिष्माय स्वयं चित्ते कोपाद्धनुरुपाददत्
तमात्तधनुषं दृष्ट्वा कुशः कोपसमन्वितः । विस्फारयामास धनुः स्वीयं सुदृढमुत्तमम्
मुमोच बाणान्निशिताञ्छत्रुघ्नः सर्वशस्त्रवित् । तांश्चिच्छेद कुशः सर्वांल्लीलया प्रहसन्रणे
बाणाश्च शतसाहस्राः कुशस्य च नृपस्य च । भुवनं व्याप्नुवन्सर्वं तच्चित्रमभवन्मुने
अग्न्यस्त्रेण कुशः सर्वान्ददाह तरसा बली । शमयामास तं भूपः पर्जन्यास्त्रेण वीर्यवान्
शमयामास तं भूपो वायव्येनातिविक्रमः । तदा वायुरभूत्तीव्रः सर्वतो रणमंडले । पर्वतास्त्रेण तं वायुं क्षोभयंतं समावृणोत्
वज्रास्त्रेण नृपः संख्ये चिच्छेद सनगोपलान् । तदा नारायणास्त्रं स मुमोच कुश उद्भटः । नारायणं तदा भूपं नाशकत्परिबाधितुम्
तदा प्रकुपितोऽत्यतं कुशः कोपपरायणः । उवाच भूपं शत्रुघ्नं महाबलपराक्रमम्
जानामि त्वां महावीरं संग्रामे जयकारिणम् । यत्त्वां नारायणास्त्रं मे न बबाधे भयानकम्
इदानीं पातयाम्यद्य भूमौ त्वां नृपते शरैः । त्रिभिश्चेन्नकरोम्येतत्प्रतिज्ञां तर्हि मे शृणु
यो मनुष्यवपुः प्राप्य दुर्लभं पुण्यकोटिभिः । तन्नाद्रियेत संमोहात्तस्य मेस्त्वत्र पातकम्
सावधानो भवानत्र भवतु प्रधनांगणे । पातयामि क्षितौ सद्य इत्युक्त्वा स्वशरासने
शरं संरोपयामास घोरं कालानलप्रभम् । लक्षीकृत्य रिपोर्वक्षो विपुलं कठिनं महत्
तं संधितं शरं दृष्ट्वा शत्रुघ्नः कोपमूर्च्छितः । मुमोच बाणान्निशितान्कुशत्वग्भेदकारकान्
स बाणो हृदयं तस्य भेत्तुं तत्प्रचचाल वै । घोररूपो वह्निसमआशीविषवदुच्छ्वसन्
स बाणो नृपवर्येण रामं स्मृत्वाशुलक्षितः । चिच्छेद कुशमुक्तं स सायकं शितपर्वकम्
तदात्यंतं प्रकुपितः कुशो बाणस्य कृंतनात् । अपरं सायकं चापे दधार शितपर्वकम्
स यावत्तदुरो भेत्तुं करोति च बलोद्धुरः । तं तावदच्छिनत्तस्य शरं कालानलप्रभम्
तदा कुशो मातृपादौ स्मृत्वा रोषसमन्वितः । तृतीयं चापके स्वीये दधार शरमद्भुतम्
शत्रुघ्नस्तमपि क्षिप्रं च्छेत्तुं बाणं समाददे । तावद्विद्धः शरेणासौ पपात धरणीतले
हाहाकारो महानासीच्छत्रुघ्ने विनिपातिते । जयमापकुशस्तत्र स्वबाहुबलदर्पितः