लवो धृतो नृपेणात्र केनचिद्धयरक्षिणा । बबंध बालको मेत्र हयं यागक्रियोचितम्
तद्रक्षकान्बहूञ्जिग्ये एकोऽनेकान्रिपून्बली । राजा तं मूर्च्छितं कृत्वा बबंध रणमूर्धनि
बालका इति मामूचुः सहगंतार एव हि । ततोऽहं दुःखिता जाता निशम्य लवमाधृतम्
त्वं मोचय बलात्तस्मात्काले प्राप्तो नृपोत्तमात् । निशम्य मातुर्वचनं कुशः कोपसमन्वितः । जगाद तां दशन्नोष्ठं दंतैर्दंतान्विनिष्पिषन्
कुश उवाच। मातर्जानीहि तं मुक्तं लवं पाशस्य बंधनात् । इदानीं हन्मि तं बाणैः समग्रबलवाहनम्
यदि देवोऽमरो वापि यदि शर्वः समागतः । तथापि मोचये तस्माद्बाणैर्निशितपर्वभिः
मा रोदिषि मातरिह वीराणां रणमूर्छितम् । कीर्तयेऽत्र भवत्येव पलायनमकीर्तये
देहि मे कवचं दिव्यं धनुर्गुणसमन्वितम् । शिरस्त्राणं च मे मातः करवालं तथाशितम्
इदानीं यामि समरे पातयामि बलं महत् । मोचयामि भ्रातरं स्वं रणमध्याद्विमूर्छितम्
न मोचयाम्यद्य पुत्रं तव मातर्महारणात् । तदा तौ मे भवत्पादौ संरुष्टौ भवतां क्षितौ
शेष उवाच। इति वाक्येन संतुष्टा जानकी शुभलक्षणा । सर्वं प्रादादस्त्रवृंदं जयाशीर्भिर्नियुज्यतम्
प्रयाहि पुत्र संग्रामं लवं मोचय मूर्च्छितम् । इत्याज्ञप्तः कुशः संख्ये कवची कुंडली बली
मुकुटी करवाली च चर्मधारी धनुर्धरः । अक्षयाविषुधी कृत्वा स्कंधयोः सिंहवीर्ययोः
जगाम तरसा नत्वा मातृपादौ रथाग्रणीः । वेगेन यावद्युद्धाय गच्छति क्षिप्रमाहवे
तावद्ददर्श स्वलवं वैरिवृंदनिपातकम् । आयांतं तं कुशं वीरा ददृशुः सुमहाभटाः
कृतांतमिव संहर्तुं सर्वं विश्वमुपस्थितम् । लवो महाबलं दृष्ट्वा कुशं भ्रातरमागतम्
अत्यंतं वह्निवद्युद्धे दिदीपे वायुना समम् । रथादुन्मुच्य चात्मानं युद्धाय स विनिर्गतः
कुशः सर्वान्रणस्थान्वै वीरान्पूर्वदिशि क्षिपत् । पश्चिमायां दिशि लवः कोपात्सर्वान्समैरयत्
कुशबाणव्यथाव्याप्ता लवसायकपीडिताः । सैन्ये जना मुने सर्वे उत्कल्लोलांबुधिभ्रमाः ४७ उत्कल। कुशेन च लवेनाथ शरव्रातैः प्रपीडितम् । न शर्म लेभे सकलं सैन्यं वीरप्रपूरितम्
इतस्ततः प्रभग्नं तद्बलं त्रस्तं पुनः पुनः । न कुत्रचिद्रणे स्थित्वा युद्धमैच्छद्बलान्वितः
एतस्मिन्समये राजा शत्रुघ्नः परतापनः । कुशं वीरं ययौ योद्धुं तादृशं लवसन्निभम्
कुशं दृष्ट्वा बलाक्रांतं राममूर्तिसमप्रभम् । रथे तिष्ठन्हेममये जगाद परवीरहा
शत्रुघ्न उवाच। कोऽसि त्वं सन्निभो भ्रात्रा लवेन सुमहाबलः । किं नामासि महावीर कस्ते तातः क्व ते प्रसूः
कथं वने द्विजैर्जुष्टे तिष्ठसि त्वं नरर्षभ । सर्वं शंस यथायुध्ये त्वया सह महाबल
इति वाक्यं समाकर्ण्य कुशः प्रोवाच भूमिपम् । मेघगंभीरया वाचा नादयन्रणमंडलम्
केवलं सुषुवे सीता पतिव्रतपरायणा । वने वसावो वाल्मीकेश्चरणार्चनतत्परौ
मातृसेवासमुद्युक्तौ सर्वविद्याविशारदौ । कुशो लव इति प्रख्यामागतौ भूपतेऽनघ
कस्त्वं वीरो रणश्लाघी किमर्थं हयसत्तमः । मुक्तोऽस्ति समरे त्वद्य जेतासि बलसंयुतः
युध्यस्व त्वं मया सार्द्धं यदि वीरोऽसि भूमिप । इदानीं पातयिष्यामि भवंतं रणमूर्धनि
शत्रुघ्नस्तं सुतं ज्ञात्वा सीताया रामसंभवम् । विसिष्माय स्वयं चित्ते कोपाद्धनुरुपाददत्