इति वाक्यं शिशूनां सा समाकर्ण्य सुदारुणम् । पपात भूतलोपस्थे दुःखयुक्ता रुरोद ह
सीतोवाच। कथं नृपो दयाहीनो बालेन सह युध्यति । अधर्मकृतदुर्बुद्धिर्यो मद्बालं न्यपातयत्
लव वीरभवान्कुत्र वर्ततेऽति बलान्वितः । कथं त्वं निष्कृपस्याहो राज्ञोऽहार्षीद्धयोत्तमम्
त्वं बालस्ते दुराक्रांताः सर्वशस्त्रविशारदाः । रथस्था विरथस्त्वं वै कथं युद्धं समं भवेत्
ताताहं तु त्वया सार्द्धं रामत्यागासुखं जहौ । इदानीं रहिता युष्मत्कथं जीवामि कानने
एहि मां मुंच यज्ञाश्वं गच्छत्वेष महीपतिः । मद्दुःखं नाभिजानासि मम दुःखप्रमार्जकः
कुशो यद्यभविष्यत्स रणे वीरशिरोमणिः । अमोचयिष्यदधुना भवंतं भूपपार्श्वतः
सोऽपि मद्दैवतो नास्ति समीपे किं करोम्यतः । दैवमेव ममाप्यत्र कारणं दुःखसंभवे
एवमादि बहुश्रीमत्येषा वै विललाप ह । पादांगुष्ठेन लिखती भूमिं नेत्रद्वयाश्रुभिः
बालान्प्रति जगादासौ पृथुकः स च भूपतिः । कथं मत्सुतमापात्य रणे कुत्र गमिष्यति
इति वाक्यं वदत्येषा जानकी पतिदेवता । तावत्कुशस्तु संप्राप्त उज्जयिन्या महर्षिभिः
माघासितचतुर्दश्यां महाकालं समर्च्य च । प्राप्य भूरिवरांस्तस्मादागमन्मातृसन्निधौ
जानकीं विह्वलां दृष्ट्वा नेत्रोद्भूताश्रु विक्लवाम् । शोकविह्वलदीनांगीं बभाषे यावदुत्सुकः
तदा स्वबाहुरवदत्स्फुरद्युद्धाभिशंसनः । हृदये चरणोत्साहो बभूवातिरथस्य हि
स प्रत्युवाच जननीं दीनगद्गदभाषिणीम् । मातस्तव गतं दुःखं मयि पुत्र उपस्थिते
मयि जीवति ते नेत्रादश्रूणि भुवि नो पतन् । प्रसूमुवाचाश्रुखिन्नां दीनगद्गदभाषिणीम्
कुशो दुःखमितः सद्यो दुःखितां धीरमानसः । मम भ्राता लवः कुत्र वर्तते वैरिमर्दनः
सदा मामागतं ज्ञात्वा प्रहर्षन्सन्निधावियात् । न दृश्यते कथं वीरः कुत्र रंतुं गतो बली
केन वा सह बालत्वाद्गतो मां वै निरीक्षितुम् । किं त्वं रोदिषि मे मातर्लवः कुत्र स वर्तते
तन्मे कथय सर्वं यत्तव दुःखस्य कारणम् । तच्छ्रुत्वा पुत्रवाक्यं सा दुःखिता कुशमब्रवीत्
लवो धृतो नृपेणात्र केनचिद्धयरक्षिणा । बबंध बालको मेत्र हयं यागक्रियोचितम्
तद्रक्षकान्बहूञ्जिग्ये एकोऽनेकान्रिपून्बली । राजा तं मूर्च्छितं कृत्वा बबंध रणमूर्धनि
बालका इति मामूचुः सहगंतार एव हि । ततोऽहं दुःखिता जाता निशम्य लवमाधृतम्
त्वं मोचय बलात्तस्मात्काले प्राप्तो नृपोत्तमात् । निशम्य मातुर्वचनं कुशः कोपसमन्वितः । जगाद तां दशन्नोष्ठं दंतैर्दंतान्विनिष्पिषन्
कुश उवाच। मातर्जानीहि तं मुक्तं लवं पाशस्य बंधनात् । इदानीं हन्मि तं बाणैः समग्रबलवाहनम्
यदि देवोऽमरो वापि यदि शर्वः समागतः । तथापि मोचये तस्माद्बाणैर्निशितपर्वभिः
मा रोदिषि मातरिह वीराणां रणमूर्छितम् । कीर्तयेऽत्र भवत्येव पलायनमकीर्तये
देहि मे कवचं दिव्यं धनुर्गुणसमन्वितम् । शिरस्त्राणं च मे मातः करवालं तथाशितम्
इदानीं यामि समरे पातयामि बलं महत् । मोचयामि भ्रातरं स्वं रणमध्याद्विमूर्छितम्
न मोचयाम्यद्य पुत्रं तव मातर्महारणात् । तदा तौ मे भवत्पादौ संरुष्टौ भवतां क्षितौ