ते बाणवर्षविहता रणमध्ये सुकोपनाः । केचित्पलायिताः केचिन्मुमुहुर्युद्धमंडले
तावत्स राजा शत्रुघ्नो मूर्च्छां संत्यज्य संगरे । लवं प्रायान्महावीरं योद्धुं बलसमन्वितः
आगत्य तं लवं प्राह धन्योसि शिशुसन्निभः । न बालस्त्वं सुरः कश्चिच्छलितुं मां समागतः
केनापि नहि वीरेण पातितो रणमंडले । त्वयाहं प्रापितो मूर्च्छां समक्षं मम पश्यतः
इदानीं पश्य मे वीर्यं त्वां संख्ये पातयाम्यहम् । सहस्व बाणमेकं त्वं मापलायस्व बालक
इत्युक्त्वा समरे बालं शरमेकं समाददे । यमवक्त्रसमं घोरं लवणो येन घातितः
संधाय बाणं जाज्वल्यं हृदि भेत्तुं मनो दधत् । लवं वीरसहस्राणां वह्निवत्सर्वदाहकम्
तं बाणं प्रज्वलंतं स द्योतयंतं दिशो दश । दृष्ट्वा सस्मार बलिनं कुशं वैरिनिपातिनम्
यद्यस्मिन्समये वीरो भ्राता स्याद्बलवान्मम । तदा शत्रुघ्नवशता न मे स्याद्भयमुल्बणम्
एवं तर्कयतस्तस्य लवस्य च महात्मनः । हृदि लग्नो महाबाणो घोरः कालानलोपमः
मूर्च्छां प्राप तदा वीरो भूपसायकसंहतः । संगरे सर्ववीराणां शिरोभिः समलंकृते
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे लवमूर्च्छानाम द्विषष्टितमोऽध्यायः
शेष उवाच। लवं विमूर्च्छितं दृष्ट्वा बलिवैरिविदारणम् । शत्रुघ्नो जयमापेदे रणमूर्ध्नि महाबलः
लवं बालं रथे स्थाप्य शिरस्त्राणाद्यलंकृतम् । रामप्रतिनिधिं मूर्त्या ततो गंतुमियेष सः
स्वमित्रं शत्रुणा ग्रस्तमिति दुःखसमन्विताः । बालामात्रेऽस्य सीतायै त्वरिताः संन्यवेदयन्
बाला ऊचुः। मातर्जानकि ते पुत्रो बलाद्वाहमपाहरत् । कस्यचिद्भूपवर्यस्य बलयुक्तस्य मानिनः
ततो युद्धमभूद्घोरं तस्य सैन्येन जानकि । तदा वीरेण पुत्रेण तव सर्वं निपातितम्
पश्चादपि जयं प्राप्तः सुतस्तव मनोहरः । तं भूपं मूर्छितं कृत्वा जयमाप रणांगणे
ततो मूर्च्छां विहायैष राजा परमदारुणः । संकुप्य पातयामास तव पुत्रं रणांगणे
अस्माभिर्वारितः पूर्वं मा गृहाण हयोत्तमम् । अस्मान्सर्वांश्च धिक्कृत्य ब्राह्मणान्वेदपारगान्
इति वाक्यं शिशूनां सा समाकर्ण्य सुदारुणम् । पपात भूतलोपस्थे दुःखयुक्ता रुरोद ह
सीतोवाच। कथं नृपो दयाहीनो बालेन सह युध्यति । अधर्मकृतदुर्बुद्धिर्यो मद्बालं न्यपातयत्
लव वीरभवान्कुत्र वर्ततेऽति बलान्वितः । कथं त्वं निष्कृपस्याहो राज्ञोऽहार्षीद्धयोत्तमम्
त्वं बालस्ते दुराक्रांताः सर्वशस्त्रविशारदाः । रथस्था विरथस्त्वं वै कथं युद्धं समं भवेत्
ताताहं तु त्वया सार्द्धं रामत्यागासुखं जहौ । इदानीं रहिता युष्मत्कथं जीवामि कानने
एहि मां मुंच यज्ञाश्वं गच्छत्वेष महीपतिः । मद्दुःखं नाभिजानासि मम दुःखप्रमार्जकः
कुशो यद्यभविष्यत्स रणे वीरशिरोमणिः । अमोचयिष्यदधुना भवंतं भूपपार्श्वतः
सोऽपि मद्दैवतो नास्ति समीपे किं करोम्यतः । दैवमेव ममाप्यत्र कारणं दुःखसंभवे
एवमादि बहुश्रीमत्येषा वै विललाप ह । पादांगुष्ठेन लिखती भूमिं नेत्रद्वयाश्रुभिः
बालान्प्रति जगादासौ पृथुकः स च भूपतिः । कथं मत्सुतमापात्य रणे कुत्र गमिष्यति