इत्येवं स विचार्याथ बालकं तु वचोऽब्रवीत् । रणे कुतुककर्तारं वीरकोटिनिपातकम्
कस्त्वं बाल रणेऽस्माकं वीरान्पातयसि क्षितौ । न जानीषे बलं राज्ञो रामस्य दनुजार्दिनः
का ते माता पिता कस्ते सुभाग्यो जयमाप्तवान् । नाम किं विश्रुतं लोके जानीयां ते महाबल
मुञ्च वाहः कथं बद्धः शिशुत्वात्तत्क्षमामि ते । आयाहि रामं वीक्षस्व दास्यते बहुलं तव
इत्युक्तो बालको वीरो वचः शत्रुघ्नमावदत् । किं ते नाम्नाथ पित्रा वा कुलेन वयसा तथा
युध्यस्व समरे वीर चेत्त्वं बलयुतो भवेः । कुशं वीरं नमस्कृत्य पादयोर्याहि नान्यथा
भ्राता रामस्य वीरो भूर्नावयोर्बलिनां वरः । वाहं विमोचय बलाच्छक्तिस्ते विद्यते यदि
इत्युक्त्वा शरसंधानं कृत्वा प्राहरदुद्भटः । हृदये मस्तके चैव भुजयो रणमंडले
तदा प्रकुपितो राजा धनुः सज्यमथाकरोत् । नादयन्मेघगंभीरं त्रासयन्निव बालकम्
बाणानपरिसंख्यातान्मुमोच बलिनां वरः । बालो बलेन चिच्छेद सर्वांस्तान्सायकव्रजान्
लवस्यानेकधा मुक्तैर्बाणैर्व्याप्तं महीतलम् । व्यतीपाते प्रदत्तस्य दानस्येवाक्षयं गताः
ते बाणा व्योमसकलं व्याप्नुवँल्लवसंधिताः । सूर्यमंडलमासाद्य प्रवर्तंते समंततः
मारुतो नाविशद्यत्र बाणपंजरगोचरे । मनुष्याणां तु का वार्ता क्षणजीवितशंसिनाम्
तद्बाणान्विस्तृतान्दृष्ट्वा शत्रुघ्नो विस्मयं गतः । अच्छिनच्छतसाहस्रं बाणमोचनकोविदः
ताञ्छिन्नान्सायकान्सर्वान्स्वीयान्दृष्ट्वा कुशानुजः । धनुश्चिच्छेद तरसा शत्रुघ्नस्य महीपतेः
सोऽन्यद्धनुरुपादाय यावन्मुंचति सायकान् । तावद्बभंज सरथं सायकैः शितपर्वभिः
करस्थमच्छिनच्चापं सुदृढं गुणपूरितम् । तत्कर्मापूजयन्वीरा रणमंडलवर्तिनः
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः । अन्यं रथं समास्थाय ययौ योद्धुं लवं बलात्
अनेकबाणनिर्भिन्नः स्रवद्रक्तकलेवरः । पुष्पितः किंशुक इव शुशुभे रणमध्यगः
शत्रुघ्नबाणप्रहतः परं कोपमुपागमत् । बाणसंधानचतुरः कुंडलीकृत चापवान्
विशीर्णकवचं देहं शिरोमुकुटवर्जितम् । स्रवद्रक्तपरिप्लुष्टं शत्रुघ्नस्य चकार सः
तदा रामानुजः क्रुद्धो दशबाणाञ्छिताग्रकान् । मुमोच प्राणसंहारकारकान्कुपितो भृशम्
स तांस्तांस्तिलशः कृत्वा बाणैर्निशितपर्वभिः । ताडयामास हृदये शत्रुघ्नस्याष्टभिः शरैः
अत्यंतं बाणपीडार्तो लवं बलिनमुत्स्मरन् । दुःसहं मन्यमानस्तं शरान्मुंचन्नभूत्तदा
तदा लवेन तीक्ष्णेन हृदि भिन्नो विशालके । अर्धचंद्रसमानेन तीक्ष्णपर्वसुशोभिना
स विद्धो हृदि बाणेन पीडां प्राप्तः सुदारुणाम् । पपात स्यंदनोपस्थे धनुःपाणिः सुशोभितः
शत्रुघ्नं मूर्छितं दृष्ट्वा नृपाश्च सुरथादयः । दुद्रुवुर्लवमुद्युक्ता जयप्राप्त्यै रणे तदा
सुरथो विमलो वीरो राजा वीरमणिस्तथा । सुमदो रिपुतापाद्याः परिवव्रुश्च संयुगे
केचित्क्षुरप्रैर्मुसलैः केचिद्बाणैः सुदारुणैः । प्रासैः परशुभिः केचित्सर्वतः प्राहरन्नृपाः
तानधर्मेण युद्धोत्कान्दृष्ट्वा वीरशिरोमणिः । दशभिर्दशभिर्बाणैस्ताडयामास संयुगे