ब्रह्मदत्तवरत्वात्तु मूर्च्छा न मरणं नहि । दुःसहा बाणपीडात्र किं कर्तव्यं मयाधुना
शत्रुघ्नः समरे गत्वा जयं प्राप्नोतु बालकात् । अहं तावज्जयाकांक्षी शये कपटमूर्च्छया
इत्येवं मानसे कृत्वा पपात रणमंडले । पश्यतां सर्ववीराणां कपटेन विमूर्च्छितः
तं मूर्च्छितं समाज्ञाय हनूमंतं महाबलम् । जघान सर्वान्नृपतीञ्छरमोक्षविचक्षणः
शेष उवाच। मूर्च्छितं मारुतिं श्रुत्वा शत्रुघ्नः शोकमाययौ । किंकर्तव्यं मया संख्ये बालकोऽयं महाबलः
स्वयं रथे हेममये तिष्ठन्वीरवरैः सह । योद्धुं प्रागाल्लवो यत्र विचित्ररणकोविदः
लवं ददर्श शिशुतां प्राप्तं राममिव क्षितौ । धनुर्बाणकरं वीरान्क्षिपंतं रणमूर्धनि
विचारयामास तदा कोऽयं रामस्वरूपधृक् । नीलोत्पलदलश्यामं वपुर्बिभ्रन्मनोहरम्
एष वै देहतनुजा सुतो भवति नान्यथा । अस्मान्विजित्य समरे यास्यते मृगराडिव
अस्माकं नो जयो भाव्यः शक्त्या विरहितात्मनाम् । अशक्ताः किं करिष्यामः समरे रणकोविदाः
इत्येवं स विचार्याथ बालकं तु वचोऽब्रवीत् । रणे कुतुककर्तारं वीरकोटिनिपातकम्
कस्त्वं बाल रणेऽस्माकं वीरान्पातयसि क्षितौ । न जानीषे बलं राज्ञो रामस्य दनुजार्दिनः
का ते माता पिता कस्ते सुभाग्यो जयमाप्तवान् । नाम किं विश्रुतं लोके जानीयां ते महाबल
मुञ्च वाहः कथं बद्धः शिशुत्वात्तत्क्षमामि ते । आयाहि रामं वीक्षस्व दास्यते बहुलं तव
इत्युक्तो बालको वीरो वचः शत्रुघ्नमावदत् । किं ते नाम्नाथ पित्रा वा कुलेन वयसा तथा
युध्यस्व समरे वीर चेत्त्वं बलयुतो भवेः । कुशं वीरं नमस्कृत्य पादयोर्याहि नान्यथा
भ्राता रामस्य वीरो भूर्नावयोर्बलिनां वरः । वाहं विमोचय बलाच्छक्तिस्ते विद्यते यदि
इत्युक्त्वा शरसंधानं कृत्वा प्राहरदुद्भटः । हृदये मस्तके चैव भुजयो रणमंडले
तदा प्रकुपितो राजा धनुः सज्यमथाकरोत् । नादयन्मेघगंभीरं त्रासयन्निव बालकम्
बाणानपरिसंख्यातान्मुमोच बलिनां वरः । बालो बलेन चिच्छेद सर्वांस्तान्सायकव्रजान्
लवस्यानेकधा मुक्तैर्बाणैर्व्याप्तं महीतलम् । व्यतीपाते प्रदत्तस्य दानस्येवाक्षयं गताः
ते बाणा व्योमसकलं व्याप्नुवँल्लवसंधिताः । सूर्यमंडलमासाद्य प्रवर्तंते समंततः
मारुतो नाविशद्यत्र बाणपंजरगोचरे । मनुष्याणां तु का वार्ता क्षणजीवितशंसिनाम्
तद्बाणान्विस्तृतान्दृष्ट्वा शत्रुघ्नो विस्मयं गतः । अच्छिनच्छतसाहस्रं बाणमोचनकोविदः
ताञ्छिन्नान्सायकान्सर्वान्स्वीयान्दृष्ट्वा कुशानुजः । धनुश्चिच्छेद तरसा शत्रुघ्नस्य महीपतेः
सोऽन्यद्धनुरुपादाय यावन्मुंचति सायकान् । तावद्बभंज सरथं सायकैः शितपर्वभिः
करस्थमच्छिनच्चापं सुदृढं गुणपूरितम् । तत्कर्मापूजयन्वीरा रणमंडलवर्तिनः
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः । अन्यं रथं समास्थाय ययौ योद्धुं लवं बलात्
अनेकबाणनिर्भिन्नः स्रवद्रक्तकलेवरः । पुष्पितः किंशुक इव शुशुभे रणमध्यगः
शत्रुघ्नबाणप्रहतः परं कोपमुपागमत् । बाणसंधानचतुरः कुंडलीकृत चापवान्