पालयात्मानमाजिस्थं मच्छराघातपीडितः । पतिष्यसि महीपृष्ठे रुधिरेण परिप्लुतः
एवमुक्तं समाकर्ण्य पुष्कलः कोपसंयुतः । रणे संयोधयामास लवं वीरं महाबलम्
लवः प्रकुपितो बाणं तीक्ष्णं वैरिविदारणम् । जग्राह लवतः कोशादाशीविषमिव क्रुधा
जाज्वल्यमानः सशरश्चापमुक्तो लवस्य च । हृदयं भेत्तुमुद्युक्तश्छिन्नो भारतिनाशु सः
छिन्ने भारतिना संख्ये शरेण प्राणहारिणा । अत्यंतं कुपितो घोरं शरमन्यं समाददे
आकर्णाकृष्टचापेन स मुक्तो निशितः शरः । बिभेद हृदयं तस्य पुष्कलस्य महारणे
भिन्नो वक्षसि वीरेण सायकेनाशुगामिना । पपात धरणीपृष्ठे महाशूरशिरोमणिः
पतितं तं समालोक्य पुष्कलं पवनात्मजः । गृहीत्वा राघवभ्रात्रे ददौ मूर्च्छासमन्वितम्
मूर्च्छितं तं समालोक्य शोकविह्वलमानसः । हनूमंतं लवं हंतुं निदिदेश क्रुधान्वितः
हनूमान्क्रोधसंप्लुष्टो लवं संख्ये महाबलम् । विजेतुं तरसा प्रागाद्वृक्षमुद्यम्य शाल्मलिम्
वृक्षेण हतवान्मूर्ध्नि लवस्य हनुमान्बली । तमापतंतं तरसा चिच्छेद शतधा लवः
छिन्ने नगे पुनः कोपाद्वृक्षानुत्पाट्य मूलतः । ताडयामास हृदये मस्तके च महाबलः
यान्यान्वृक्षान्समाहृत्याताडयत्पवनात्मजः । तांस्तांश्चिच्छेद तरसा बलवान्नतपर्वभिः
तदा शिलाः समुत्पाट्य गंडशैलोपमाः कपिः । पातयामास शिरसि क्षिप्रवेगेन मारुतिः
स आहतः शिलासंघैः संख्ये कोदंडमुन्नयन् । बाणैस्ताश्चूर्णयामास यंत्रिकाभिर्यथा कणाः
तदात्यंतं प्रकुपितो मारुतिः पुच्छवेष्टनम् । चकार समरोपांते लवस्य बलिनः कृती
स्वं पुच्छेन समाविद्धं वीक्ष्य स्वांबां हृदि स्मरन् । मुष्टिना ताडयामास लांगूलं मारुतेर्बली
तन्मुष्टिघातव्यथितो मारुतिस्तममूमुचत् । स मुक्तः पुच्छतो युद्धे शरान्मुंचन्नभूद्बली
दुर्वारशरघातेन संपीडिततनुः कपिः । बाणवर्षं मन्यमानो दुःसहं समरे बहु
किंकर्तव्यमितोऽस्माभिः पलाय्य यदि गम्यते । तदा मे स्वामिनो लज्जा ताडयेद्बालकोऽत्र माम्
ब्रह्मदत्तवरत्वात्तु मूर्च्छा न मरणं नहि । दुःसहा बाणपीडात्र किं कर्तव्यं मयाधुना
शत्रुघ्नः समरे गत्वा जयं प्राप्नोतु बालकात् । अहं तावज्जयाकांक्षी शये कपटमूर्च्छया
इत्येवं मानसे कृत्वा पपात रणमंडले । पश्यतां सर्ववीराणां कपटेन विमूर्च्छितः
तं मूर्च्छितं समाज्ञाय हनूमंतं महाबलम् । जघान सर्वान्नृपतीञ्छरमोक्षविचक्षणः
शेष उवाच। मूर्च्छितं मारुतिं श्रुत्वा शत्रुघ्नः शोकमाययौ । किंकर्तव्यं मया संख्ये बालकोऽयं महाबलः
स्वयं रथे हेममये तिष्ठन्वीरवरैः सह । योद्धुं प्रागाल्लवो यत्र विचित्ररणकोविदः
लवं ददर्श शिशुतां प्राप्तं राममिव क्षितौ । धनुर्बाणकरं वीरान्क्षिपंतं रणमूर्धनि
विचारयामास तदा कोऽयं रामस्वरूपधृक् । नीलोत्पलदलश्यामं वपुर्बिभ्रन्मनोहरम्
एष वै देहतनुजा सुतो भवति नान्यथा । अस्मान्विजित्य समरे यास्यते मृगराडिव
अस्माकं नो जयो भाव्यः शक्त्या विरहितात्मनाम् । अशक्ताः किं करिष्यामः समरे रणकोविदाः