अनेके पतिता वीरा लवबाणप्रपीडिताः । मुमुहुः समरेऽथान्ये नष्टा अन्ये सुकातराः
पलायनपरं सैन्यं लवबाणप्रपीडितम् । वीक्ष्य वीरो रणे योद्धुं प्रायात्पुष्कलसंज्ञकः
तिष्ठतिष्ठेति च वदन्रोषपूरितलोचनः । रथे सुहयशोभाढ्ये तिष्ठन्प्रायाल्लवं बली
स लवं प्रत्युवाचाथ पुष्कलः परमास्त्रवित् । तिष्ठ दत्ते मया संख्ये रथे सुहयशोभिते
पदातिना त्वया युद्धं करोमि किमथाहवे । तस्मात्तिष्ठ रथे पश्चाद्युद्ध्येऽहं भवता सह । एतद्वाक्यं निशम्यासौ लवः पुष्कलमब्रवीत्
त्वया दत्ते रथे स्थित्वा युद्धं कुर्यामहं रणे । तदा मे पापमेव स्याज्जयः संदिग्ध एव हि
न वयं ब्राह्मणा वीर प्रतिग्रहपरायणाः । वयं तु क्षत्रिया नित्यं दानकर्मक्रियारताः
इदानीं त्वद्रथं कोपाद्भनज्मि प्रत्यहं भवान् । पादचारी भवत्येव पश्चाद्युद्धं करिष्यति
पुष्कलो वाक्यमाकर्ण्य धर्मधैर्यसमन्वितम् । विसिस्माय चिरं चित्ते धनुः सज्यमथाकरोत्
तमात्तधनुषं दृष्ट्वा लवः कोपसमन्वितः । चापं चिच्छेद पाणिस्थं शरसंधानमाचरन्
स यावत्स गुणं चापं कुरुते तावदुद्धतः । रथभंगं चकारास्य समरे प्रहसन्बली
भग्नं रथं स्वकं वीक्ष्य धनुश्छिन्नं महात्मना । महावीरं मन्यमानः पदातिः प्राद्रवद्रणे
उभौ धनुर्धरौ वीरावुभावपि शरोद्धतौ । उभौ क्षतजविप्लुष्टौ छिन्नसन्नाहितावुभौ
परस्परं बाणघातविशीर्णावपुलक्षितौ । जयाकांक्षां प्रकुर्वंतौ परस्परवधैषिणौ
जयंतकार्तिकेयौ वा पुरारिः पुरभिद्यथा । एवं परस्परं युद्धं प्रकुर्वाणौ रणांगणे
पुष्कलः प्रत्युवाचाथ बालं शूरशिरोमणे । त्वादृशो न मया दृष्टः कश्चिद्वीरशिरोमणिः
शिरस्ते पातयाम्यद्य बाणैः शितसुपर्वभिः । मा पलायस्व समरे प्राणान्रक्षस्व संयतः
एवमुक्त्वा लवं वीरं चकार शरपंजरे । पुष्कलस्य शरा भूमौ नभसि व्याप्य संस्थिताः
शरपंजरमध्यस्थो लवः पुष्कलमब्रवीत् । महत्कर्म कृतं वीर यन्मां बाणैरपीडयत्
इत्युक्त्वा बाणसंघातं प्रच्छिद्य वचनं पुनः । जगाद पुष्कलं वीरः शरसंधानकोविदः
पालयात्मानमाजिस्थं मच्छराघातपीडितः । पतिष्यसि महीपृष्ठे रुधिरेण परिप्लुतः
एवमुक्तं समाकर्ण्य पुष्कलः कोपसंयुतः । रणे संयोधयामास लवं वीरं महाबलम्
लवः प्रकुपितो बाणं तीक्ष्णं वैरिविदारणम् । जग्राह लवतः कोशादाशीविषमिव क्रुधा
जाज्वल्यमानः सशरश्चापमुक्तो लवस्य च । हृदयं भेत्तुमुद्युक्तश्छिन्नो भारतिनाशु सः
छिन्ने भारतिना संख्ये शरेण प्राणहारिणा । अत्यंतं कुपितो घोरं शरमन्यं समाददे
आकर्णाकृष्टचापेन स मुक्तो निशितः शरः । बिभेद हृदयं तस्य पुष्कलस्य महारणे
भिन्नो वक्षसि वीरेण सायकेनाशुगामिना । पपात धरणीपृष्ठे महाशूरशिरोमणिः
पतितं तं समालोक्य पुष्कलं पवनात्मजः । गृहीत्वा राघवभ्रात्रे ददौ मूर्च्छासमन्वितम्
मूर्च्छितं तं समालोक्य शोकविह्वलमानसः । हनूमंतं लवं हंतुं निदिदेश क्रुधान्वितः
हनूमान्क्रोधसंप्लुष्टो लवं संख्ये महाबलम् । विजेतुं तरसा प्रागाद्वृक्षमुद्यम्य शाल्मलिम्