केषां कर्णाश्च नासाश्च केषां कवचकुंडले । एवं तु कदनं जातं सेनान्यां पतिते रणे
सर्वे निपतिता वीरा न केचिज्जीवितास्ततः । लवो जयं रणे प्राप्य वैरिवृंदं विजित्य च
अन्यागमनशंकायां मनः कुर्वन्नवैक्षत । केचिदुर्वरिता युद्धाद्भाग्येन न रणे मृताः
शत्रुघ्नं सविधे जग्मुः शंसितुं वृत्तमद्भुतम् । गत्वा ते कथयामासुर्यथावृत्तं रणांगणे
कालजिन्निधनं बालाच्चित्रकारि रणोद्यमम् । तच्छ्रुत्वा विस्मयं प्राप्तः शत्रुघ्नस्तानुवाच ह
हसन्रोषाद्दशन्दंतान्बालग्राह हयं स्मरन् । रे वीराः किं मदोन्मत्ता यूयं किं वा छलग्रहाः
किं वा वैकल्यमायातं कालजिन्मरणं कथम् । यः संख्ये वैरिवृंदानां दारुणः समितिंजयः
तं कथं बालको जीयाद्यमस्यापि दुरासदम् । शत्रुघ्नवाक्यं संश्रुत्य वीराः प्रोचुरसृक्प्लुताः
नास्माकं मदमत्तादि न च्छलो न च देवनम् । कालजिन्मरणं सत्यं लवाज्जानीहि भूपते
बलं च कृत्स्नं मथितं बालेनातुलशौंडिना । अतः परं तु यत्कार्यं ये प्रेष्या नृवरोत्तमाः
बालं ज्ञात्वा भवान्नात्र करोतु बलसाहसम् । इति श्रुत्वा वचस्तेषां वीराणां शत्रुहा तदा
सुमतिं च मतिश्रेष्ठमुवाच रणकारणे
शत्रुघ्न उवाच। जानासि किं महामंत्रिन्को बालो हयमाहरत् । येन मे क्षपितं सर्वं बलं वारिधिसन्निभम्
सुमतिरुवाच। स्वामिन्नयं मुनिश्रेष्ठ वाल्मीकेराश्रमो महान् । क्षत्त्रियाणामत्र वासो नास्त्येव परतापन
इंद्रो भविष्यति परममर्षी हयमाहरत् । पुरारिर्वान्यथा वाहं तव कः समुपाहरेत्
कालजिद्येन नाशं वै प्राप्तः परमदारुणः । तं प्रति श्रीमहाराज गंता कः पुष्कलान्यतः
त्वं च वीरैर्भटैः सर्वैराजभिः परिवारितः । तत्र गच्छस्व सैन्येन महता शत्रुकृंतन
गत्वा स जीवितं वीरं बद्ध्वा तु कुतुकार्थिने । दर्शयिष्यामि रामाय मतं मे त्विदमादृतम्
इति वाक्यं समाकर्ण्य वीरान्सर्वान्समादिशत् । सैन्येन महता यात यूयमायामि पृष्ठतः
निर्दिष्टास्ते क्षणाद्वीरा जग्मुर्यत्र लवो बली । धनुर्विस्फारयंस्तत्र सुदृढं गुणपूरितम्
आयातं तन्महद्दृष्ट्वा बलं वीरप्रपूरितम् । न किंचिन्मनसा बिभ्येलवेन बलशालिना
लवः सिंह इवोत्तस्थौ मृगान्मत्वाऽखिलान्भटान् । धनुर्विस्फारयन्रोषाच्छरान्मुंचन्सहस्रशः
ते शरैः पीड्यमानास्तु महारोषेण पूरिताः । वीरं बालं मन्यमानाः संमुखं प्राद्रवंस्तदा
वीरान्सहस्रशो दृष्ट्वा भ्रमिभिः पर्यवस्थितान् । लवो जवेन संधाय शरान्रोषप्रपूरितः
भ्रमिराद्या सहस्रेण द्वितीयायुतसंख्यया । तृतीयायुतयुग्मेन तुरीयायुतपंचभिः
पंचमी लक्षयोधानां षष्ठी योधायुताधिकैः । सप्तमी लक्षयुग्मेन सप्तभिर्भ्रमिभिर्वृतः
मध्ये लवो भ्रमिव्याप्तः स चरन्वह्निवत्तदा । दाहयामास सर्वान्वै सैनिकान्भ्रमिकारकान्
काचित्खङ्गैः शरैः काचित्काचित्प्रासैश्च कुंतलैः । पट्टिशैः परिघैः सर्वा भ्रमिर्भग्ना महात्मना
सप्तभिर्भ्रमिभिर्मुक्तो रराज स कुशानुजः । मेघवृंदविनिर्मुक्तः शशीव शरदागमे
प्राहरत्सर्वथा योधान्भिंदन्गजकरान्बहून् । छिंदञ्छिरांसि वीराणां चक्रभ्रूणि महांति च