दंतयोश्चरणौ धृत्वा रुरोह गजमस्तके । मुकुटं शतधा कृत्वा कवचं तु सहस्रधा
केशेष्वाकृष्य सेनान्यं पातयामास भूतले । पातितः स गजोपस्थात्सेनानीः कुपितः पुनः
हृदये ताडयामास मुष्टिना वज्रमुष्टिना । स आहतो मुष्टिभिस्तु क्षुरप्रान्निशिताञ्छरान्
मुमोच हृदये क्षिप्रं कुंडलीकृतधन्ववान् । स रराज रणोपांते कुंडलीकृत चापवान्
शिरस्त्रं कवचं बिभ्रदभेद्यं शरकोटिभिः । स विद्धः सायकैस्तीक्ष्णैस्तं हंतुं खड्गमाददे
दशन्रोषात्स्वदशनान्निःश्वसन्नुच्छ्वसन्मुहुः । खड्गहस्तं समायांतं शूरं सेनापतिं लवः
चिच्छेद भुजमध्यं तु स खड्गः पाणिरापतत् । छिन्नं खड्गधरं हस्तं वीक्ष्य कोपाच्चमूपतिः
वामेन गदया हंतुं प्रचक्राम भुजेन तम् । सोऽपि च्छिन्नो भुजस्तस्य सांगदस्तीक्ष्णसायकैः
तदा प्रकुपितो वीरः पादाभ्यामहनल्लवम् । लवः पादाहतस्तस्य न चचाल रणांगणे
स्रजाहतो द्विप इव चरणच्छेदनं व्यधात् । तदापि तं मौलिनासौ प्रहर्तुमुपचक्रमे
तदा लवश्चमूनाथं मन्यमानोऽधिपौरुषम् । करवालं समादाय करे कालानलोपमम्
अच्छिनच्छिर एतस्य महामुकुटशोभितम् । हाहाकारो महानासीच्चमूनाथे निपातिते
सैनिकाः परिसंक्रुद्धा लवं हंतुं समागताः । लवस्तान्स्वशराघातैः पलायनपरान्व्यधात्
छिन्नाभिन्नांगकाः केचिद्गता केचिद्रणांगणात् । स निवार्याखिलान्योधान्विजगाह चमूं मुदा
वाराह इव निःश्वस्य प्रलये सुमहार्णवम् । गजा भिन्ना द्विधा जाता मौक्तिकैः पूरिता मही
दुर्गमाभूद्भटाग्र्याणां पर्वतैर्व्यापृता यथा । अश्वाः कनकपल्याणा रुचिरारत्नराजिताः
अपतन्रुधिराप्लुष्टे ह्रदे बल सुशोभिताः । रथिनः करमध्यस्थ धनुर्दंडसुशोभिनः
रथोपस्थे निपतिताः स्वर्गगा इव वै सुराः । संदष्टौष्ठपुटा वक्त्र भ्रमल्लक्ष्मीविलक्षिताः
पतितास्तत्र दृश्यंते वीरा रणविशारदाः । सुस्राव शोणितसरिद्धयमस्तककच्छपा
महाप्रवाहललिता वैरिणां भयकारिका । केषांचिद्बाहविश्छिन्नाः केषां पादा विकर्तिता
केषां कर्णाश्च नासाश्च केषां कवचकुंडले । एवं तु कदनं जातं सेनान्यां पतिते रणे
सर्वे निपतिता वीरा न केचिज्जीवितास्ततः । लवो जयं रणे प्राप्य वैरिवृंदं विजित्य च
अन्यागमनशंकायां मनः कुर्वन्नवैक्षत । केचिदुर्वरिता युद्धाद्भाग्येन न रणे मृताः
शत्रुघ्नं सविधे जग्मुः शंसितुं वृत्तमद्भुतम् । गत्वा ते कथयामासुर्यथावृत्तं रणांगणे
कालजिन्निधनं बालाच्चित्रकारि रणोद्यमम् । तच्छ्रुत्वा विस्मयं प्राप्तः शत्रुघ्नस्तानुवाच ह
हसन्रोषाद्दशन्दंतान्बालग्राह हयं स्मरन् । रे वीराः किं मदोन्मत्ता यूयं किं वा छलग्रहाः
किं वा वैकल्यमायातं कालजिन्मरणं कथम् । यः संख्ये वैरिवृंदानां दारुणः समितिंजयः
तं कथं बालको जीयाद्यमस्यापि दुरासदम् । शत्रुघ्नवाक्यं संश्रुत्य वीराः प्रोचुरसृक्प्लुताः
नास्माकं मदमत्तादि न च्छलो न च देवनम् । कालजिन्मरणं सत्यं लवाज्जानीहि भूपते
बलं च कृत्स्नं मथितं बालेनातुलशौंडिना । अतः परं तु यत्कार्यं ये प्रेष्या नृवरोत्तमाः