अन्यथा तव मे दौस्थ्याज्जीवितं न भविष्यति । एतद्वाक्यं समाकर्ण्य शत्रुघ्नस्य भटस्य हि
जहास किंचिदाकोपादुवाच च वचोद्भुतम् । गच्छ मुक्तोसि तं रामं कथयस्व हयग्रहम्
त्वत्तो बिभेमि नो शूर वाक्येन नयशालिना । ममात्र गणना नास्ति त्वादृशाः कोटयो यदि
मातृपादप्रसादेन तूलीभूता न संशयः । कालजित्तव यन्नाम मात्राकारि मनोज्ञया
पक्वबिंबफलस्येव वर्णतो न च वीर्यतः । दर्शयस्वाधुना वीर्यं स्वनामबलचिह्नितः
मां कालं तव संजित्य सत्यनामा भविष्यसि । शेष उवाच। स वाक्यैः पविनातुल्यैर्भिन्नः सुभटशेखरः
चुकोप हृदयेऽत्यतं जगाद वचनं पुनः । कस्मिन्कुले समुत्पत्तिः किं नामासि च बालक । त्वन्नाम नाभिजानामि कुलं शीलं वयस्तथा
पादचारं रथस्थोऽहमधर्मेण कथं जये । तदात्यंतं प्रकुपितो जगाद वचनं पुनः
कुलेन किं च शीलेन नाम्ना वा सुमनोहृदा । लवोऽहं लवतः सर्वाञ्जेष्यामि रिपुसैनिकान्
इदानीं त्वामपि भटं करिष्ये पादचारिणम् । इत्थमुक्त्वा धनुः सज्यं चकार स लवो बली
टंकारयामास तदा वीरानाकंपयन्हृदि । वाल्मीकिं प्रथमं स्मृत्वा जानकीं मातरं लवः
मुमोच बाणान्निशितान्सद्यः प्राणापहारिणः । कालजित्स्वधनुः कृत्वा सज्यं कोपसमन्वितः
ताडयामास जवनो लवं रणविशारदः । तद्बाणाञ्छतधा छित्त्वा क्षणाद्वेगात्कुशानुजः
सेनान्यं विरथं चक्रे वसुभिः स्वशरोत्तमैः । विरथो गजमानीतमारुरोह भटैर्निजैः
मदोन्मत्तं महावेगं सप्तधा प्रस्रवान्वितम् । गजारूढं तु तं दृष्ट्वा दशभिर्धनुषोगतैः
बाणैर्विव्याध विहसन्सर्वान्रिपुगणाञ्जयी । कालजित्तस्य वीर्यं तु दृष्ट्वा विस्मितमानसः
गदां मुमोच महतीं महायस विनिर्मिताम् । आपतंतीं गदां वेगाद्भारायुतविनिर्मिताम्
त्रिधा चिच्छेद तरसा क्षुरप्रैः सकुशानुजः । परिघं निशितं घोरं वैरिप्राणहरोदितम्
मुक्तं पुनस्तेन लवश्चिच्छेद तरसान्वितः । छित्त्वा तत्परिघं घोरं कोपादारक्तलोचनः
गजोपस्थे समारूढं मन्यमानश्चुकोप ह । तत्क्षणादच्छिनत्तस्य शुंडां खड्गेन दंतिनः
दंतयोश्चरणौ धृत्वा रुरोह गजमस्तके । मुकुटं शतधा कृत्वा कवचं तु सहस्रधा
केशेष्वाकृष्य सेनान्यं पातयामास भूतले । पातितः स गजोपस्थात्सेनानीः कुपितः पुनः
हृदये ताडयामास मुष्टिना वज्रमुष्टिना । स आहतो मुष्टिभिस्तु क्षुरप्रान्निशिताञ्छरान्
मुमोच हृदये क्षिप्रं कुंडलीकृतधन्ववान् । स रराज रणोपांते कुंडलीकृत चापवान्
शिरस्त्रं कवचं बिभ्रदभेद्यं शरकोटिभिः । स विद्धः सायकैस्तीक्ष्णैस्तं हंतुं खड्गमाददे
दशन्रोषात्स्वदशनान्निःश्वसन्नुच्छ्वसन्मुहुः । खड्गहस्तं समायांतं शूरं सेनापतिं लवः
चिच्छेद भुजमध्यं तु स खड्गः पाणिरापतत् । छिन्नं खड्गधरं हस्तं वीक्ष्य कोपाच्चमूपतिः
वामेन गदया हंतुं प्रचक्राम भुजेन तम् । सोऽपि च्छिन्नो भुजस्तस्य सांगदस्तीक्ष्णसायकैः
तदा प्रकुपितो वीरः पादाभ्यामहनल्लवम् । लवः पादाहतस्तस्य न चचाल रणांगणे
स्रजाहतो द्विप इव चरणच्छेदनं व्यधात् । तदापि तं मौलिनासौ प्रहर्तुमुपचक्रमे