जपंती रामरामेति मनसा वचसा स्वयम् । निनाय दिवसांस्तत्र जानकी पतिदेवता
काले सासूत पूत्रौ द्वौ मनोहरवपुर्धरौ । रामचंद्र प्रतिनिधी ह्यश्विनाविव जानकी
तच्छ्रुत्वा तु मुनिर्हृष्टो जानक्याः पुत्रसंभवम् । चकार जातकर्मादि संस्कारान्मंत्रवित्तमः
कुशैर्लवैश्च वाल्मीकिर्मुनिः कर्माणि चाचरत् । तन्नाम्ना पुत्रयोराख्या कुशो लव इति स्फुटा
वाल्मीकिर्यत्र विरजा मंगलं तद्यथाचरत् । अत्यंतं हृष्टचित्ता सा बभूव कमलेक्षणा
तद्दिने लवणं हत्वा शत्रुघ्नः स्वल्पसैनिकः । आगमच्चाश्रमे चास्य वाल्मीकेर्निशि शोभने
तदा वाल्मीकिना शिष्टः शत्रुघ्नो रघुनायकम् । मा शंस जानकीपुत्रौ कथयिष्याम्यहं पुरः
जानकीपुत्रकौ तत्र ववृधाते मनोरमौ । कंदमूलफलैः पुष्टौ व्यदधादुन्मदौ वरौ
शुक्लप्रतिपदायाश्च शशीव सुमनोहरौ । कालेन संस्कृतौ जातावुपनीतौ मनोहरौ
उपनीयमुनिर्वेदं सांगमध्यापयत्सुतौ । सरहस्यं धनुर्वेदं रामायणमपाठयत्
वाल्मीकिना च धनुषी दत्ते स्वर्णसुभूषिते । अभेद्ये सगुणे श्रेष्ठे वैरिवृंदविदारणे
इषुधी बाणसंपूर्णौ अक्षये करवालके । चर्माण्यभेद्यानि ददौ जानक्यात्मजयोस्तदा
धनुर्धरौ धनुर्वेदपारगावाश्रमे मुदा । चरंतौ तत्र रेजाते अश्विनाविव शोभनौ
जानकी वीक्ष्य पुत्रौ द्वौ खड्गचर्मधरौ वरौ । परमं हर्षमापन्ना विरहोद्भवमत्यजत्
एष ते कथितो विप्र जानक्याः पुत्रसंभवः । अतः शृणुष्व यद्वृत्तं वीरबाहुविकृंतनम्
शेष उवाच। शत्रुघ्नो निजवीराणां छिन्नान्बाहून्निरीक्षयन् । उवाच तान्सुकुपितो रोषसंदंशिताधरः
केन वीरेण वो बाहुकृंतनं समकारि भोः । तस्याहं बाहू कृंतामि देवगुप्तस्य वै भटाः
न जानाति महामूढो रामचंद्र बलं महत् । इदानीं दर्शयिष्यामि पराक्रांत्या बलं स्वकम्
स कुत्र वर्तते वीरो हयः कुत्र मनोरमः । को वाऽगृह्णात्सुप्तसर्पान्मूढो ज्ञात्वा पराक्रमम्
इति ते कथिता वीरा विस्मिता दुःखिता भृशम् । रामचंद्र प्रतिनिधिं बालकं समशंसत
स श्रुत्वा रोषताम्राक्षो बालकेन हयग्रहम् । सेनान्यं वै कालजितमाज्ञापयद्युयुत्सुकः
सेनानीः सकलां सेनां व्यूहयस्व ममाज्ञया । रिपुः संप्रति गंतव्यो महाबलपराक्रमः
नायं बालो हरिर्नूनं भविष्यति हयंधरः । अथवा त्रिपुरारिः स्यान्नान्यथा मद्धयापहृत्
अवश्यं कदनं भाविसैन्यस्य बलिनो महत् । स्वच्छंदचरितैः खेलन्नास्ते निर्भयधीः शिशुः
तत्र गंतव्यमस्माभिः सन्नद्धै रिपुदुर्जयैः । एतन्निशम्य वचनं शत्रुघ्नस्य ससैन्यपः
सज्जीचकार सेनां तां दुर्व्यूढां चतुरंगिणीम् । सज्जां तां शत्रुजिद्दृष्ट्वा चतुरंगयुतां वराम्
आज्ञापयत्ततो गंतुं यत्र बालो हयंधरः । सा चचाल तदा सेना चतुरंगसमन्विता
कंपयंती महीभागं त्रासयंती रिपून्बलात् । सेनानीस्तं ददर्शाथ बालकं रामरूपिणम्
विचार्य रामप्रतिममब्रवीद्वचनं हितम् । बाल मुंच हयश्रेष्ठं रामस्य बलशालिनः
सेनानीः कालजिन्नाम तस्य भूपस्य दुर्मदः । त्वां रामप्रतिमं दृष्ट्वा कृपा मे हृदि जायते