वाल्मीकिं मां विजानीहि पितुस्तव गुरुं मुनिम् । दुःखं मा कुरु वैदेहि ह्यागच्छ मम चाश्रमम्
भिन्नस्थाने पितुर्गेहं जानीहि पतिदेवते । ईदृशे कर्मणि मम रोषोस्त्वेव महीपतेः
एवं वचः समाकर्ण्य जानकी पतिदेवता । दुःखपूर्णाश्रुवदना किंचित्सुखमवाप सा
शेष उवाच। वाल्मीकिः सांत्वयित्वैनां दुःखपूराकुलेक्षणाम् । निनाय स्वाश्रमं पुण्यं तापसीवृन्दपूरितम्
सा गच्छंती पृष्ठतोऽस्य वाल्मीकेस्तपसां निधेः । रराजेंदोः पृष्ठतो वै तारकेव मनोहरा
वाल्मीकिः प्राप्य च स्वीयमाश्रमं मुनिपूरितम् । तापसीः प्रतिसंचख्यौ जानकीं स्वाश्रमं गताम्
वैदेही तापसीः सर्वा नमश्चक्रे महामनाः । परस्परं प्रहृषिताः परिरंभं समाचरन्
वाल्मीकिर्निजशिष्यान्स प्रत्युवाच तपोनिधिः । रच्यतां बत जानक्याः पर्णशाला मनोरमा
इत्युक्तं वाक्यमाकर्ण्य वाल्मीकेः सुमनोरमम् । व्यरचन्पत्रकैः शालां दारुभिः सुमनोहराम्
तत्रावसद्धि वैदेही पतिव्रतपरायणा । वाल्मीकेः परिचर्यां च कुर्वंती फलभक्षिका
जपंती रामरामेति मनसा वचसा स्वयम् । निनाय दिवसांस्तत्र जानकी पतिदेवता
काले सासूत पूत्रौ द्वौ मनोहरवपुर्धरौ । रामचंद्र प्रतिनिधी ह्यश्विनाविव जानकी
तच्छ्रुत्वा तु मुनिर्हृष्टो जानक्याः पुत्रसंभवम् । चकार जातकर्मादि संस्कारान्मंत्रवित्तमः
कुशैर्लवैश्च वाल्मीकिर्मुनिः कर्माणि चाचरत् । तन्नाम्ना पुत्रयोराख्या कुशो लव इति स्फुटा
वाल्मीकिर्यत्र विरजा मंगलं तद्यथाचरत् । अत्यंतं हृष्टचित्ता सा बभूव कमलेक्षणा
तद्दिने लवणं हत्वा शत्रुघ्नः स्वल्पसैनिकः । आगमच्चाश्रमे चास्य वाल्मीकेर्निशि शोभने
तदा वाल्मीकिना शिष्टः शत्रुघ्नो रघुनायकम् । मा शंस जानकीपुत्रौ कथयिष्याम्यहं पुरः
जानकीपुत्रकौ तत्र ववृधाते मनोरमौ । कंदमूलफलैः पुष्टौ व्यदधादुन्मदौ वरौ
शुक्लप्रतिपदायाश्च शशीव सुमनोहरौ । कालेन संस्कृतौ जातावुपनीतौ मनोहरौ
उपनीयमुनिर्वेदं सांगमध्यापयत्सुतौ । सरहस्यं धनुर्वेदं रामायणमपाठयत्
वाल्मीकिना च धनुषी दत्ते स्वर्णसुभूषिते । अभेद्ये सगुणे श्रेष्ठे वैरिवृंदविदारणे
इषुधी बाणसंपूर्णौ अक्षये करवालके । चर्माण्यभेद्यानि ददौ जानक्यात्मजयोस्तदा
धनुर्धरौ धनुर्वेदपारगावाश्रमे मुदा । चरंतौ तत्र रेजाते अश्विनाविव शोभनौ
जानकी वीक्ष्य पुत्रौ द्वौ खड्गचर्मधरौ वरौ । परमं हर्षमापन्ना विरहोद्भवमत्यजत्
एष ते कथितो विप्र जानक्याः पुत्रसंभवः । अतः शृणुष्व यद्वृत्तं वीरबाहुविकृंतनम्
शेष उवाच। शत्रुघ्नो निजवीराणां छिन्नान्बाहून्निरीक्षयन् । उवाच तान्सुकुपितो रोषसंदंशिताधरः
केन वीरेण वो बाहुकृंतनं समकारि भोः । तस्याहं बाहू कृंतामि देवगुप्तस्य वै भटाः
न जानाति महामूढो रामचंद्र बलं महत् । इदानीं दर्शयिष्यामि पराक्रांत्या बलं स्वकम्
स कुत्र वर्तते वीरो हयः कुत्र मनोरमः । को वाऽगृह्णात्सुप्तसर्पान्मूढो ज्ञात्वा पराक्रमम्
इति ते कथिता वीरा विस्मिता दुःखिता भृशम् । रामचंद्र प्रतिनिधिं बालकं समशंसत