शिष्यान्प्रति जगादाथ पश्यंतु वनमध्यतः । को रोदिति महाघोरे विपिने दुःखितस्वरः
ते प्रयुक्ताश्च मुनिना संजग्मुर्यत्र जानकी । रामरामेति भाषंती बाष्पपूरपरिप्लुता
तां दृष्ट्वा स्त्रियमौत्सुक्याद्वाल्मीकिं प्रत्यगुर्मुनिम् । श्रुत्वा तदीरितं वाक्यं जगामासौ ततो मुनिः
दृष्ट्वा तं तपसां राशिं जानकी पतिदेवता । नमोस्तु मुनये वेदमूर्तये व्रतवार्धये
इत्युक्तवंतीं तां सीतामाशीर्भिरभ्यनंदयत् । भर्त्रा सह चिरंजीव पुत्रौ प्राप्नुहि शोभनौ
कासि त्वं किं वने घोरे संगतासि किमीदृशी । सर्वं मे शंस जानीयां तव दुःखस्य कारणम्
सा तदा प्रत्युवाचेमं रामस्य महिला मुनिम् । निःश्वसंती करुणया गिरासंजातवेपथुः
शृणु मे वाक्यमर्थोक्तं सर्वदुःखस्य कारणम् । जानीहि मां भूमिपते रघुनाथस्य सेवकीम्
अपराधं विना त्यक्ता न जाने तत्र कारणम् । लक्ष्मणो मां विमुच्यात्र गतवान्राघवाज्ञया
इत्युक्त्वाश्रुकलापूर्णं बिभ्रतीं मुखपंकजम् । वाल्मीकिः सांत्वयन्प्राह जानकीं कमलेक्षणाम्
वाल्मीकिं मां विजानीहि पितुस्तव गुरुं मुनिम् । दुःखं मा कुरु वैदेहि ह्यागच्छ मम चाश्रमम्
भिन्नस्थाने पितुर्गेहं जानीहि पतिदेवते । ईदृशे कर्मणि मम रोषोस्त्वेव महीपतेः
एवं वचः समाकर्ण्य जानकी पतिदेवता । दुःखपूर्णाश्रुवदना किंचित्सुखमवाप सा
शेष उवाच। वाल्मीकिः सांत्वयित्वैनां दुःखपूराकुलेक्षणाम् । निनाय स्वाश्रमं पुण्यं तापसीवृन्दपूरितम्
सा गच्छंती पृष्ठतोऽस्य वाल्मीकेस्तपसां निधेः । रराजेंदोः पृष्ठतो वै तारकेव मनोहरा
वाल्मीकिः प्राप्य च स्वीयमाश्रमं मुनिपूरितम् । तापसीः प्रतिसंचख्यौ जानकीं स्वाश्रमं गताम्
वैदेही तापसीः सर्वा नमश्चक्रे महामनाः । परस्परं प्रहृषिताः परिरंभं समाचरन्
वाल्मीकिर्निजशिष्यान्स प्रत्युवाच तपोनिधिः । रच्यतां बत जानक्याः पर्णशाला मनोरमा
इत्युक्तं वाक्यमाकर्ण्य वाल्मीकेः सुमनोरमम् । व्यरचन्पत्रकैः शालां दारुभिः सुमनोहराम्
तत्रावसद्धि वैदेही पतिव्रतपरायणा । वाल्मीकेः परिचर्यां च कुर्वंती फलभक्षिका
जपंती रामरामेति मनसा वचसा स्वयम् । निनाय दिवसांस्तत्र जानकी पतिदेवता
काले सासूत पूत्रौ द्वौ मनोहरवपुर्धरौ । रामचंद्र प्रतिनिधी ह्यश्विनाविव जानकी
तच्छ्रुत्वा तु मुनिर्हृष्टो जानक्याः पुत्रसंभवम् । चकार जातकर्मादि संस्कारान्मंत्रवित्तमः
कुशैर्लवैश्च वाल्मीकिर्मुनिः कर्माणि चाचरत् । तन्नाम्ना पुत्रयोराख्या कुशो लव इति स्फुटा
वाल्मीकिर्यत्र विरजा मंगलं तद्यथाचरत् । अत्यंतं हृष्टचित्ता सा बभूव कमलेक्षणा
तद्दिने लवणं हत्वा शत्रुघ्नः स्वल्पसैनिकः । आगमच्चाश्रमे चास्य वाल्मीकेर्निशि शोभने
तदा वाल्मीकिना शिष्टः शत्रुघ्नो रघुनायकम् । मा शंस जानकीपुत्रौ कथयिष्याम्यहं पुरः
जानकीपुत्रकौ तत्र ववृधाते मनोरमौ । कंदमूलफलैः पुष्टौ व्यदधादुन्मदौ वरौ
शुक्लप्रतिपदायाश्च शशीव सुमनोहरौ । कालेन संस्कृतौ जातावुपनीतौ मनोहरौ
उपनीयमुनिर्वेदं सांगमध्यापयत्सुतौ । सरहस्यं धनुर्वेदं रामायणमपाठयत्