मुहूर्तेनापि संज्ञां सा प्राप्य दुःखपरिप्लुता । जगाद रामचरणौ स्मंरती शोकविक्षता
रघुनाथो महाबुद्धिस्त्यजते मां कथं महान् । यो मदर्थे पयोराशिं बद्धवान्वानरैर्युतः
स कथं मां महावीरो निष्पापां रजकोक्तितः । त्यजिष्यति ममैवात्र दैवं तु प्रतिकूलितम्
एवं वदन्ती पुनरपि मूर्च्छां प्राप्ता विदेहजा । मूर्च्छितां तां समीक्ष्याथ रुरोद विकृतस्वरः
पुनः संज्ञामवाप्यैवं सौमित्रिं निजगाद सा । दुःखातुरं वीक्षमाणा रुद्धकंठं सुदुःखिता
सौमित्रे गच्छ रामं त्वं धर्ममूर्तिं यशोनिधिम् । मद्वाक्यमेवैतद्ब्रूयाः समक्षं तपसां निधेः
मां तत्याज भवान्यद्वै जानन्नपि विपापिनीम् । कुलस्य सदृशं किं वा शास्त्रज्ञानस्य तत्फलम्
नित्यं तव पदे रक्तां त्वदुच्छिष्टभुजं हि माम् । भवांस्तत्याज तत्सर्वं मम दैवं तु कारणम्
कल्याणं तव सर्वत्र भूयाद्वीरवरोत्तम । अहं तावद्वने त्वां हि स्मरंती प्राणधारिका
मनसा कर्मणा वाचा भवानेव ममोत्तमः । अन्ये तुच्छीकृताः सर्वे मनसा रघुवंशज
भवेभवे भवानेव पतिर्भूयान्महीश्वर । त्वत्पदस्मरणानेक हतपापा सतीश्वरी
श्वश्रूजनं ब्रूहि सर्वं मत्संदेशं रघूत्तम । त्यक्ता वने महाघोरे रामेण निरघा सती
स्मरामि चरणौ युष्मद्वने मृगगणैर्युते । अंतर्वत्नी वने त्यक्ता रामेण सुमहात्मना
सौमित्रे शृणु मद्वाक्यं भद्रं भूयाद्रघूत्तमे । इदानीं संत्यजे प्राणान्रामवीर्यं सुरक्षती
त्वं रामवचनं तथ्यं यत्करोषि शुभं तव । परतंत्त्रेण तत्कार्यं रामपादाब्जसेविना
गच्छ त्वं राम सविधे शिवाः पंथान एव ते । ममोपरि कृपा कार्या स्मर्तव्याहं कदा कदा
इत्युक्त्वा मूर्च्छिता भूमौ पपात पुरतस्तदा । लक्ष्मणो दुःखमापेदे वीक्ष्य मूर्च्छितजानकीम्
वीजयामास वासोग्रैः संज्ञां प्राप्तां प्रकृत्य च । सौमित्रिः सांत्वयामास वचनैर्मधुरैर्मुहुः
लक्ष्मण उवाच। एष गच्छामि रामं वै गत्वा शंसामि सर्वशः । समीपे ते मुनेरस्ति वाल्मीकेराश्रमो महान्
इत्युक्त्वा तां परिक्रम्य दुःखितो बाष्पपूरितः । मुंचन्नश्रुकलां दुःखाद्ययौ रामं महीपतिम्
जानकी देवरं यांतं वीक्ष्य विस्मितलोचना । हसत्ययं महाभागो लक्ष्मणो देवरो मम
कथं मां प्राणतः प्रेष्ठां विपापां राघवोऽत्यजत् । इति संचिंतयंती सा तमैक्षदनिमेषणा
जाह्नवीं सर्वथोत्तीर्णां ज्ञात्वा सत्यं स्वहापनम् । पतिता प्राणसंदेहं प्राप्ता मूर्च्छां गता तदा
तदा हंसाः स्वपक्षाभ्यां जलमानीय सर्वतः । सिषिचुर्मधुरो वायुर्ववौ पुष्पसुगंधिमान्
करिणः पुष्करैः स्वीयैर्जलपूर्णैः समंततः । व्याप्तं शरीरं रजसा क्षालयंत इवागताः
मृगास्तदंतिकं प्राप्य संतस्थुर्विस्मितेक्षणाः । नगाः पुष्पयुता आसंस्तत्कालं मधुना विना
एतस्मिन्समये वृत्ते संज्ञां प्राप्य तदा सती । विललाप सुदुःखार्ता रामरामेति जल्पती
हा नाथ दीनबंधो हे करुणामयसंनिधे । अपराधादृते मां त्वं कथं त्यजसि वै वने
इत्येवमादिभाषंती विलपंती मुहुर्मुहुः । इतस्ततः प्रपश्यंती संमूर्च्छंती पुनःपुनः
तदा स्वशिष्यैर्भगवान्वाल्मीकिः संगतो वनम् । शुश्राव रुदितं तत्र करुणास्वरभाषितम्